________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
श्रीशारीरकमीमांसाभाष्ये मानोऽस्य ब्रह्मत्वे प्रयोगान्तरनिरपेक्षं पर्याप्तं लिङ्गमित्याह-लिङ्ग च-इति। निषादस्थपतिन्यायाच षष्ठीसमासात्समानाधिकरणसमासो न्याय्यः॥ _ अथवा १“अहरहर्गच्छन्त्यः" इति न सुषुप्तिविषयं गमनमुच्यते । अपित्वन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छन्त्यः सर्वस्मिन्काले वर्तमानाः तमजानत्यस्तं न विन्दन्ति-न लभन्ते; यथा हिरण्यनिधिं निहितं तत्स्थानमजानानास्तदुपरि सर्वदा वर्तमाना अपि न लभन्ते, दद्वदित्यर्थः । सेयमेवमन्तरात्मत्वेन स्थितस्य दहराकाशस्योपरि तन्नियमितानां सर्वासां प्रजानामजानतीनां सर्वदा गतिरस्य दहाराकाशस्य परब्रह्मतां गमयति । तथाजन्यत्र परस्य ब्रह्मणोऽन्तरात्मतयाऽवस्थितस्य स्वनियाम्याभिस्वस्मिन्वतमानाभिः प्रजाभिरवेदनं दृष्टम् । यथा अन्तर्यामिब्राह्मणेर “य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति" इति, "अदृष्टो द्रष्टा अश्रुतश्श्रोता"इति च।मा भूदन्यत्र दर्शनम्। खयमेव त्वियं निधिदृष्टान्तावगतपरमपुरुषार्थभावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वदा सर्वासां प्रजानामजानातीनां गतिरस्य परब्रह्मत्वे पर्याप्त लिङ्गम् ॥ १४ ॥
इतश्च दहराकाशः परं ब्रह्मधतेश्च महिम्नोऽस्यास्मिन्नपलब्धेः।१।३।१५॥
४"अथ य आत्मा"इति प्रकृतं दहराकाशं निर्दिश्य ४"स सेतुर्विधूतिरेषां लोकानामसम्भदाय" इत्यस्मिञ्जगद्विधरणं श्रूयमाणं दहराकाशस्य परब्रह्मतां गमयति ; जगद्विधरणं हि परस्य ब्रह्मणो महिमा ५“एष सर्वेश्वर एष सर्वभूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोका१. छा, ८-३-२॥
३. 1. ५-७-२३ ॥ २. १. ५-७-२२ मा. पा ॥ | ४. छा. ८.४.१॥ ५. १. ६.४.२२ ॥
For Private And Personal Use Only