________________
Shri Mahavir Jain Aradhana Kendra
पा. ३. ]
www.kobatirth.org
૨૦૦
दहराधिकरणम् न्गुणान्विजानताम्मुदारगुणसागरस्य तस्य परमपुरुषस्य प्रसादादेव सर्वकामावाप्तिस्सत्यसङ्कल्पता चोच्यते। अतो दहराकाशः परं ब्रह्म, तदन्तर्वर्ति चापहतपाप्मत्वादि काम्यगुणजातम्, तदुभयमन्वेष्टव्यं विजिज्ञासितव्यमितिचोच्यत इति निश्चीयते । तदेतद्वाक्यकारोऽपि स्पष्टयति" तस्मिन्यदन्तरिति कामव्यपदेशः " इत्यादिना । अन एतेभ्यो हेतुभ्यो दहराकाशः परमेव ब्रह्म ॥ १३ ॥
गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥१३॥१४ ॥
१. वाक्यकारः ॥
२. छा. ८-३-२ ॥ ३. छा. ६-९-२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इतश्च दहराकाशः परं ब्रह्म २" तद्यथा हिरण्यनिधिं निहितमक्षेज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूहाः" इति एतमिति प्रकृतं दहराकाशं निर्दिश्य तत्त्राहरहस्सर्वेषां क्षेत्रज्ञानां गमनम्, गन्तव्यस्य तस्य दहराकाशस्य ब्रह्मलोकशब्दनिर्देशश्च दहराकाशस्य परब्रह्मतां गमयतः । कथमनयोरस्य परब्रह्मत्वसाधकत्वमित्यत आह- तथाहि दृष्टम् - इति|परस्मिन्ब्रह्मणि सर्वेषां क्षेत्रज्ञानामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम् - ३" एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य नविदुस्सति सम्पत्स्यामहे इति" इति “सत आगम्य न विदुरसत आगच्छामह इति" इति च । तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मणि दृष्टः ५ " एष ब्रह्मलोकः सम्राडितिहोवाच इति । मा भूदन्यत्र ब्रह्मणि गमनदर्शनम् ; एतदेव तु दहाराकाशे सर्वेषां क्षेत्रज्ञानां मलयकाल इव निरस्तनिखिलदु:खानां सुषुप्तिकालेऽवस्थानं श्रूयमाणमस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् ; तथा ब्रह्मलोकशब्दश्च समानाधिकरणवृत्त्याऽस्मिन्दहाराकाशे प्रयुज्य
11
४. छा. ६-१०-२॥
५. बृ. ६-३-३३ ॥
For Private And Personal Use Only