________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[म.१. ष्टस्यच तद्गुणत्वम् , तच्छब्देनोभयं परामृश्योभयस्याप्यन्वेष्टव्यतया विधानं च कथमवगम्यत इति चेत् तदवहितमनाश्शृणु-१“यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश:"इति दहराकाशस्यातिमहत्तामभिधाय?"उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि" इति प्रकृतमेव दहराकाशमस्मिन्निति निर्दिश्य तस्य सर्वजगदाधारत्वमभिधाय १“यचास्येहास्ति यञ्च नास्ति सर्व तदस्मिन्त्समाहितम्" इति पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येहलोके यद्भोग्यजातमस्ति, यच्च मनोरथमानगोचरमिह नास्ति, सर्व तद्भोग्यजातमस्मिन्दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधाय तस्य दहराकाशस्य देहावयवभूतहृदयान्तवर्तित्वेऽपि देहस्य जरामध्वंसादौ सत्यपि परमकारणतयाऽतिसूक्ष्मत्वेन निर्विकारत्वमुक्त्वा तत एव २"एतत्सत्यं ब्रह्मपुरम्"इति तमेव दहराकाशं सत्यभूतं ब्रह्माख्यं पुरं निखिलजगदावासभूतमित्युपपाद्य २ "अस्मिकामास्समाहिताः" इति दहराकाशमस्मिन्निति निर्दिश्य काम्यभूतांश्च गुणान्कामा इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्त्वा तदेव दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्याऽत्मत्वंचर "एष आत्माऽपहतपाप्मा" इत्यादिना २ "सत्यसङ्कल्पः" इत्यन्तेन स्फुटीकृत्यर" यथा धेवेह प्रजा अन्वाविशन्ति" इत्यारभ्य ३"तेषां सर्वेषु लोकेष्वकामचारो भवति" इत्यन्तेन तदिदं गुणाष्टकं तद्विशिष्टं दहराकाशशब्दनिर्दिष्टमात्मानं चाविदुषामेतद्व्यतिरिक्तभोग्यसिद्धयेच कर्म कुर्वतामन्तवत्फलावाप्तिमसत्यसङ्कल्पत्वं चाभिधाय ३“अथ य इहात्मानमनुविद्य व्रजन्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति"इत्यादिना दहराकाशशब्दनिर्दिष्टमात्मानं तदन्तर्वर्तिनश्च काम्यभूतानपहतपाप्मत्वादिका१. छा. ८-१-३॥
३. छा. ८-१-६॥ २. छा. ८-१-५॥
For Private And Personal Use Only