________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. छा. ३-१४-३ ॥
२. डा. ८-१-५ ॥
39
पा. ३. ]
दहराधिकरणम्
३०५
ननुच दहराकाशस्य परमात्मत्वेऽपि बाह्याकाशोपमेयत्वं न सम्भवति १" ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्" इत्यादौ सर्वस्माज्जयायस्त्वश्रवणात्-नैवम्, दहराकाशस्य हृदयपुण्डरीकमध्यवर्तित्वमाप्ताल्पत्वनिवृत्तिपरत्वादस्य वाक्यस्यः यथा अधिकजवेऽपि सवितरि 'इषुवद्गच्छति सविता' इति वचनं गतिमान्द्यनिवृत्तिपरम् । अथ स्यात् - २" एष आत्माऽपहतपाप्मा ” इत्यादिना दहराकाशो न निर्दिश्यते ३" दहरोऽस्मि - अन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इति दहराकाशान्तर्वर्तिनस्ततोऽन्यस्यान्वेष्टव्यत्वेन प्रकृतत्वादिह २ " एष आत्माऽपहतपाप्मा " इति तस्यैवान्वेष्टव्यस्य निर्देष्टुं युक्तत्वात् ; स्यादेतदेवम्, यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभाञ्क्ष्यत् ; व्यभाङ्गीत्तु सा ; तथाहि ३" अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इति ब्रह्मपुरशब्देनोपास्यतया सन्निहितपरब्रह्मणः पुरत्वेनोपासकशरीरं निर्दिश्य तन्मध्यवर्ति च तदवयवभूतं पुण्डरीकाकारमल्पपरिमाणं हृदयं परस्य ब्रह्मणो वेश्मतयाऽभिधाय सर्वज्ञ सर्वशक्तिमाश्रितवात्सल्यैकजलधिमुपासकानुग्रहाय तस्मिन् वेश्मनि सन्निहितं सूक्ष्मतया ध्येयं दहराकाशशब्देन निर्दिश्य तदन्तर्वर्तिचापहतपाप्मत्वादिस्वभावतोनिरस्तनिखिलहे यत्व सत्यकामत्वादिस्वाभाविकानवधि कातिशयकल्याणगुणजातंच ध्येयं ३" तदन्वेष्टव्यम्" इत्युपदिश्यते । अत्र ३" तदन्वेष्टव्यम् " इति तच्छब्देन दहराकाशम्, तदन्तर्वर्तिगुणजातं च परामृश्य तदुभयमन्वेष्टव्यमित्युपदिश्यते; ३ “ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" इत्यनूद्य तस्मिन् दहर पुण्डरीकवेश्मनि यो दहराकाशः, यच्च तदन्तर्वर्तिगुणजातम्, तदुभयमन्वेष्टव्यमिति विधीयत इत्यर्थः । दहराकाशशब्दनिर्दिष्टस्य परब्रह्मत्वं ३" तस्मिन्यदन्तः " इति निर्दि
३. छा. ८-१-१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
-