SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- (श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम् ॥ ५॥)--- दहर उत्तरेभ्यः । १॥३॥१३॥ इदमामनन्ति च्छन्दोगाः१“अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्" इति । तत्र सन्देहः-किमसौ हृदय पुण्डरीकमध्यवर्ती दहराकाशो महाभूतविशेषः, उत प्रत्यगात्मा, अथ परमात्मा-इति । किं तावद्युक्तम् ? महाभूतविशेष इति। कुतः?आकाशशब्दस्य भूताकाशे ब्रह्मणि च प्रसिद्धत्वेऽपि भूताकाशे प्रसिद्धिप्रकर्षात् , १"तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्यन्वेष्टव्यान्तरस्याधारतया प्रतीतेश्च ॥ -- (सिद्धान्तः )---- इत्येवं प्राप्तेऽभिधीयते-दहर उत्तरेभ्यः-दहराकाशः परं ब्रह्म कुतः? उत्तरेभ्यो वाक्यगतेभ्यो हेतुभ्यः । २“एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति निरुपाधिकात्मत्वमपहतपाप्मत्यादिकं सत्यकामत्वं सत्यसङ्कल्पत्वं चेति दहराकाशे श्रूयमाणा गुणाः दहराकाशं परं ब्रह्मेति ज्ञापयन्ति । ३"अथ य इहात्मानमनुविद्य वजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति" इत्यादिना ४'यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते" इत्यन्तेन दहराकाशवेदिनस्सत्यसङ्कल्पत्वप्राप्तिश्चोच्यमाना दहराकाशं परं ब्रह्मेत्यवगमयति। ५“यावान्वा अयमाकाशस्तावानेषोऽन्तर्हदय आकाशः" इत्युपमानोपमेयभावश्च दहराकाशस्य भूताकाशत्वे नोपपद्यते । हृदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत्,-तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाश्रयत्वं नोपपद्यते ।। १. छा. ८-१-१ ॥ २. छा. ८-१-५॥ ४, छा. ८-२-१० ॥ ३. छा. ८-१-६॥ ५. छा, ८-१-३॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy