________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
ईक्षतिकर्माधिकरणम्.
३०३
वेदान्तसारे — ईक्षतिकर्म व्यपदेशात्सः ।। १" यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत" इत्यारभ्य १" स एतस्माजीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इत्यत्र ध्यायतिपूर्वकेक्षतिकर्म सः प्रशासिता परमात्मा इत्यर्थः, उत्तरत्र २' तमोङ्कारेणैवायनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परञ्च'' इति परमपुरुषासाधारणधर्मव्यपदेशात् ; २ " यत्तत्कवयो वेदयन्ते" इति तदीयस्थानस्य सूरिभिर्दृश्यत्वव्यपदेशाच्च ॥ १२ ॥
इति वेदान्तसारे ईक्षतिकर्माधिकरणम् ॥ ४ ॥
१. प्रश्न. ५-५ ॥
वेदान्तदीपे - ईक्षतिकर्म व्यपदेशात्सः || आथर्वणिकानां सत्यकामप्रश्न १" यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत " इत्यारभ्य, १" ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते " इत्यत्र ध्यायतीक्षतिकर्मतया व्यपदिष्टः परः पुरुषः किं हि रण्यगर्भः ? उत परब्रह्मभूतः पुरुषोत्तम इति संशयः । हिरण्यगर्भ इति पूर्वः पक्षः । पूर्वत्रैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिं फलम्, द्विमात्रमुपासीनस्यान्तरिक्षलोकप्राप्तिश्च फलमभिधाय, अनन्तरं १ " यः पुनरेतं त्रिमात्रेण" इति त्रिमात्रं प्रणवमुपासीनस्य फलत्वेनोच्यमानब्रह्मलोकस्थ पुरुषक्षेणकभूतश्चतुर्मुख एवेति विज्ञायते, मनुष्यलोकान्तरिक्षलोकसाहचर्याद्ब्रह्मलोकोSपि क्षेत्रलोक इति निश्वयात् । राद्धान्तस्तु - १ " परात्परं पुरिशयं पुरुषमीक्षते” इतीक्षतिकर्मतया निर्दिष्टपुरुषविषये लोके २" तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परञ्च" इति निरुपाधिकशान्तत्वामृतत्वादिव्यपदेशात्परमात्मैवायमिति निश्चीयते । एवं परमात्मत्वे निश्चिते ब्रह्मलोकशब्दश्च तत्स्थानमेवाभिदधातीत्यवगम्यते । तद्विषयतयोदाहृते च लोके २" यत्तत्कवयो वेदयन्ते" (३ " तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः " ) इत्येवमादिभिः सूरिभिर्दश्यत्ववचनं तदेव द्रढयति । सूत्रार्थस्तु — ईक्षतिकर्म सः - परमात्मा, ध्यायतीक्षत्योरेकविषयत्वेन ध्यायतिकर्मापि स एवेत्यर्थः; व्यपदेशात् - तद्विषयतया २" शान्तमजरममृतमभयं परश्च" इति परमात्मधर्माणां व्यपदेशात् ॥ इति वेदान्तदीपे ईक्षतिकर्माधिकरणम् ॥ ४ ॥
२. प्रश्न. ५-७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
३. सुबाल ६ ख ॥
For Private And Personal Use Only