SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ श्रीशारीरकमीमांसाभाये मात्मन एवैतद्रपम्, १"एतदमृतमेतदभयमेतद्ब्रह्म" इत्येवमादिश्रुतिभ्यः। २"एतस्माज्जीवधनात्परात्परम्" इति च परमात्मन एव व्यपदेशन चतुर्मुखस्य, तस्यापि जीवधनशब्दगृहीतत्वात् । यस्य हि कर्मनिमित्त देहित्वं स जीवधन इत्युच्यते चतुर्मुखस्यापि तच्छ्रयते ३“यो ब्रह्माणं विदधाति पूर्वम्" इत्यादौ । यत्पुनरुक्तमन्तरिक्षलोकस्योपरिनिर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते, अतस्तत्रस्थश्चतुर्मुख इति ; तदयुक्तम् “यत्तच्छान्तमजरममृतमभयम्"इत्यादिनेक्षतिकर्मणः परमात्मत्वे निश्चिते सति ईक्षितुः स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको भवितुमर्हति।किश्च ५“यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तस्ससामभिरुनीयते ब्रह्मलोकम्" इति सर्वपापविनिर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम् । अत एव चोदाहरणश्लोके इममेव ब्रह्मलोकमधिकृत्य श्रूयते ६"यत्तत्कवयो वेदयन्ते"इति । कवयः-सूरयः । सूरिभिदृश्यं च वैष्णवं पदमेव, ७"तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः" इत्येवमादिभ्यः । न चान्तरिक्षात्परश्चतुर्मुखलोकः, मध्ये स्वर्गलोकादीनां बहूनां सद्भावात् । अतः ६"एतद्वै सत्यकाम परं चापरं ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति" इति प्रतिवचने यदपरं कार्य ब्रह्म निर्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्यैकमात्र प्रणवमुपासीनानामैहिकं मनुष्यलोकावाप्तिरूपं फलममिधाय, द्विमानमुपासीनानामामुष्मिकमन्तरिक्षशब्दोपलक्षितं फलं चाभिधाय, त्रिमात्रेण परब्रह्मवाचिना प्रणवेन परं पुरुषं ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिशतीति सर्व समञ्जसम् । अत ईक्षतिकर्म परमात्मा।। इति श्रीशारीरकमीमांसाभाष्ये ईक्षतिकर्माधिकरणम् ॥ ४ ॥ २, प्रश्न, ५-५॥ १. छा. ४-१५-१॥ ३. श्वे. ६-१८॥ ४. प्रश्न, ५-७॥ ५. प्रश्न. ५-२ ॥ ६. सुबाल, ६-ख ॥ ७. प्रश्न. ५-२ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy