________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दहराधिकरणम्.
३१७ ___ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गश्च ॥ अस्मिन्दहराकाशे सर्वासां प्रजानामजानतीनामहरहर्या गतिश्श्रूयते, यश्च दहराकाशावमर्शरूपैतच्छन्दसमानाधिकरणतया प्रयुक्तो ब्रह्मलोकशब्दः, ताभ्यां दहराकाशः परं ब्रह्मेत्यवगम्यते,"तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः" इति । तथाहि दृष्टम्-तथाह्यन्यत्र परस्मिन्ब्रह्मण्येवंरूपं गमनं दृष्टम्२"एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य न विदुस्सति सम्पत्स्यामह इति" इति; ३"सत आगम्य न विदुस्सत आगच्छामह इति" इति । तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मण्येव दृष्टः-४"एष ब्रह्मलोकस्सम्राडिति होवाच"इति । लिङ्गश्चमा भूदन्यत्र दर्शनम्,अस्मिन् प्रकरणे सर्वासां प्रजानां श्रू. यमाणमहरहर्गमनं, ब्रह्मलोकशब्दश्च दहराकाशस्य परमात्मत्वे पर्याप्तं लिङ्गम् । चशब्दोऽवधारणे । एतदेव पर्याप्तमित्यर्थः ॥ १४॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥ अस्य धृत्याख्यस्य परमात्मनो महिम्नः अस्मिन् दहराकाशे उपलब्धेरयं परमात्मा । धृतिः --जगद्विधरणं परमात्मनो महिमेत्यन्यत्रावगम्यते । ५"एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय" इति । सा चास्मिन्दहराकाशे उपलभ्यते ६"अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय' इति ॥
प्रसिद्धेश्च।। ७'को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्"८"सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इत्यादिष्वाकाशशब्दस्य परस्मिन्ब्रह्मणि प्रसिद्धः । आकाशशब्द एव परमात्मधर्मविशेषितो भूताकाशशङ्कां निवर्तयतीत्यर्थः ॥१६॥
इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ परमात्मन इतरः जीवः ; ९"अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय” इति जीवस्य परामर्शात्स एव दहराकाश इति चेत् तन्न, पूर्वोक्तानां गुणानां तस्मिन्नसम्भवात् ॥१७॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ उत्तरात् - प्रजापतिवाक्यात् , अपह१. छा ८-३.२॥ २. छा. ६-९-२॥ ६. छा. ८-४-१॥ ३. छा. ६-१०-२ ॥
७. ते. आन. ७ ॥ ४. . ६-३-३३ ॥ ५. र.६-४-२२॥ ८. छा. १-९-१॥ १.छा. ८-३-४॥
For Private And Personal Use Only