________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
भीशारीरकमीमांसामान्ये
[... तपाप्मत्वदिगुणको जीवोऽवगम्यत इति चेत्-तन्न,जागरिताद्यवस्थामिरनादि. कालप्रवृत्ताभिः पुण्यपापरूपकर्ममूलाभिः तिरोहितगुणकः परब्रह्मोपासनजनिततदुपसम्पत्त्याऽऽविर्भूतस्वरूपोऽसौ जीवः तत्र प्रजापतिवाक्येऽपहतपाप्मत्वादिगुणकः कीर्तितः। दहराकाशस्त्वतिरोहितस्वरूपोऽपहतपाप्मत्वादिगुणक इत्यस्मिन्दहराकाशे न जीवशङ्का ॥ १८ ॥
दहरवाक्ये जीवपरामर्शः किमर्थ इति चेत् तत्राह
अन्यार्थश्च परामर्शः॥ १"अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते" इति परंज्योतिस्वरूपदहराकाशोपसम्पत्त्या ऽस्य जीवस्यानृततिरोहितस्वरूपस्य खरूपाविर्भावो भवतीति दहराकाशस्य जगद्विधरणादिवजीवस्वरूपाविर्भावापादनरूपसम्पद्विशेषप्रतिपादनार्थो जीवपरामर्शः ॥ १९ ॥
अल्पश्रुतेरिति चेत्तदुक्तम् ।। २"दहरोऽस्मिन्" इत्यल्पपरिमाणश्रुतिरारामोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माजथायसो ब्रह्मण इति चेततत्र यदुत्तरं वक्तव्यम् , तत्पूर्वमेवोक्तम्-३"निचाय्यत्वात्" इत्यनेन ।। २०॥
अनुकृतेस्तस्यच ॥ अनुकृतिः - अनुकारः; तस्य परमात्मनोऽनुकाराद्धि जीवस्याविर्भूतस्वरूपस्यापहतपाप्मत्वादिगुणकत्वम् ; अतोऽनुकर्तुः जीवादनुकार्यः परब्रह्मभूतो दहराकाशोऽर्थान्तरभूत एव । तदनुकारश्च तत्साम्या. पत्तिः श्रूयते ४"यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इति ॥ २१॥
अपि स्मयते ॥ स्मर्यते च तदुपासनात्तत्साम्यापत्तिरूपानुकृति वस्य, ५"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इति ॥२२॥
___ इति वेदान्तदीपे दहराधिकरणम् ॥ ५ ॥
---(श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम् ॥ ६॥).-..
शब्दादेव प्रमितः ॥१॥३॥२३॥ १. छा. ८-३-४॥ २. डा. ८-१-१॥ ३. शारी. १-२.७॥ ५.गी. १४.२ ॥
For Private And Personal Use Only