SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] प्रमिताधिकरणम् . कठवल्लीषु श्रूयते" अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वैतत् " २“अष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वैतत् " ३" अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात्महेन्मुञ्जादिवैषीकां धैर्येण । तं विद्याच्छुक्रममतम्" इति । तत्र सन्दिह्यते-किमयमङ्गष्ठमात्रपमितः प्रत्यगात्मा, उत परमात्मा-इति । किं युक्तम्? प्रत्यगात्मेति। कुतः? जीवस्यान्यनाष्ठमात्रत्वश्रुतेः *"प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः" इति । नचान्यत्रोपासनार्थतयाऽपि परमात्मनोअष्ठमात्रत्वं श्रूयते । एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयाऽपि भविष्यति ॥ ---(सिद्धान्तः)-..-. इति प्राप्ते ब्रूमः-शब्दादेव प्रमितः-अगष्ठप्रमितः परमात्माः कुतः? २"ईशानो भूतभव्यस्य" इति शब्दादेव न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते ॥ २३॥ ___ कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राहहृद्यपेक्षया तु मनुष्याधिकारत्वात्। १ । ३॥२४॥ परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याअष्ठप्रमाणत्वात्तदपेक्षयेदमङ्गष्ठप्रमितत्वमुपपद्यते,जीवस्याप्यङ्गष्ठप्रमितत्वं हदयान्तर्वर्तित्वात्तदपेक्षमेवः तस्याराग्रमात्रत्वश्रुतेः। मनुष्याणामेवोपासकत्वसम्भावनया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्यहृदयस्य च तत्तदङ्गुष्ठ१. कठ. २.४.१२ ॥ ३. कठ. २६-१७॥ २. कठ. २-४-१३॥ | ४.वे. ५-८.७॥ "विश्वाधिप' इत्वपि पा॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy