Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
श्रीशारीरकमीमांसाभाष्ये
[अ. १.
ब्रह्मत्वेन १ " मृषा वै खलु मा संवादयिष्ठाः " इति तमब्रह्मवादिनमपोद्य तेनाविदितब्रह्मज्ञानायाजातशत्रुणेदं वाक्यमवतारितं २" यो वै बालके " इत्यादि। पुण्यापुण्यलक्षणकर्मसम्बन्धिन आदित्याद्यधिकरणास्तत्सजातीया पुरुषास्तेनैव विदिता इति तदविदित पुरुषविशेषज्ञापनपरोऽयं कर्मशब्दो न पुण्यापुण्यमात्रवाची; क्रियामात्रवाची वा; अपि तु कृत्स्नस्य जगतः कार्यत्ववाची । एवमेव खल्वविदितोऽर्थ उपदिष्टो भवति । पुरुषस्य कर्मसम्बन्धोपलक्षितस्वाभाविक स्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा, कर्मसम्बन्धमात्रस्यैव वेदितव्यस्वरूपलक्षणत्वाद्यस्य कर्म स वेदितव्य इत्येतावतैव तत्सिद्धेः, १" यस्य वैतत्कर्म " इत्येतच्छन्दवैयर्थ्य च। १ य एतेषां कर्ता यस्य वैतत्कर्म" इति पृथङ्गिर्देशस्य चायमभिप्रायः - ये त्वया ब्रह्मत्वेन निर्दिष्टाः पुरुषाः, तेषां यः कर्ता, ते यत्कार्यभूताः, किं विशिष्याभिधीयते कृत्स्नं जगद्यस्य कार्यम्, उत्कृष्टा अपकृष्टाश्चेतना अचेतनाश्च सर्वे पदार्थ यत्कार्यत्वे तुल्याः, स परमकारणभूतः पुरुषोत्तमो वेदितव्यः - इति । जगदुत्पत्तेर्जीवकर्मनिबन्धनत्वेऽपि न जीवस्वभोग्यभोगोपकरणादेस्स्वयमुत्पादकः, अपि तु स्वकर्मागुण्येश्वरसृष्टं सर्व भुते; अतो न तस्य पुरुषान्मति कर्तृत्वमुपपद्यते । अतस्सर्ववेदान्तेषु परमकारणतया प्रसिद्धं परं ब्रह्मवात्र वेदितव्यतयोपदिश्यते ।। १६ ।। जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वयाख्यातम् ।
१।४।१७ ॥
अथ यदुक्तम् - जीवलिङ्गान्मुख्यप्राणसङ्कीर्तनाच्च लिङ्गाद्भोक्तैवास्मिन्प्रकरणे प्रतिपाद्यते, न परमात्मा - इति; तव्याख्यातम् — तस्य नि
१. कौषी. ४-१८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465