Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 404
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४] जगद्वाचित्वाधिकरणम् . भवति यदा सुप्तस्स्वमं न कथंचन पश्यत्यथास्मिन्माण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिस्सहाप्येति मनस्सर्वानस्सहाप्येति स यदा प्रतिबुध्यते यथाग्नेज्वलतस्सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरनेवमेवैतस्मादास्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः" इति । सुषुप्त्याधारतया स्वमसुषुप्तिजागरितावस्थासु वर्तमानं वागादिकरणाप्ययोद्गमस्थानमेव जीवात्मानम् ? "अथास्मिन् प्राण एवैकधा भवति" इत्युक्तवान्।अस्मिन् जीवात्मनि प्राणभृत्त्वनिबन्धनोऽयं प्राणशब्दः १"स यदा प्रतिबुध्यते" इति प्राणशब्दनिर्दिष्टस्य प्रबोधश्रवणात् मुख्यप्राणस्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवात्। अथवा १“अस्मिन्प्राणे" इति व्यधिकरणे सप्तम्यौ अस्मिन्नात्मनि वर्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इति । प्राणशब्दस्य मुख्यप्राणपरत्वेऽपि जीव एवास्मिन्प्रकरणे प्रतिपाद्यते, स्वतः प्राणस्य जीवोपकरणत्वात् । अतो वक्तव्यतयोपक्रान्त ब्रह्म पुरुष एवेति तद्व्यतिरिक्तेश्वरासिद्धिः । कारणगताश्वेक्षणादयश्चेतनधर्मा अस्मिन्नेवोपपद्यन्त इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम् ॥ -(सिद्धान्तः).-..__ इति प्राप्त प्रचक्ष्महे-जगद्वाचित्वात्-अत्र पुण्यापुण्यपरवशः क्षुद्रः क्षेत्रज्ञस्स्वस्मिन् प्रकृतिधर्माध्यासेन तत्परिणामहेतुभूतः पुरुषो नाभिधीयते; अपितु निरस्तसमस्ताविद्यादिदोषगन्धोऽनवधिकातिशयासङ्खयेयकल्याणगुणनिधिनिखिल जगदेककारणभूतः पुरुषोत्तमोऽभिधीयते।कुतः? २“यस्य वैतत्कर्म"इत्यत्रैतच्छन्दान्वितस्य कर्मशब्दस्य परमपुरुषकार्यभूतजगद्बाचित्वात् । एतच्छब्दो ह्यर्थप्रकरणादिभिरसङ्कचितवृत्तिरविशेषेण प्रत्यक्षादिप्रमाणोपस्थापितनिखिलचिदचिन्मिश्रजगद्विषयः । नच पुण्यापुण्यलक्षणं कर्मात्र कर्मशब्दाभिधेयं २"ब्रह्म ते ब्रवाणि" इत्युपक्रम्य ब्रसत्वेन बालाकिना निर्दिष्टानामादित्यमण्डलायधिकरणानां पुरुषाणाम१. कौषी. ४-१९॥ २. कौषी. ४-१८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465