Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८ श्रीशारीरकमीमांसामान्ये
[म. १. वाभिधीयते। अव्याकृतं ह्यव्यक्तम् , नामरूपाभ्यां न व्याक्रियते-न व्यज्यत इत्यर्थः। अव्यक्तं प्रधानमेव। अस्य च स्वरूपनित्यत्वेन परिणामाश्रयत्वेन च जगत्कारणवादिवाक्यगतौ सदसच्छब्दौ ब्रह्मणीवास्मिन्न विरोत्स्येते। एवमव्याकृतकारणत्वे निश्चिते सतीक्षणादयः कारणगतास्सटयोन्मुख्याभिप्रायेण योजयितव्याः। ब्रह्मात्मशब्दावपि बृहत्त्वव्यापित्वाभ्यां प्रधान एव वर्तेते। अतः स्मृतिन्यायप्रसिद्धं प्रधानमेव जगत्कारणं वेदान्तवाक्यैः प्रतिपाद्यते ॥
..(सिद्धान्तः)...इति प्राप्ते प्रचक्ष्महे-कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेःचशब्दस्तुशब्दार्थे ; सर्वज्ञात्सर्वेश्वरात्सत्यसङ्कल्पानिरस्तनिखिलदोषगन्धात्परस्माद्ब्रह्मण एव जगदुत्पद्यत इति निश्चेतुं शक्यते। कुतः ? आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्तेः-सर्वज्ञत्वादिविशिष्टत्वेन ? “जन्माद्यस्य यतः" इत्येवमादिषु प्रतिपादितं ब्रह्म यथाव्यपदिष्टमित्युच्यते, तस्यैकस्यैवाकाशादिषु कारणत्वेनोक्तेः। २ "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" ३"तत्तेजोऽसृजत" इत्यादिषु सर्वज्ञं ब्रह्मैव कारणत्वेनोच्यते। तथाहि २ "सत्यं ज्ञानमनन्तं ब्रह्म"२ "सोऽश्नुते सर्वान्कामान्त्सह ब्रह्मणा विपश्चिता"इति प्रकृतं विपश्चिदेव ब्रह्म २ "तस्माद्वा एतस्मात्" इति परामृश्यते। तथा ३“तदैक्षत बहु स्याम्"इति निर्दिष्टं सर्वज्ञं ब्रह्मैव ३"तत्तेऽजोऽमृजत"इति परामृश्यते।एवं सर्वत्र सृष्टिवाक्येषु द्रष्टव्यम्।अतो ब्रह्मैककारणं जगदिति निश्चीयते ॥
ननु ४"असदा इदमग्र आसीत्" इत्यसदेव कारणत्वेन व्यपदिश्यते । तत्कथमिव सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण एव कारणत्वं निश्चीयत इत्यत आह१. शारी, १-१-२ ॥
३. छा. ६-२-३ ॥ २. ते, आ.१॥
। ४. ते. आ. ७-१॥
For Private And Personal Use Only

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465