SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ श्रीशारीरकमीमांसामान्ये [म. १. वाभिधीयते। अव्याकृतं ह्यव्यक्तम् , नामरूपाभ्यां न व्याक्रियते-न व्यज्यत इत्यर्थः। अव्यक्तं प्रधानमेव। अस्य च स्वरूपनित्यत्वेन परिणामाश्रयत्वेन च जगत्कारणवादिवाक्यगतौ सदसच्छब्दौ ब्रह्मणीवास्मिन्न विरोत्स्येते। एवमव्याकृतकारणत्वे निश्चिते सतीक्षणादयः कारणगतास्सटयोन्मुख्याभिप्रायेण योजयितव्याः। ब्रह्मात्मशब्दावपि बृहत्त्वव्यापित्वाभ्यां प्रधान एव वर्तेते। अतः स्मृतिन्यायप्रसिद्धं प्रधानमेव जगत्कारणं वेदान्तवाक्यैः प्रतिपाद्यते ॥ ..(सिद्धान्तः)...इति प्राप्ते प्रचक्ष्महे-कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेःचशब्दस्तुशब्दार्थे ; सर्वज्ञात्सर्वेश्वरात्सत्यसङ्कल्पानिरस्तनिखिलदोषगन्धात्परस्माद्ब्रह्मण एव जगदुत्पद्यत इति निश्चेतुं शक्यते। कुतः ? आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्तेः-सर्वज्ञत्वादिविशिष्टत्वेन ? “जन्माद्यस्य यतः" इत्येवमादिषु प्रतिपादितं ब्रह्म यथाव्यपदिष्टमित्युच्यते, तस्यैकस्यैवाकाशादिषु कारणत्वेनोक्तेः। २ "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" ३"तत्तेजोऽसृजत" इत्यादिषु सर्वज्ञं ब्रह्मैव कारणत्वेनोच्यते। तथाहि २ "सत्यं ज्ञानमनन्तं ब्रह्म"२ "सोऽश्नुते सर्वान्कामान्त्सह ब्रह्मणा विपश्चिता"इति प्रकृतं विपश्चिदेव ब्रह्म २ "तस्माद्वा एतस्मात्" इति परामृश्यते। तथा ३“तदैक्षत बहु स्याम्"इति निर्दिष्टं सर्वज्ञं ब्रह्मैव ३"तत्तेऽजोऽमृजत"इति परामृश्यते।एवं सर्वत्र सृष्टिवाक्येषु द्रष्टव्यम्।अतो ब्रह्मैककारणं जगदिति निश्चीयते ॥ ननु ४"असदा इदमग्र आसीत्" इत्यसदेव कारणत्वेन व्यपदिश्यते । तत्कथमिव सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण एव कारणत्वं निश्चीयत इत्यत आह१. शारी, १-१-२ ॥ ३. छा. ६-२-३ ॥ २. ते, आ.१॥ । ४. ते. आ. ७-१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy