________________
Shri Mahavir Jain Aradhana Kendra
पा. ४.]
कारणत्वाधिकरणम् •
समाकर्षात् । १ । ४ । १५॥
1266
१" असा इदमग्र आसीत्" इत्यत्रापि विपश्चिदानन्दमयं सत्यसङ्कल्पं ब्रह्मैव समाकृष्यते । कथम् ? २" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽनन्दमयः " ३" सोऽकामयत । बहु स्यां प्रजायेयेति" ३" इदं सर्वमसृजत । यदिदं किंच तत्सृष्ट्वा । तदेवानुप्राविशत्। तदनुप्रविश्य । सच्च त्यचाभवत् " इत्यादिना ब्राह्मणेनाऽनन्दमयं ब्रह्म सत्यसङ्कल्पं सर्वस्य स्त्रष्ट सर्वानुप्रवेशेन सर्वात्मभूतमभिधाय ३ " तदप्येष श्लोको भवति' इत्युक्तस्यार्थस्य सर्वस्य साक्षित्वेनोदाहृतोऽयं श्लोकः ४ " असद्वा इदमग्र आ सीत्" इति। तथोत्तरत्र " भीषाऽस्माद्वातः पवते" इत्यादिना तदेव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्वनिरतिशयानन्दत्वादयोऽभिधीयन्ते । अतोऽयं मन्त्रस्तद्विषय एव । तदानीं नामरूपविभागाभावेन तत्सम्बन्धितयाऽस्तित्वाभावाद्ब्रह्मैवासच्छब्देनोच्यते । ६" असदेवेदमग्र आसीत्" इत्यत्राप्ययमेव निर्वाहः । यदुक्तं तद्धेदं तर्ह्यव्याकृतमासीत्” इति प्रधानमेव जगत्कारणत्वेनाभिधीयत इति; नेत्युच्यते, तत्राप्यव्याकृतशब्देनाच्याकृतशरीरं ब्रह्मैवाभिधीयते स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यं
५
www.kobatirth.org
१. तै. आ. ७-१ ॥
तै. आ. ६ ॥
तै. आ. ८ ॥
५.
६. छा. ३-१९-१ ॥
३.
क्षुः शृण्वत्र श्रोतं मन्वानो मन आत्मेत्येवोपासीत" इत्यत्र " स एषः " इति तच्छब्देनाव्याकृतशब्दनिर्दिष्टस्यान्तः प्रविश्य प्रशासितृत्वेनानुकर्षात्, “ तत्सृष्ट्वा तदेवानुप्राविशत् " " अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति स्रष्टस्सर्वज्ञस्य परस्य ब्रह्मणः कार्यानुप्रवेशनामरूपव्याकरणप्रसिद्धेश्च । १० “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा"
२. तै. आ. ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४. तै. आ. ७ ॥
७. बृ. ३४-७ ॥
८, तै. आ. ६ ॥
९. छा. ६-३-२ ॥
१०. मारणे. १ ३.२१ ॥
For Private And Personal Use Only
३७९