________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८० वेदान्तदीपे
[म. १. इति नियमनार्थत्वादनुप्रवेशस्य प्रधानस्याचेतनस्यैवरूपोऽनुप्रवेशो न सम्भवति । अतः अव्याकृतम्-अव्यकृतशरीरं ब्रह्म १ "तन्नामरूपाभ्यां व्याक्रियत" इति तदेवाविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं खेनैव विभक्तनामरूपं स्वयमेव व्याक्रियतेत्युच्यते।एवं च सतीक्षणादयो मुख्या एव भवन्ति । ब्रह्मात्मशब्दावपि निरतिशयबृहत्त्वनियमनार्थव्यापित्वाभावेन प्रधाने न कथंचिदुपपद्यते। अतो ब्रह्मैककारणं जगदिति स्थितम्॥
इति श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम् ॥ ४ ॥
वेदान्तसारे-कारणत्वेनचाकाशदिषु यथाव्यपदिष्टोक्तेः॥ आकाशादिषु कार्यवर्गेषु कारणत्वेन सर्वत्र वेदान्तवाक्येषुर "असता इदमग्र आसीत्" १“तद्धेदन्तहव्याकृतमासीत्" इत्यादिष्वनितिविशेषेषु ३"आत्मा वा इदमेक एवान आसीत् स ईक्षत लोकान्नु सृजै" इति विशेषवाचिवाक्यनिर्दिष्टस्यैवोक्तेः न तान्त्रिकाव्याकृतादिकारणवादप्रसङ्गः ॥१४॥
समाकषोत्।। ४"सोऽकामयत । बहु स्यां प्रजायेय"इति पूर्वनिर्दिष्टस्यैव सर्वज्ञस्य २"असद्वा इदमग्र आसीत्" इत्यत्र समाकर्षाश्च स एवेति गभ्यते। १"तद्धेदं तमुव्याकृतमासीत्" इति निर्दिष्टस्यैव १"स एष इह प्रविष्ट आनखाग्रेभ्यः" ५"पश्यत्यचक्षुः” इत्यत्र समाकर्षात् एष एवाव्याकृत इति निश्चीयते । असदव्याकृतशब्दौ हि तदानीनामरूपविभागाभावादुपपद्यते ॥१५॥ इति वेदान्तसारे कारणत्वाधिकरणम् ॥ ४॥
- -- वेदान्तदीपे-कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः॥ जगकारणवादीनि वेदान्तवाक्यानि किं प्रधानकारणतावादैकान्तानि, उत ब्रह्मकारणतावादैकान्तानीति संशयः । प्रधानकारणतावादैकान्तानीति पूर्वः पक्षः, ६"सदेव सोम्येदमग्र आसीत्" इति क्वचित्सत्पूर्विका सृष्टिराम्नायते ; अन्यत्र ६"असदेवेदमग्र आसीत्"७"असद्वा इदमग्र आसीत्" तथा१"तद्धेदं तीव्या१. वृ. ३-४-७॥
४. ते. आ. ६.२ ॥ २. ते. आ. ७-१॥
५. श्वे. ३-१९ ॥ ६. छा. ६-२-१॥ ३. ऐतरेये. १-१॥
७. ते. आ. ७-१॥
For Private And Personal Use Only