________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४.] जगद्वाचित्वाधिकरणम् .
३८१ कृतमासीत्तन्नामरूपाभ्यां न्याक्रियत" इति । अव्याकृतं हि प्रधानम् । अतः प्रधानकारणतावादनिश्चयात्तदेकान्तान्येव । राद्धान्तस्तु-१"सत्यं ज्ञानमनन्तं ब्रह्म" इत्युपक्रम्य१ "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः"२ "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यादिषु सर्वक्षस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात्तस्यैव ब्रह्मणः कारणावस्थायां नामरूपविभागसम्बन्धितया स. द्भावाभावात् असदव्याकृतादिशब्देन व्यपदेश इति ब्रह्मकारणतावादैकान्तान्येव । सूत्रार्थस्तु-आकाशादिपदचिह्नितेषु "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” इत्यादिषु सर्वशस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात् , सर्वेषु सृष्टिवाक्येषु यथाव्यपदिष्टस्यैव कारणत्वेनोक्तेः ब्रह्मकारणतावादैकान्तानि । यथाव्यपदिष्टं सार्वात्म्यादियुक्ततयाऽस्माभिर्व्यपदिष्टम् ॥ १४ ॥
तथा सति ३ "असद्वा इदमग्र आसीत्" इति किं ब्रवीतीत्यत आह
समाकांत-४"सोऽकामयताबहुस्यां प्रजायेयेति" इति बहुभवनसङ्कल्पपूर्वकं जगत्सृजतो ब्रह्मणस्सर्वज्ञस्य३ "असद्वा इदमग्र आसीत्" इस्यत्र समाकर्षात् कारणावस्थायां नामरूपसम्बन्धित्वाभावेन असदिति ब्रवीति । एवं ५"तद्धदं तीव्याकृतमासीत्" इत्यादिषु५ स एष इहानुप्रविष्ट आनखाग्रेभ्यः"६ "पश्यत्यचक्षुः” इत्यादिपूर्वापरपालोचनया तत्रतत्र सर्वशस्य समाकर्षो द्रष्टव्यः॥
इति वेदान्तदीपे कारणत्वाधिकरणम् ॥ ४ ॥
..( श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥५॥)..
जगद्दाचित्वात् । १।४।१६ ॥ पुनरपि साङ्ख्यः प्रत्यवतिष्ठते-यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रतिपादयन्ति,तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु १. ते. आ. १॥
४. तै. आ..६-२ ॥ २. छा. ६-२-३॥
५. कृ. ३-४-७ ॥ ३. ते. आ. ७-१॥
। ६. श्रे. ३-१९॥
For Private And Personal Use Only