________________
Shri Mahavir Jain Aradhana Kendra
पा. ४. ]
www.kobatirth.org
संख्योपसङ्ग्रहाधिकरणम्
काण्वपाठेऽन्नवर्जितानां चतुर्णां निर्देशात् पञ्चजनसंशितानीन्द्रियाणीति
कथं ज्ञायत इत्यत्राह
१. बृ. ६-४-१६ ॥
* ज्योतिषि ब्रह्मणि. पा ॥
२.
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिषैकेषामसत्यने ॥ एकेषां काण्वानां वाक्यशेषे असत्यन्नशब्दे वाक्योपक्रमगतेन तं देवा ज्योतिषां ज्योतिः" इति ज्योतिश्शब्देन पञ्चजनाः इन्द्रियाणीति विज्ञायन्ते । कथम् १ "ज्योतिषां * ज्योतिः" इति ब्रह्मणि निर्दिष्टे प्रकाशकानां प्रकाशकं ब्रह्मेति प्रतीयते । के ते प्रकाशका इत्यपेक्षायां२ "पञ्च पश्चजनाः" इत्यनिर्ज्ञातविशेषाः पञ्चसंख्यासंख्याताः प्रकाशकानि पञ्चेन्द्रियाणीत्यवगम्यते । अतः २' यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः " इतीन्द्रि याणि भूतानि च ब्रह्मणि प्रतिष्ठितानीति न तान्त्रिकतत्त्वगन्धः ॥ १३ ॥ इति वेदान्तदीपे सङ्ख्योपसङ्ग्रहाधिकरणम् || ३ |
( श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम् ॥ ४ ॥ -
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
१।४।१४ ॥
पुनः प्रधानकारणवादी प्रत्यवतिष्ठते न वेदान्तेष्वेकस्मात्सृष्टिरानायत इति जगतो ब्रह्मैककारणत्वं न युज्यते । कथम् तथाहि ३" सदेव सोम्येदमग्र आसीत् " इति सत्पूर्विका सृष्टिरान्नायते ; ४" असद्वा इदमग्र आसीत्" इत्यसत्पूर्विका चः अन्यत्र ५ " असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्" इति च। अतो वेदान्तेषु स्त्रष्टरव्यवस्थितेर्जगतो ब्रमैककारणत्वं न निवेतुं शक्यम् ; प्रत्युत प्रधानकारणत्वमेव निश्चेतुं शक्यते ६“तद्धेदं तर्ह्यव्याकृतमासीत्" इत्यव्याकृते प्रधाने जगतः प्रलयमभिधाय ६" तन्नामरूपाभ्यां व्याक्रियत" इत्यव्याकृतादेव जगतस्सृष्टि
६-४-१७ ॥ ३. का. ६-२-१॥
48
३७७
४. तै. आ. ७ ॥
५. छा. ३-१९-१ ॥
६. बु. ३-४-७ ॥
For Private And Personal Use Only