SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदान्तदीपे मामृतोऽमृतम्" इत्यत्र किं साङ्खयोक्तानि पञ्चविंशतितत्त्वानि प्रतिपाद्यन्ते, उत नेति संशयः। तान्येवेति पूर्वः पक्षः । १“पञ्च पञ्चजनाः" इति हि पञ्चसक्लचा. विशिष्टाः पञ्चजनाः पञ्चविंशतिस्सम्पद्यन्ते । कथम् ? पञ्चजना इति समहारविषयोऽयं समासः; 'पञ्चपूल्यः' इतिवत्।पञ्चभिर्जनैरारन्धस्समूहः पञ्चजनः। पञ्चजनीत्यर्थः । लिङ्गव्यत्ययश्छान्दसः। पञ्चजनाः' इति बहुवचनात्समूहबहुत्वं चावगम्यते । तेच कतीत्यपेक्षायां १"पञ्च पञ्चजनाः" इति पञ्चशब्दविशेषिताः पञ्चजनसमूहा इति पञ्चविंशतिस्तत्त्वानि भवन्ति । मोक्षाधिकारात्तान्त्रिकाण्येवेति निश्चीयन्ते । एवं निश्चिते सति "तमेवं मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृ. तम्" इति २पञ्चविंशकमात्मानं ब्रह्मभूतं विद्वानमृतो भवतीति।राद्धान्तस्तु१"यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः" इति यच्छन्दनिर्दिष्टब्रह्माधारत्वात्सदाधयानां तत्त्वानां ब्रह्मात्मकत्वमवगम्यते । यच्छन्दनिर्दिष्टं च १"तमेवं मन्य आत्मानम्"*(इति तच्छब्देन परामृश्य,१ "ब्रह्मामृतोऽमृतम्)" इति नि. देशाद्रह्मेति निश्चीयते अतो न तान्त्रिकप्रसङ्गः ॥ सूत्रार्थस्तु-१"पञ्च पञ्चजनाः" इत्यत्र पञ्चविंशतिसमयोपसङ्ग्रहादपिन तान्त्रिकाणीमानि तत्त्वानि, यस्मिन्निति यच्छन्दनिर्दिष्टब्रह्माधारतया तान्त्रिकेभ्यो नानाभावात्-एषांतत्त्वानां पृथग्भावादित्यर्थः। अतिरेकाच-तान्त्रिकेभ्यस्तत्त्वातिरेकप्रतीतेश्च; यस्मिन्निति निर्दिष्टमतिरिक्तमाकाशश्च । न सहयोपसङ्गहादपि' इत्यपिशब्देन सङ्खयोपसहो न सम्भवतीत्याह, आकाशस्य पृथङ्गिदें। शाताअतः पञ्चजनाः इति न समहारविषयः, अपि तु ३"दिक्सङ्खये संज्ञायाम्" इति संज्ञाविषयः; पञ्चजनसंशिताः केचित्, ते च पञ्चैवेति; 'सप्त सप्तर्षयः' इतिवत् ॥११॥ प्राणादयो वाक्यशेषात् ॥ पञ्चजनसंज्ञिताः पञ्च पदार्थाः प्राणादय इति वाक्यशेषादवगम्यते । ४"प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम मस्याग्नं मनसो ये मनो विदुः” इति ब्रह्मात्मकानीन्द्रियाणि पञ्च पञ्चजना इति निर्दिष्टानि । जननाञ्च जनाः॥ १२॥ १. कृ. ६.४-१७॥ *कुण्डलितं क्वचिन्नदृश्यते ॥ २. तच्छब्देन परामृश्य "ग्रमामृतम्" ३. पाणिनि. २-१.५० ॥ इति निर्देशात् . इत्यधिकः पाठः कचिद् ४. पृ. ६.४.१८ ॥ मा. पाठः ॥ दृश्यते ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy