________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४.] संख्योपसनहाधिकरणम् .
३७५ घाणरसनयोस्तन्त्रेणोपादानमिति पञ्चत्वमप्यविरुद्धम् ।प्रकाशकानि मन:पर्यन्तानीन्द्रियाणि पञ्चजनशब्दनिर्दिष्टानि तदविरोधाय घ्राणरसनयोस्तन्त्रेणोपादानम्।तदेवम् १"यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः" इति पश्चजनशब्दनिर्दिष्टानीन्द्रियाण्याकाशशब्दमदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्वतत्त्वानां ब्रह्माश्रयत्वप्रतिपादनान तन्त्रसिद्धपञ्चविंशतितत्त्वप्रसङ्गः । अतस्सर्वत्र वेदान्ते सङ्खयोपसङ्घहे तदभावे वा न कापिलतन्त्रसिद्धतत्त्वप्रतीतिरिति स्थितम् ॥
____ इति श्रीशारीरकमीमांसाभाष्ये सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ वेदान्तसारे-न सङ्खयोपसङ्घहादपि नानाभावादतिरेकाच॥ यस्मिपञ्च पञ्चजनाः" इत्यत्र पञ्चविंशतिसङ्खयोपसङ्ग्रहादपि न तान्त्रिकाण्येतानि, 'यस्मिन्' इति यच्छब्दनिर्दिष्टब्रह्माधारतया तेभ्यः पृथग्भावात् एतेषान्तत्त्वातिरेकाच; यच्छन्दनिर्दिष्टमाकाशश्चेति द्वयमतिरिक्तम् । 'संख्योपसंग्रहादपि' इत्यपिशब्दान्नात्र पञ्चविंशतिसख्यासङ्ग्रहः, २ "दिक्संख्ये संशायाम्" इति संशाविषयोऽयं पञ्चजना इति । पञ्चजना नाम केचित्,ते पञ्च पञ्चजनाः इत्युच्यन्ते, 'सप्त सप्तर्षयः' इतिवत् ॥
प्राणादयो वाक्यशेषात्।।पञ्चजनसंक्षिताः प्राणादयः पञ्चेन्द्रियाणीति ३"प्राणस्य प्राणमुत चक्षुषश्चक्षुः" इत्यादिवाक्यशेषादवगम्यते चक्षुश्श्रोत्रसाहचर्यात् प्राणानशब्दावपि स्पर्शनादीन्द्रियविषयौ ॥१२॥
__ ज्योतिषैकेषामसत्यने । एकेषां शाखिनां काण्वानाम् ३"अन्नस्यानम्" इत्यसति, ४"तन्देवाज्योतिषां ज्योतिः" इत्युपक्रमगतेन ज्योतिश्शब्देन पञ्च पञ्चजनाः इन्द्रियाणीति शायन्ते। ज्योतिषां ज्योतिः प्रकाशकानां प्रकाशकं ब्रह्मेत्युक्त्वा, अनन्तरं १"पञ्च पञ्चजनाः" इत्युक्तेः प्रकाशकानि पञ्चेन्द्रियाणीति गम्यते ॥ १३॥
इति वेदान्तसारे संख्योपसङ्ग्रहाधिकरणम्. वेदान्तदीपे-न सङ्खयोपसङ्ग्रहादपि नानाभावादतिरेकाच्च।।वाजसनेयके?"यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवंमन्य आत्मानं विद्वान्त्र१. 1. ६. ४-२७॥
३. इ. ६-४-१८॥ २. पाणिनि. २-१-५०॥
For Private And Personal Use Only