________________
Shri Mahavir Jain Aradhana Kendra
३७४
www.kobatirth.org
श्रीशारीरकमीमांसाभाष्ये
के पुनस्ते पञ्चजनाः इत्यत आहप्राणादयो वाक्यशेषात् । १ । ४ । १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१" प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो ये मनो विदुः" इति वाक्यशेषाद्रह्माश्रयाः प्राणादय एव पञ्च पञ्चजनाः इति विज्ञायन्ते ॥ १२ ॥
१. ब्रु. ६-४-१८ ॥
२. ब्रु. ६-४-१७ H
अथ स्यात् काण्वानां माध्यन्दिनानां च २' यस्मिन् पञ्च पञ्च जनाः" इत्ययं मन्त्रस्समानः ; "प्राणस्य प्राणम्" इत्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते ; तेषां पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुम् — इति; अत्रोत्तरम् -
[म. १०
ज्योतिषैकेषामसत्यन्ने । १ । ४ । १३ ॥
एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजनाः इन्द्रियाणीति ज्ञायन्ते;तेषां वाक्यशेषः प्रदर्शनार्थः। एतदुक्तं भवति - २" यस्मिन् पञ्च पञ्चजनाः" इत्यस्मात्पूर्वस्मिन्मन्त्रे “तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इति ज्योतिषां ज्योतिष्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीन - स्वकार्याणि कानिचिज्ज्योतींषि प्रतिपन्नानि तानि च विषयाणां प्रकाशकानीन्द्रियाणीति २ यस्मिन् पञ्च पञ्चजनाः" इत्यनिर्धारितविशेषनिर्देशेनावगम्यन्ते — इति । १ " प्राणस्य " इति प्राणशब्देन स्पर्शनेन्द्रियं गृह्यते, वायुसम्बन्धित्वात्स्पर्शनेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम्, श्रोत्रस्येति श्रोतेन्द्रियम्, अन्नस्येति घ्राणरसनयोस्तन्त्रेणोपादानम्, अन्नशब्दोदितपृथिवीसम्बन्धित्वाद्वाणेन्द्रियमनेन गृह्यते ; अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते । मनस इति मनः ।
-
३. बृ. ४-१६ ॥
For Private And Personal Use Only