SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७३ पा..] संख्योपसनहाधिकरणम्. स्सप्ताषोडशकश्च विकारो न प्रकृतिन विकृतिः पुरुषः"इतिहि कापिलानां प्रसिद्धिः । अतस्तन्त्रसिद्धतत्त्वप्रतिपादनपरः॥ (सिद्धान्तः).-..इति प्राप्ते प्रचक्ष्महे-न सङ्खयोपसङ्ग्रहादपि-इति“पञ्च पश्चजना" इति पञ्चविंशतिसक्लयोपसङ्ग्रहादपि न तन्त्रसिद्धतत्त्वप्रतीतिः। कुतः नानाभावात् एषां पञ्चसङ्ख्याविशेषितानां पञ्चजनानां तन्त्रसिद्धेभ्यस्तवेभ्यः पृथग्भावात् । १“यस्मिन् पश्च पञ्चजना आकाशश्च प्रतिष्ठितः" इत्येतेषां यच्छब्दनिर्दिष्टब्रह्माश्रयतया ब्रह्मात्मकत्वं हि प्रतीयते "तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् "इत्यत्र तमिति परामर्शेन यच्छब्दनिर्दिष्टं ब्रह्मेत्यवगम्यते । अतस्तेभ्यः पृथग्भूताः पञ्चजना इति न तन्त्रसिदा एते । अतिरेकाच-तन्त्रसिद्धेभ्यस्तत्त्वेभ्योऽत्र तत्त्वातिरेकोऽपि भवति । यच्छन्दनिर्दिष्ट आत्मा आकाशश्चात्रातिरिच्यते । अतः २"तं षड़िशकमित्याहुस्सप्तविंशमथापरे" इति श्रुतिप्रसिद्धसर्वतत्त्वाश्रयभूतस्सर्वेश्वरः परमपुरुषोऽत्राभिधीयते । 'न सङ्ख्योपसङ्घहादपि' इत्यपिशब्दस्य १“पञ्च पञ्चजनाः" इत्यत्र पञ्चविंशतितत्त्वप्रतिपत्तिरेव न सम्भवतीत्यभिप्रायः । कथम् ? पञ्चभिरारब्धसमूहपञ्चकासम्भवात् । नहि तन्त्रसिद्धतत्वेषु पञ्चसु पश्चस्वनुगतं तत्सङ्खयानिवेशनिमित्तं जात्याद्यस्ति ; नच वाच्यं-पश्च कर्मेन्द्रियाणि, पश्च ज्ञानेन्द्रियाणि, पञ्च महाभूतानि, पञ्च तन्मात्राणि, अवशिष्टानि पञ्च- इत्यवान्तरसङ्ख्यानिवेशनिमित्तमस्त्येव-इति; आकाशस्य पृथनिर्देशेन पञ्चभिरारब्धमहा भूतसमूहासिद्धेः। अतः १“पञ्चजनाः" इत्ययं समासो न समाहारविषयः; अयं तु ३"दिक्सङ्खये संज्ञायाम्"इति संज्ञाविषयः, अन्यथा पञ्चजनाः इति लिाव्यत्ययश्च । पञ्चजना नाम केचित्सन्ति; तेच पञ्चसङ्ख्यया विशेष्यन्ते, पञ्च पञ्चजनाः इति; सप्त सप्तर्षय इतिवत् ॥ ११ ॥ १. १. ६.४.१७॥ २. मन्त्रिकोपनिषदि ॥ ३. पाणिनि-२-१-५०॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy