Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विक्खेवो सुत्तादिषु इत्यादिना ग्रन्थेनोक्तः । अथ कस्मात् व्याक्षेपो घटनादि वा परिमन्थ इत्युच्यते । तत आह-येन प्रकारेण तेन संयम उपलक्षणमेतत् सूत्रमर्थश्च मथ्यते तेन पारमन्थ इति । तम्हाउ न घेत्तव्यो उउंमि दुविहो वि एस संथारो। एवं सुत्तं अफलं सुत्तनिवाओउकारणितो ॥१३॥ ___यस्मादेते दोषास्तस्मात् ऋतौ ऋतुबद्धे काले द्विविधोऽप्येष परिशाट्य परिशाटिरूपः संस्तारो न गृहीतव्यः । अत्र पर
आह-एवं सति सूत्रमफलं सूत्रे तृणमयस्य शय्यासंस्तारकस्यानुज्ञानादाचार्य आह-सूत्रनिपात: कारणिकः । कारणवशात्प्रवृत्तः । तदेव कारणमुपदर्शयतिसुत्तनिवातो तणेसुं देसि गिलाणे य उत्तमठेय। चिक्खल्लपाणहरिए फलगाणि वि कारणजाते ॥१४॥
सूत्रस्य निपातो निपतनमवकाश इति भावः । देशे देशविशेषे तथाग्लाने उत्तमार्थे च तथा चिक्खन्ने कर्दमे प्राथे प्राणजाते भूमौ संसक्ते तथा हरिते हरितकाये एवं रूपे कारणजाते सति फलकान्यपि गृह्यन्ते । फलकरूपोऽप्यपरिशाटिः संस्तारको गृह्यते इति गाथा संक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतस्तुणेषु देशे इत्यस्य व्याख्यानमाहअसिवादिकारणगता उवही कुत्थण अजीरगभया वा। अझुसिरमसंधिबीए एकमुहे भंगसोलसगं॥१५॥ __अशिवादिभिः कारणैस्तत्र प्रदेशेगता यो वर्षारात्रे पानीयेन प्लाव्यते, यथा सिन्धुविषयो अथवा तत्र देशे स्वभावतः * प्रखराभूमिस्ततो रात्रौ शीतलवातसम्पर्कतोवश्याय-पतनतो वा जलप्लावितेव सा भूमिरुपजायते । अथवा आसन्नीभूतेन
मानमाह
For Private and Personal Use Only
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 124