Book Title: Pramana Nirnaya Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri Publisher: Manikchand Digambar Jain Granthamala Samiti View full book textPage 9
________________ प्रमाणनिर्णये तस्य व्यापारोपनिपातात् । कथमेवमप्यन्वितज्ञानाविष्वग्भावे तत्तत्समयभाविन्योऽर्थप्रमितयो व्यतिभिद्यन्ते इति चेत्, युगपगाविन्यः कथं ? तदानीमेकैव करितुरगादिविषया प्रमितिरपीति चेन्न, तस्यास्तुरगोन्मुखस्वभावत्वे तद्विषयतया नरवारणादेरपि तुरगरूपत्वापत्तेः । अतत्स्वभावत्वे तया तुरगस्याऽव्यवस्थापनप्रसङ्गात् । नरवारणादेरापि तत्तदुन्मुखस्वभावयैव तया विषयीकरणं न तुरगोन्मुखस्वभावयैव यदयं प्रसङ्ग इति चेत्, सिद्धं तर्हि युगपत्पमितेर्नानात्वं, औन्मुख्यनानात्वे तद्रूपतया तत्रापि नानात्वस्योपपत्तेः । अतो युगपदिव क्रमेणाऽपि अन्वितज्ञानाविष्वग्भावेऽपि व्यतिभेदोपपत्तेः । तत्र तत्र प्रमितौ तस्यैवान्वयिनः संवेदनस्य साधकतमत्वं, नाचेतनस्येन्द्रियलिङ्गादेः, नाप्यसम्यग्ज्ञानस्याध्यवसायादेरिति स्थितम् । तस्य संवेदनस्य स्वरूपमर्थश्चेति द्विविधो विषयः । तत्रोभयत्रापि तत एव प्रमितेः । कः पुनरर्थो नाम यत्र ततः प्रमितिरिति चत्, संवेदनबहि विनीलादिरेव; यद्यसौ प्रकाशते न कथमस्ति ? ब्योमकुसुमादिवत् प्रकाशते चेत्, न संवेदनबहिर्भावस्तस्य प्रकाशस्यैव संवेदनत्वेन प्रसिद्धेऽपि संवेदने प्रतिपत्तेः । संवेदनं प्रकाशरूपमेव, नीलादिस्तु कदाचिदप्रकाशोऽपि, ततस्तस्यार्थत्वं प्रकाशबहिर्भावात् इति चेत् । अप्रकाशावस्थस्य यदि न तस्य प्रतिपत्तिः कथमस्तित्वमतिप्रसङ्गात् । प्रतिपत्तिश्चेन्न प्रकाशवैकल्यं, प्रकाशवत्त्वादेव प्रतिपन्नतोपपत्तेः । ततो नीलादेः प्रकाशवहिर्भावेन नार्थत्वमिति-कथं तस्य संवेदनादन्यतः १ परस्परं भिद्यते । २ प्रमितानां । ३ पूर्वोत्तरसमये। ४ ज्ञानाद्वैतवादी सौगतो वक्ति । प्रमितेर्भिन्नः कः पुनरथों नामेति प्रश्नस्याशयः । ५ जैनः । ६ भक्तीति शेषः। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86