Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 81
________________ प्रमाणनिर्णये पुनः स एवायमिति चेत् न, तथा ततोऽपि कलमकेशादौ तदुपलब्धेः । भ्रांतमेव तत्र तल्लूनपुनरुत्पन्नतया भेदिनि वस्तुत एकत्वस्याभावात् इति चेत् न, वर्णादिष्वपि तदविशेषात्, व्ययप्रादुर्भावयोस्तत्रापि प्रत्यक्षतोऽध्यवसायात् । तदनेनं तबलात्तत्र व्यापित्ववर्णनमपि प्रत्याख्यातं घटादिष्वव्यापिष्वेव तत्रापि तद्भावात् । व्यापिनः सामान्यस्य भावादेव घटादिष्वपि तद्भाव इति चेत् न, तादृशस्य प्रवेदनासंभवात्तत्संभवेऽपि वर्णेष्वपि तत एव तदिति कथं ततस्तदव्यक्तिषु तत्वप्रतिपत्तिः ? कीदृशः पुनरसौ शब्दो यस्य प्रादेशिकस्यानित्यस्य चोपकल्पनमिति चेत्, पौद्गलिक इति ब्रूमः। तथा हि-पुद्गलविवर्त्तः शब्दःइंद्रियवेद्यत्वात् कलशादिसंस्थानवत् । तोयादिसंस्थानेन व्यभिचारस्तस्य सत्यपि तद्वेद्यत्वे तद्विवर्त्तत्वाभावात् । सोऽपि तोयादौ स्पर्शादिस्वभावचतुष्टयस्याभावेन तल्लक्षणस्य पुद्गलस्याभावादिति चेत् न, तत्राप्यनभिव्यक्तस्य गंधादेः स्पर्शवत्वादेव लिंगात्पृथिव्यामिव प्रतिपत्तेः, अनुभूतस्वभावत्वाच्च हेम्न्युष्णस्पर्शवदनुपलंभस्याप्यविरोधात् । पृथिव्यादिरूपतया चातुर्विध्यस्यापि धारण इवोष्णेरणरूपतया पुद्गलतत्वाविशेषेऽप्युपपत्तेः, तन्नायं नियमः, आपो रसरूपस्पर्शवत्यस्तेजोरूपस्पर्शवत् वायुः स्पर्शवानिति। नापि सामान्यैः कर्मभिर्व्यभिचारस्तेषां तद्वतो भेदे तद्वेधत्वस्याप्रतिवेदनात; अभेदे तु तद्वतः पुद्गलतया तद्विवर्त्तत्वेन तेषु सपक्षस्यैव भावात् । मूर्तिमदिंद्रयवेद्यत्वस्यैव पौद्गलिकत्वेन व्याप्तिर्न च १ पूर्वोक्तन्यायेन नित्यत्त्वनिराकरणेन वा । २ अस्त्विति शेषः, तथाचानिष्ट मीमांसकस्य कुतः वर्णेष्वेव व्यक्तिवत्तेन सामान्यानंगीकरणात् । ३ एकत्व ४ आदिशब्देन तेजोवायू गृहीतव्यौ। ५ पृथिव्यादेः पुद्गलत्वाविशेषात् भेदः कथमिति चेत् । ६ चलनात्मकैः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86