Page #1
--------------------------------------------------------------------------
________________
नसहशं पवित्रा
महाविद्यत।
R
न हि ज्ञानेन
SUNISHITTOSXITHDRA
माणिकचन्द-दिगम्बर-जैनग्रन्थमाला।
प्रमाणनिर्णयः।
BY
Page #2
--------------------------------------------------------------------------
________________
माणिकचंद्र-दिगम्बरजैन-ग्रन्थमाला, दशम पुष्प ..
श्रीमद्वाराजसूरिविरचितः प्रमाणनिर्णयः।
जयपुरनिवासिपण्डितइन्द्रलालसाहित्यशास्त्रिणा ।
वेरनीग्राम निवासिपण्डितखूबचन्दशास्त्रिणा च
सम्पादितः संशोधितश्च ।
प्रकाशिकामाणिकचन्द-दिगम्बर-जैन-ग्रन्थमाला समितिः ।
अधिक भाद्रपद, वीर निर्वाण सं० २४४३ ।
विक्रमान्द १९७४।
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक-- नाथूरामप्रेमी, मंत्री, माणिकचन्द्र ग्रन्थमाला, हीराबाग पो० गिरगांव बम्बई
मुद्रकचिंतामण सखाराम देवळे, मुंबईवैभव प्रेस, सहेंट्स् ऑफ इंडिया होसायटीज बिल्डिंग, गिरगांव-बम्बई.
Page #4
--------------------------------------------------------------------------
________________
निवेदन।
neter इस ग्रन्थके कर्ता प्रसिद्ध तार्किक श्रीवादिराजसूरि हैं जिनका विस्तृत परिचय इस ग्रन्थमालाके चौथे ग्रन्थ पार्श्वनाथचरितकी भूमिकामें दिया जा चुका है । यह ग्रन्थ अभीतक अप्राप्य था। इसका सम्पादन और संशोधन एक ही प्रतिपरसे किया गया है जो जयपुरके एक जैन-मन्दिरके पुस्तक-भण्डारसे प्राप्त हुई थी और प्रायः शुद्ध थी। इसके लिए उक्त भण्डारके अधिकारियोंको शतशः धन्यवाद ।
-~-मंत्री।
Page #5
--------------------------------------------------------------------------
________________
0333333☺☺☺☺☺✪✪✪✪✪33333030033333330
माणिकचन्द - दिगम्बर जैन - ग्रन्थमालासमिति ।
( प्रबन्धकारिणीसभाके सम्य । )
>
१ रायबहादुर सेट स्वरूपचन्द हुकुमचन्दजी |
तिलोकचन्द कल्याणमलजी । ओंकारजी कस्तूरचन्दजी |
27
""
""
"
ܕܪ
४ सेठ गुरुमुखराय सुखानन्दजी |
५ हीराचन्द नेमीचन्दजी आ० मजिस्ट्रेट ।
0000:00
""
६ ठाकुरदास भगवानदासजी जौहरी । ७ मि० लल्लूभाई प्रेमानन्दजी एल. सी. ई. । ८ ब्रह्मचारी शीतलप्रसादजी |
पं० धन्नालालजी काशलीवाल ।
१० पं० खूबचन्दजी शास्त्री । ११ मंत्री - नाथूराम प्रेमी ।
©€€€33:33333;30330:0333
33
✪✪✪✪=3333333333333333333✪✪33336
Page #6
--------------------------------------------------------------------------
________________
&
श्रीसरस्वत्यै नमो नमः । श्रीमद्वादिराजसूरिविरचितः प्रमाणनिर्णयः ।
मङ्गलाचरणम् ।
श्रीवर्द्धमानमानम्य जिनदेवं जगत्प्रभुम् । सङ्क्षेपेण प्रमाणस्य निर्णयो वर्ण्यते मया ॥ १ ॥
प्रमाणलक्षणनिर्णयः ।
सम्यग्ज्ञानं प्रमाणं प्रमाणत्वाऽन्यथाऽनुपपत्तेः । इदमेव हि प्रमाणस्य प्रमाणत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन करणत्वं । तच्च तस्य सम्यग्ज्ञानत्वे सत्येव भवति नाऽचेतनत्वे नाऽप्यसम्यग्ज्ञानत्वे । नंनु च तत् क्रियायामस्त्येवाचेतनस्यापीन्द्रियलिङ्गादेः करणत्वं चक्षुषा प्रमीयते धूमादिना प्रमीयत इति । तंत्राऽपि प्र
"
१ " ननु च " शब्दोऽत्र विरुद्धोक्तौ । नैयायिकमतमिदम् । २ इंद्रियलिंगादावपि ।
Page #7
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
मितिक्रियाकरणत्वस्य प्रसिद्धेरिति चेत् । ननु च प्रमितिर्नामाव्युत्पत्त्यादिव्यवच्छित्तिरेव । सत्यामेव तस्यां चेतनस्येतरस्य वा प्रमितत्वोपपत्तेः । न च तत्राऽचेतनस्य करणत्वमविरोधात् । विरोधिनो हि कुतश्चित्कस्यचिद् व्यवच्छित्तिः, प्रकाशादिवान्धकारस्य । नाचेतनस्याप्यव्युत्पत्त्यादिना कश्चिदपि विरोधो यतस्ततोऽपि तव्यवच्छित्तिः परिकल्प्येत, सम्यग्ज्ञानात्तु तव्यवच्छित्तिरुपपन्नव तस्य व्यवसायात्मकत्वात् । व्यवसायस्य चाऽव्युत्पत्त्यादिना विरोधप्रसिद्धः। न हि व्यवसितमेव किश्चिदव्युत्पन्नमारेकितं विपर्यस्तं वा भवति । तदभाव एव तद्भावस्योपपत्तेः । अतः सम्यग्ज्ञानस्यैव तत्र करणत्वम् । अचेतनस्य त्विन्द्रियलिङ्गादेस्तत्र करणत्वं गवाक्षादेरिवोपचारादेव । उपचारश्च तद्व्यवच्छित्तौ सम्यग्ज्ञानस्येन्द्रियादिसहायतया प्रवृत्तेः। तन्नाऽचेतनस्य तत्र करणत्वं मुख्यवृत्त्या सम्भवति, नाऽप्यसम्यग्ज्ञानस्य । न हि तव्यापारपरामृष्टस्याऽव्युत्पत्त्यादिविकलतया भावस्य प्रमितत्वमुपपन्नं, तदसम्यक्त्वस्यैव तथासत्यभावापत्तेः । अव्युत्यत्त्यादिप्रत्यनीकस्य स्वभावस्यैव सम्यगर्थत्वात् । तस्य वा सम्यग्ज्ञानेऽपि भावे वाचनिकमेव तस्यासम्यग्ज्ञानत्वं भवेन्न वास्तवम् । ततः सम्यग्ज्ञानादेव व्यवसायात्मनस्तव्यवच्छित्तिः । यद्येषा न व्यवसायरूपी न प्रमाणस्य सम्यग्ज्ञानात्मनः फलं भवेत्, व्यवसायरूपत्वे सत्येव तदुपपत्तेः । अत एवोक्तं " प्रमाणस्य साक्षात्फलसिद्धिः स्वार्थ
१ " प्रश्नावधारणानुज्ञाऽनुनयामंत्रणे ननु” इत्यमरः। २ अनध्यवसायः। ३ अनध्यवसितम् । ४ शङ्कितम् । ५पदार्थस्य । ६ वाड्यात्रमेव । ७ सत्यं । ८ " तहीति" शिष्टांशः। ९ अज्ञाननिवृत्तिहीनोपादानोपेक्षावुद्धयः फलं। १० जैने. नेति शेषः। ११ ज्ञप्तिः ।
Page #8
--------------------------------------------------------------------------
________________
प्रमाणलक्षणनिर्णयः ।
विनिश्चय" इति। व्यवसायरूपा चेत्तर्हि व्यवसायात्तद्व्यवच्छि. त्तिरिति तद्व्यवच्छित्तेरेव तद्व्यवच्छित्तिरित्युक्तं भवति, तच्चानुपपन्नमेव । भेदाऽभावे क्रियाकारकभावस्यानुपपत्तोति चेन्न भेदस्याऽपि भावात् ।
द्विरूपं हि व्यवसायस्वभावसंवेदनं, प्रवृत्तिरूपं निवृत्तिरूपं चेति । नहीदमव्युत्पत्त्यादि निवृत्तिरूपमेव, नीरूपत्वापत्तेः । नाऽपि प्रवृत्तिरूपमेव, स्वरूपादिनेवाऽव्युत्पत्त्यादिरूपेणाऽपि तद्रूपत्वापत्तेः । न चैवमेकान्ततो निवृत्तिरूपतया प्रवृत्तिरूपतया च तस्याऽप्रवेदनात् । अत एवोभयस्वभावे तस्मिन् प्रवृत्तिरूपतया साधकतमस्याव्युत्पत्त्यादिनिवृत्तिरूपतया क्रियाभावस्य भावान्न क्रियाकारकभावस्याऽनुपपत्तिः । कथमेवमपि प्रमितिक्रियायां तत्सहभाविनः संवेदनस्य साधकतमत्वमितिचेन्न । प्रागपि भावात, तत एव संवेदनात्प्रागपि विषयान्तरे प्रमितिक्रियानिष्पत्तेः । अन्यदेव तत्संवेदनं विषयभेदे तद्भेदस्याऽवश्यंभावादिति चेत् । न । युगपदप्येवं प्रसङ्गाव, तथाच कथं सेनावनादिप्रतिपत्तिः ।
न हि करितुरगादेर्धवखदिरादेश्चैकसंवेदनविषयत्वाभावे तत्प्रतिपत्तिः संभवति । युगपद्विषयभेदेऽपि एकमेव संवेदनं, तथा तस्यानुभवादिति चेन्न । क्रमेणापि तथा तदनुभवस्याविशेषात् । परापरसमयव्यातेरनुभवगम्यत्वे कुतो न तस्याऽऽजन्ममरणावधिरप्यनुभव इति चेन्न । यावच्छक्तिकमेवानुभवस्य तत्र व्यापारात् । अन्यथा वर्तमानेऽपि वस्तुनि सर्वत्राऽपि
१ आत्म । २ तथास्त्विति चेत् । ३ अनिश्चयात् । ४ प्रमितेः प्रागपि संवेदनस्य भावात् । ५ यत्पूर्व विषयांतरे प्रमितिक्रियामुपजनयति । ६ युगपदिति विषयभेदात्संवेदनभेदे सति । ७ जनः । ८ अन्यः । ९ विषयभेदेऽप्येकत्वप्रकारेण ।
Page #9
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
तस्य व्यापारोपनिपातात् । कथमेवमप्यन्वितज्ञानाविष्वग्भावे तत्तत्समयभाविन्योऽर्थप्रमितयो व्यतिभिद्यन्ते इति चेत्, युगपगाविन्यः कथं ? तदानीमेकैव करितुरगादिविषया प्रमितिरपीति चेन्न, तस्यास्तुरगोन्मुखस्वभावत्वे तद्विषयतया नरवारणादेरपि तुरगरूपत्वापत्तेः । अतत्स्वभावत्वे तया तुरगस्याऽव्यवस्थापनप्रसङ्गात् । नरवारणादेरापि तत्तदुन्मुखस्वभावयैव तया विषयीकरणं न तुरगोन्मुखस्वभावयैव यदयं प्रसङ्ग इति चेत्, सिद्धं तर्हि युगपत्पमितेर्नानात्वं, औन्मुख्यनानात्वे तद्रूपतया तत्रापि नानात्वस्योपपत्तेः । अतो युगपदिव क्रमेणाऽपि अन्वितज्ञानाविष्वग्भावेऽपि व्यतिभेदोपपत्तेः । तत्र तत्र प्रमितौ तस्यैवान्वयिनः संवेदनस्य साधकतमत्वं, नाचेतनस्येन्द्रियलिङ्गादेः, नाप्यसम्यग्ज्ञानस्याध्यवसायादेरिति स्थितम् ।
तस्य संवेदनस्य स्वरूपमर्थश्चेति द्विविधो विषयः । तत्रोभयत्रापि तत एव प्रमितेः । कः पुनरर्थो नाम यत्र ततः प्रमितिरिति चत्, संवेदनबहि विनीलादिरेव; यद्यसौ प्रकाशते न कथमस्ति ? ब्योमकुसुमादिवत् प्रकाशते चेत्, न संवेदनबहिर्भावस्तस्य प्रकाशस्यैव संवेदनत्वेन प्रसिद्धेऽपि संवेदने प्रतिपत्तेः । संवेदनं प्रकाशरूपमेव, नीलादिस्तु कदाचिदप्रकाशोऽपि, ततस्तस्यार्थत्वं प्रकाशबहिर्भावात् इति चेत् । अप्रकाशावस्थस्य यदि न तस्य प्रतिपत्तिः कथमस्तित्वमतिप्रसङ्गात् । प्रतिपत्तिश्चेन्न प्रकाशवैकल्यं, प्रकाशवत्त्वादेव प्रतिपन्नतोपपत्तेः । ततो नीलादेः प्रकाशवहिर्भावेन नार्थत्वमिति-कथं तस्य संवेदनादन्यतः
१ परस्परं भिद्यते । २ प्रमितानां । ३ पूर्वोत्तरसमये। ४ ज्ञानाद्वैतवादी सौगतो वक्ति । प्रमितेर्भिन्नः कः पुनरथों नामेति प्रश्नस्याशयः । ५ जैनः । ६ भक्तीति शेषः।
Page #10
--------------------------------------------------------------------------
________________
प्रमाणलक्षणनिर्णयः।
प्रतिपत्तिः? स्वत एव तदुपपत्तेरिति चेत् । सत्यमस्ति प्रकाशो वीलादेः स यदि स्वत एव भवति तस्य बोधरूपत्वं । न चैवं, परत एव तद्भावात् । ततोऽपि भवतस्तस्य बोधत्वमेव रूपमिति चेन्न, बोध्यत्वस्यैव तेदूपत्वात् । किं पुनरिदं बोध्यत्वमर्थस्य, किं पुननिस्यापि बोधकत्वं ? परनिरपेक्षमपरोक्षत्वमिति चेत् । अर्थस्यापि परापेक्षं तदेव बोध्यत्वं किं न स्यात् । परस्यैवार्थप्रतीतिवेलायामप्रतिवेदनादिति चेन्न । नीलैं वेद्मि पीतं वेद्मीति नीलादेरन्यस्यैव तद्वेदनस्यवानुभवनात् । अनन्यत्वे हि नीलमित्येव वेझीत्येव वा स्थानोभयमस्ति चोभयं ततोऽनुभवप्रसिद्धत्वानीलादेस्तत्संवेदनान्यत्वस्य कथमप्रतीतिविकल्प एवायं कश्चिन्नीलं वेझीति नानुभवो न च ततः क्वचिदन्यत्वनिश्चयो वासनामात्रनिबन्धनत्वेन तस्य विप्लवत्वात्, अन्यथा केशादेरपि तद्वेदनस्य ततस्तत्प्रसङ्गात् । केशादिकं वेद्मीति तैमिरिकस्य तत्रापि विकल्पप्रादुर्भावात् भवतु, इति चेन्न । केशादेवहिरभावात् ! बहिरसत एव ततस्तद्वेदनस्यान्यत्वमिति चेन्न । तदप्रतिभासे तत इति तद्वेदनस्येत्यप्यनुपपत्तेः । न चासतःप्रतिभास इति चेन्न । विभ्रमसामर्थ्यात् असतोऽपि तदुपपत्तेः अन्यथा विकल्पे नीलतद्वेदनान्यत्वस्याप्यप्रतिभासोत्पत्तेः, असत्त्वाविशेषात् । सत्यम् । विकल्पस्याऽपि न तप्रतिभासित्वं स्वसंविन्मात्रपर्यवसितत्वात्, विकल्पान्तरमेव तु तत्र तत्प्रतिभासित्वमवकल्पयतीति चेन्न । तेनाऽप्यसतस्तस्यान
१ परतो भवत्प्रकाशरूपत्वात् । २अर्थाद्भिन्नस्यैव।३ जैनो वक्ति।४ व्यभिचारात्। ५ विकल्पात् क्वचिदन्यत्वनिश्चये । ६ अन्यत्वप्रसंगो भवतु । ७ असत्त्वात् । ८ असतो ऽप्रतिभासो बा प्रतिभास इति विकल्पयन्नाह । ९ द्वितीयविकल्पो घटते सौगतबिशेषे । १० कर्तृतापन्नं। ११ स्वस्मिन्नविद्यमानस्य ।
___
Page #11
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
वकल्पनात् । पुनर्विकल्पान्तरात्तस्य तदवकल्पकत्वे चानवस्थापत्त्या नीलतद्वेदनविवेकविकल्प एव न भवेत् । न चैवं, तस्य तस्य प्रतीतेस्ततो न सङ्गन्तमिदं, विकल्पो ग्राह्य ग्राहकोल्लेखेनोत्पत्तिमान्, सोऽपि स्वरूपे ग्राह्यग्राहकरूपरहित एव अपरेण तथा व्यवस्थाप्यत इति। ततो न केशादेरपि तद्वेदनस्यानर्थान्तरत्वं यतस्तन्निदर्शनेन नीलादेरपि तद्वेदनस्य तत्त्वमवकल्प्येत । ततो बहिरेव तद्वेदनान्नीलादिबहिरर्थः । तत इदमप्यनुपपन्नम् ।
संवेदनेन बाह्यत्वमेतोऽर्थस्य न सिद्ध्यति । ___ संवेदनाद्वहिर्भावे स एव तु न सिद्धयति ॥ इति संवेदनेनैव नीलादेस्तद्वहिर्भावस्योक्तया नीत्या व्यवस्थापनात् । यदि संवेदनाद्बहिरेव नीलादिः कथं तस्य वस्तुसत्त्वं ? तैमिरिककेशादिवदिति चेत्, तत्केशादेरापि न संवेदनबहिर्भावेनावस्तुसत्त्वमपि तु बाधकत्वात् । न चेदं प्रसिद्धे नीलवस्त्रादावस्तीति । वस्तु सन्नेवाऽयं कर्तव्यश्चैवमभ्युपगमः । अन्यथा नीलादेबहीरूपत्वेनेव संवेदनस्यापि प्रतिभासमानत्वेन तैमिरिककेशादिना साधादवस्तुसत्त्वापत्तेः ।अतः संवेदनबहिर्भावादबाधकत्वेन वस्तुसत्त्वाच्चार्थ एव नीलादिरवगन्तव्यः । यत्पुनरेतन्मतं । यथैव हि ग्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात् । तथा तेन समानकालोऽपि नीलादिक इति । तत्र भंवतो यदि तादृशो नीलादिरप्रतिपत्तिविषयः कथं यथैवेत्यादिवचनं प्रतिपाधवत् । प्रतिपत्तिविषयश्चेत्तहि कथं स्वरूपेणाऽपरोक्षत्वं, तस्य भवत्प्रतिपत्तिविषयतया परत एव तदुपपत्तेः । यदप्येतदपरं यथा
१तदन्यत्वविकल्पाभावो न च । २अन्यविकल्पेन विकल्पांतरेणेति यावत् । ३अन्यत्वं। ४ हेतुना। ५ न्यायात्। ६ तैमिरिककेशादिवत् । ७ परमार्थसत् । ८ ज्ञायत इति शेषः।९ तव। १० प्रतिपाद्यार्थोऽस्यास्तीति प्रतिपाद्यवत् । ११ त्वज्ज्ञानविषयतया।
___
Page #12
--------------------------------------------------------------------------
________________
प्रमाणलक्षणनिर्णयः ।
2
चक्षुरादिकात् ग्राहकाकार:, तथा तत्समानकालो ग्राह्याकारोपीति तत्राऽपि सभासमवायिनीं चक्षुरादेर्बहुत्वात् तज्जन्मनो विकसितकुवलयदलनीलच्छायानुवर्त्तिनो नर्त्तकीरूपस्यापि बहुत्वेन भवितव्यम् । नचैवं तद्पैकत्वे सर्वेषां तेषामेकवाक्यताप्रतिपत्तेः । व्यामोहादेव कुतश्चित्तत्र तेषामेकवाक्यत्वं; वस्तुतो नानैव तद्रूपमितिचेत् । कोशपानादेतत्प्रत्येतव्यं न प्रमाणतः । कुतश्चिदपि तदभावात् कुतश्चेदमवगतं ग्राह्याकारोऽपि चक्षुरादेरिति ग्राहकाकारवत् । तत्रापि तदन्वयव्यतिरेकानुविधानस्य भावादिति चेत्, कुतः पुनस्तद्भावस्यावगतिः ? न प्रत्यक्षात्, " न हि प्रत्यक्षसंवित्तिरन्वयव्यतिरेकयोरिति ” स्वयमेवाभिधानात् । नाप्यनुमानात्प्रत्यक्षाभावे तत्पूर्वकत्वेन तस्याप्यसंभवात् । तद्वासनामात्रजन्मनो विकल्पात्तदवगतौ वा अवास्तव एव तद्भाव इति न ततो नीलादेरपरोक्षतया चक्षुरादेरुत्पादः शक्यव्यवस्थापनः । ततो नीलादिव्यतिरिक्तवेदनविषयतयैवा परोक्षभावमनुभवन्नर्थ एवेत्युपपन्नं तद्विषयतया सम्यग्ज्ञानस्यार्थविषयत्वम् ।
भवतु तद्विषयत्वमेव तस्य न स्वविषयत्वं स्वात्मनि क्रियाविरोधात् छिदिक्रियावत्तथाहि । - विरुद्धा ज्ञानस्य स्वात्मनि प्रमितिः क्रियात्वात् खड्गात्मनि छिदिक्रियावत्; न हि खड्गः स्वात्मानं छिन्दन्नुपलभ्यत इति चेत्, न क्रियात्वमात्राच्छिदेः खङ्गात्मना विरोधोऽपि तु तदात्मनो भावरूपत्वात्; छिदेश्च प्रध्वंसविशेषत्वेन अभाव स्वभावत्वात् । भावाभावयोश्च परस्परपरिहारोपपत्तेः । नचैवं ज्ञानात्मतत्प्रमित्योर्भावेतर स्वरूपत्वं येन तयोरन्योन्यपरिहारेणावस्थानाद्विरोधपरिकल्पनमतो न विरोधादस्वप्रतिपत्तिकत्वं ज्ञानस्य शक्यव्यवस्थं कथं चास्वप्रमितिरूपत्वे १ ज्ञाने ज्ञायते । २ पुरुषाणामिति शेषः । ३ नैयायिको वदति ।
Page #13
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
तस्य नियत एवार्थो गोचरो न सर्वोऽपीति, नियतस्यैव तस्य प्रति. भासनादिति चेत्कुत इदमवगन्तव्यम् ।
न तावत्तत एव स्वप्रतिपत्तिवैकल्यात्। न हि स्वप्रतिपत्तिविकलादेव ज्ञानात्तत्र नियतार्थप्रतिभासनमन्यद्वा शक्यावबोधं मा भूत्ततस्तदवबोधस्तद्विषयात्तु ज्ञानान्तराद्भवत्येवेति चेन्न, तस्यापि स्वप्रतिपत्तिवैकल्ये तत्रापि तद्विषयस्य ज्ञानस्य नियतार्थगोचरत्वमेव प्रतिभाति न निरवशेषवस्तुगोचरत्वमिति-तत एवावगन्तुमशक्यत्वात् । तस्यापि नियतविषयत्वमन्यतस्तद्विषयादेव ज्ञानादवगम्यत इति चेन्न, अनवस्थाप्रसंगात् । सत्येवमपरापरज्ञानपरिकल्पनस्यावश्यंभावात् । ततः सुदूरमपि गत्वा क्वचिनियतविषयत्वमध्यवसातुकामेन तद्विषयस्य ज्ञानस्य स्वप्रतिपत्तिरूपत्वमभ्युपगन्तव्यम् । अन्यथा ततस्तद्विषयविज्ञाननियतार्थगोचरत्वप्रतिपत्तेर्दुरुपपादकत्वात् । तथा च सिद्धमर्थज्ञानस्यापि तद्वत्स्वप्रतिपत्तिरूपत्वमाविशेषात् । __ यत्पुनरिदमनुमानं, "नात्मविषयमर्थज्ञानं वेद्यत्वात्कलशादिवदिति' तत्र न तावद्वेद्यत्वं नाम सामान्यं तस्य नित्यत्वेन सर्वदा भावेषु प्रसंगात सामान्यादिषु तदभावापत्तेश्च । न हि सामान्यादिषु सामान्यं द्रव्यादित्रय एव तदभ्युपगमात्सामान्यादिषु तदभावापत्तेश्च । अस्ति च तत्रापि वेद्यत्वं, अन्यथा व्योमकुसुमादिवत्तदभावापत्तेः, अतोन तत्सामान्यं । भवतु साधर्म्यमेव तद्वेदनविषयत्वस्य वेद्यत्वस्य चाभिधानात् । तस्य सर्वपदार्थसाधारणतया द्रव्यगुणकमस्विव सामान्यविशेषसमवायेवष्यविरोधात् । न तदभावापत्तिरितिचेत् किं पुनस्तद्वेदनं यद्विषयत्वं वेद्यत्वमर्थज्ञानस्योच्येत, तदे.
१ स्वस्मिन्निति शेषः । २ ज्ञाने।३ सर्वार्थप्रतिभासनं ।। प्रथमज्ञाने। ५द्वितीयस्य ६ दुर्घटत्वात्। ७ स्वप्रतिपत्तिरूपत्वे सति । ८ प्रथमज्ञानस्य । ९ पदार्थेषु ।
Page #14
--------------------------------------------------------------------------
________________
प्रमाणलक्षणनिर्णयः।
वार्थज्ञानमिति चेन्न । अनात्मविषयत्वे तस्य तद्वेदनत्वानुपपत्तेः, आत्मविषयत्वे च हेतुप्रतिज्ञयोर्विरोधात् । तस्मादन्यदेव तदेकार्थसमवेतमनन्तरं तद्वेदनमिति चेन, तस्याद्याप्यसिद्धत्वात् ।
अर्थज्ञानं ज्ञानान्तरवेद्यं वेद्यत्वात् कलशादिवदित्यत एवानुमानात्तत्सिद्धिारति चेन्न, परस्पराश्रयापत्तेः, तत्सिद्धावनुमानमनुमानाच्च तसिद्धिरिति ।
अन्यतस्तत्सिद्धिरित चेम्न। अनुमानस्य वैयर्थ्यप्रसंगात्।किंवा तदन्यत् ? प्रत्यक्षमिति चेन्न, तस्याप्यव्यतिरिक्तस्यानभ्युपगमात् । व्यतिरिक्तमिति चेत्, किमयं नियमः, सति विषये तवेदनमवश्य. मिति । तथा चेन्नार्थज्ञानवेदनवत्तवेदनेऽप्यन्यत्तद्वेदनं तत्राऽप्यन्यदित्यासंसारं तद्वेदनप्रबंधस्यैव प्रवृत्तेर्न विषयान्तरसंचारो वेदनस्य भवेदिति कथमनुमानम् ।
धर्मिज्ञानतज्ज्ञानप्रबंधस्या परमे हेतुदृष्टान्तयोरनुपपत्तेर्माभूदयं नियम इति चेन्न तर्हि धर्मिण्यपि वेदननियम इति कथं तस्य तद्वद्यत्वस्य हेतोर्वा सिद्धिरित्यसंभव एवानुमानस्य भवेत् । ___ अथ वैद्यत्वमर्थज्ञानस्य न विशिष्टमुपादीयते, तेंदतत्कृतत्वेन अवशिष्टस्यैव तस्य हेतुत्वादिति चेत्, कथं तस्यानात्मविषयत्वे साध्ये हेतुत्वं ? तेनैव कलशादौ तस्य व्याप्तिदर्शनादिति चेत्, न, व्याप्तिज्ञाने आत्मविषयत्वेनापि तस्य तद्दर्शनात्, न हि प्रादेशिकी व्याप्तिः। साध्यप्रतिपत्तेनिमित्तं तत्पुत्रत्वादावपि
१ विरुद्धत्वादिति भावः । २ अर्थज्ञानात् । ३ तेन सहैकस्मिन्नर्थे समवेतं । ४पश्चादुत्पन्न । ५ तृतीयज्ञानात् । ६ द्वितीयज्ञानाव्यतिरिक्तस्य । ७ कुतः स्वप्रतिपत्तिप्रसंगात् । ८ प्रभवति न वेति शेषः । ९ प्रथमज्ञानलक्षणे । १० अनवस्थाने। ११ अन्यज्ञानकृतत्वेन । १२ साध्यस्य । १३ प्रदेशे भवा प्रादेशिकी ।
___
Page #15
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
तद्भावात् श्योमत्वादेस्ततोऽपिसिद्धिप्रसंगात् । अपि तु साकल्येन। तत्र यदू यदू वेद्यं तत्तत्सर्वमनात्मविषयमिति किंचिद्विज्ञानमुत्पद्यमानमात्मविषयमपि भवितुमर्हति । अन्यथा तद्वद्यत्वस्यानात्मविषयतया व्याप्तस्तत एवाप्रतिपत्तिप्रसंगात, तथाच व्यभिचारि वेद्यत्वं व्याप्तिज्ञानेन तत्रात्मनि विषयत्वस्याभावेऽपि तस्य भावात् । एवमीश्वरज्ञानेनापि । न हि तस्याप्यनात्मविषयत्वं, असर्वविषयत्वप्रसंगात् । तथा च कथं तस्य तज्ज्ञानेन सर्वज्ञत्वं ? तेन तदपरस्य सकलस्य तस्य च तदन्येन ग्रहणादिति चेत्, कथं तदन्येनाप्यस्वविषयेण स्वविषयतया परस्परपरिज्ञानमित्यप्रतिपत्तिरेव । तेन तस्यासकलप्रतिपत्तेरनभ्युपगमादित्यतोऽस्ति तस्याऽऽत्मविषयत्वं । तथा चेत्किमपराद्धं तद्विषयेण ज्ञानेन र्यत्तस्यैवात्मविषयत्वं नेष्यते इति सिद्धम् तेनापि व्यभिचारित्वं वेद्यत्वस्य । तत्रानात्मविषयत्वाभावेऽपि तस्य भावादिति-नानुमानादप्यनात्मविषयत्वमर्थज्ञानस्यात्मविषयत्वं तु तस्यानुभवप्रसिद्धमतः किं तत्रानुमानेन, यदि निर्बन्धस्तदुच्यत एव । अर्थज्ञानमात्मविषयमविषयत्वात्, यत्पुनर्नात्मविषयं तदर्थविषयमाप न भवति यथा घटादि । अर्थविषयं विवादापलं ज्ञानं तस्मादात्मविषयमिति केवलव्यतिरेकी हेतुः, तस्य परैरपि गमकत्वाभ्यनुज्ञानात् । तन्नार्थविषत्वमेव ज्ञानस्येत्युपपन्नं नैयायिकस्य, स्वविषयत्वस्यापि तत्र भावात् ।
मीमांसकस्त्वाह । परोक्षमेव सकलमपि ज्ञानं स्वप्रकाशवैकल्यात्, प्रत्यक्षं तु बहिरर्थस्य तेन तस्यैव प्रकाशनात् इति ।
१ साध्यस्य । २ व्याप्तिज्ञानं । ३ व्याप्तिज्ञानस्यात्मविषयत्वेन । ४ द्वितीयज्ञानेनेत्यर्थः । ५ बस्तुनः । ६ द्वितीयज्ञानस्यात्मविषयत्वेन । ७ द्वितीयज्ञानविषयेण। ८ यस्मात् हेतोः ।
Page #16
--------------------------------------------------------------------------
________________
प्रमाणलक्षणनिर्णयः।
तंत्र प्रकाशकत्वे सति कुतस्ततोऽर्थस्यैव प्रकाशोन स्वरूपस्य? शक्तिवैकल्यात् । तथाहि, यद्यत्रीशक्तं न तत्तस्यप्रकाशकं, यथा चक्षू रसादेरशक्तं च सकलमपि संवेदनं स्वप्रकाशे इति तद्वैकल्यमिति चेत् । अस्यानुमानस्यापि यदि तद्वैकल्यं, अनुमानान्तरात्तस्यापि तदन्तरात्तद्वैकल्यं प्रतिपत्तव्यमिति कथमनवस्थितिर्नभवेत् ? अभिरुच्यभावात्, यावदभिरुचिस्तावदेव भवत्यनुमानस्य प्रबंधस्तदभावे त्ववस्थितिरेवति चेन्न, तर्हि कुतश्चिदपि सकलस्य संवेदनस्य प्रकाशवैकल्यप्रतिपत्तिरिति-कथं तत्र परोक्षत्ववचनं? ततः सकलस्यापि संवेदनस्य स्वप्रकाशवैकल्यमनुमानादेवजिगमिषता स्वप्रकाशकमेव तदभ्युपगन्तव्यम् । तद्वदर्थज्ञानमपि । तस्याप्यनुमानवदन्तोरूपतया परिस्फुटस्यावलोकनात् । तच्छक्तरापि तत एवाध्यवसायात् । सत्यपि परोक्षत्वे कुतस्तस्य प्रतिपत्तिः अन्यथा तदभ्यनुज्ञानानुपपत्तेः ।
अर्थप्रकाशादेवं तस्य तदन्यथानुपपन्नतया निर्णयादिति चेन्नतत्प्रकाशस्य ज्ञानधर्मत्वे ज्ञानवत्परोक्षस्यैव भावात, तत्र च तदन्यथानुपत्तेनिर्णयः परिज्ञात एव तदुपपत्तेः । परिज्ञात एवायं स्वत इति चेत्, न तर्हि परोक्षत्वं ज्ञानस्य । तद्धर्मस्यार्थप्रकाशस्य स्वप्रकाशत्वे तदव्यतिरेकिणो ज्ञानस्यापि तदुपपत्तेः । अन्यतस्तस्य परिज्ञानमिति चेत् किं पुनरत्र तदन्यत् प्रत्यक्षमिति चेन्न तस्येन्द्रियसंप्रयोगादुत्पत्तेः ज्ञानधर्मे चार्थप्रकाशे तदभावात् कथं
१ जैनः पृच्छति ।२ मीमांसको वदति । ३ ज्ञानं न स्वप्रकाशकं तत्र तस्याशक्तत्वात् । ४ आकांक्षाभावात् । ५ जैन आह । ६ अनुमानात् । ७ ज्ञातुमिच्छता मीमांसकेन । ८ अंतर्मुखरूपतया । ९ तत्प्रतिपत्तिरिति शेषः । १. जैन आह । ११ निश्चिते वस्तुनि । १२ स्वतः परतो वा इति शंकायां स्वत इति चेत् । १३ जन आह ।
Page #17
--------------------------------------------------------------------------
________________
१२
प्रमाणनिर्णये
तत्र प्रत्यक्षत्वं सत्यपि तस्मिंस्तत्प्रकाशवत्तद्धर्मिणो ज्ञानस्यापि तत एव प्रतिपत्तेर्व्यर्थमनुमानं भवेत् । तन ज्ञानधर्मस्तप्रकाशः। भवत्वर्थस्यैव सधर्म इति चेत्, न, तस्यापि स्वतः प्रतिपत्तिरर्थस्याचेतनत्वेन तदनुपपत्तेः। चेतनत्वे तु विज्ञानस्यैवावस्थितेः । न बहिरर्थो नामेति तन्निबन्धनः कश्चिदपि क्रियाविधिः स्यात् । परतः प्रतिपत्तावपि तस्मादात्मज्ञानस्यैव कुतोऽनुमानं, न परज्ञानस्य ततोऽपि तत्प्रकाशसंभवात् । तस्याप्रत्यक्षत्वेन तत्कृतस्य तत्प्रकाशस्याशक्यप्रतिपत्तिकत्वादिति चेन्न, आत्मज्ञानस्याप्यप्रत्यक्षत्वाविशेषात् । तन्नार्थधर्मस्यापि तस्य कुतश्चित्सिद्धिः, नचासिद्धस्यान्यथानुपपत्तिनिर्णयो यतस्तदनुमानमर्थज्ञानस्य,तदुक्तम् । “अन्यथानुपपन्नत्वमसिद्धस्य न सिद्धयतीति' ततोऽर्थस्य प्रत्यक्षत्वमन्विच्छता प्रत्यक्षमेतज्ज्ञानमभ्युपगन्तव्यम् । अनुभवस्यापि तथैव भावात् । नचैवं स्वपरविषयतया मरीचिकातोयादिवेदनस्यापि प्रामाण्यप्रसङ्गः । समीचं एव तदुपगमात् । न च तद्वेदनस्य सम्यक्त्वं बाधवत्त्वात् । न समानविषयेण बाधस्ततः संवादेन सम्यक्त्वस्यैवोपपत्तेः। नाऽपि विसदृशविषयेण नीलज्ञानेन पीतज्ञानेन पीतज्ञानस्य तत्प्रसंगात्। बाधोऽपि न स्वरूपापहार उत्पत्तिसमये तद्भावे तस्यानुत्पत्तिप्रसंगात् । अन्यदा च स्वयमेव नाशात् । नापि विषयापहारस्तस्य नराधिपधर्मत्वेन ज्ञानेष्वसंभवात् । नच फलापहारः फलस्यापि विषयपरिच्छेदप्रवृत्त्याद
१प्रवर्तत इति शेषः । २ प्रत्यक्षे। ३ अर्थप्रकाशधर्मिणः । ४ मयि ज्ञानमस्ति अर्थप्रकाशाद्यन्यथानुपपत्तेः । ५ क्रियाविधेः । ६ स्वकीयस्य । ७ परकीयस्य । .८ उक्कप्रकारेण ज्ञानस्य स्वप्रकाशकत्वे सति । ९ ता-षष्ठी-सत्यस्येत्यर्थः । १. प्रभाकर आह । ११ उत्पत्तिसमयेऽन्यदा घा। १२ बाधमंतरेण प्रथमज्ञानस्य ।
___
Page #18
--------------------------------------------------------------------------
________________
प्रमाणलक्षणनिर्णयः।
स्ततो दर्शनात् । न चापरोबाधप्रकार इति चेन्न, तद्विषयासत्त्वज्ञापनस्यैव वाधकत्वात, तस्य च मरीचिकाप्रत्यये सति नेदं तोयं किंतु मरीचिका इत्याकारस्यावलोकनात् । कर्तव्यश्चैवमभ्युपगमो ऽन्यथाबांधासत्त्वस्यापि अवबोधनानुपपत्तेः, न समानविषयेणेत्यादिविचारस्य वैयोपनिपातात्। तन्न विपर्ययस्य प्रामाण्यमसम्यक्त्वात्, एवमव्युत्पनसंशययोरपि तत्रापि यथातत्त्वनिर्णयस्य सम्यक्त्वस्याभावात् । ततस्तोयादावेव तत्प्रत्ययस्य तद्भावःतस्य चाभ्यासदशायां स्वत एवावगमोऽन्यथा तु पद्मगन्धोदकाहरणादेलिङ्गविशेषात् । न चैवं लिङ्गप्रत्ययसम्यक्त्वस्याप्यन्यतो लिङ्गादवगमे ऽनवस्थानं दूरानुसरणेऽपि कस्यचिदभ्यस्तविषयस्य तत्प्रत्ययस्य संभवात् । ततः सुपरिज्ञानत्वात् ज्ञानेषु सम्यक्त्वस्यैवोपपनं, इदं सम्यग्ज्ञानमेव प्रमाणं अन्यथा तदनुपपत्तेरिति ।
देवस्य मतमुद्वीक्ष्य विचारज्ञानिनां प्रभोः ।
मयाऽभ्यधायि संक्षिप्य प्रमाणस्येह लक्षणम् ॥१॥ इति श्रीमद्वादिराजसूरिप्रणीते प्रमाणनिर्णये प्रमाणलक्षणनिर्णयः॥
१ निवेदनस्य । २ प्रतियोगिभूतबाधज्ञानाभावे तदभावज्ञामानुपपत्तेः । ३ अनध्यवसायः । ४ न तु मरीचिकादौ तत्प्रत्ययस्य तद्भावः । ५ अनभ्यासदशायां ।
Page #19
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
MAnanor..
प्रत्यक्षनिर्णयः।
तच्च प्रमाणं द्विविधं, प्रत्यक्षं परोक्षंचति । तत्र यत्स्पष्टावभासं तत्प्रत्यक्षम् । किं पुनरिदं स्पाष्टयं नाम ? विशेषावबोध इति चेन्न, सामस्त्येन संसारिज्ञाने क्वचिदपि तदभावात्, असामस्त्येन तद्भावस्य परोक्षे प्रत्ययेभिधानस्य मानत्वात् । आलोकपरिकलितग्रहणं तदिति चेन्न, अव्याप्तेः, रूपज्ञान एव तस्य भावात्, न स्पादिज्ञानेषु । न चैतेषामप्रत्यक्षत्वमेव, तत्प्रत्यक्षत्वस्य निर्विवादत्वात् । अव्यवहितग्रहणं तदित्यपि न मन्तव्यं, निर्मलस्फटिक. व्यवहितेऽपि वस्तुनि स्पष्टस्यैव तद्भानस्यावलोकनात् । वृक्षोऽयं शिंशपात्वादित्यादेरनुमानस्यापि प्रत्यक्षत्वप्रसक्तिरव्यवहितग्रहणात, तस्मादन्तर्मलविश्लेषनिबन्धनो विशुद्धिविशेष एव स्पामृत्यमित्युपपन्नम् ।
सामान्यविशेषः स्पाष्टयमिति चेदभिमतमिदं विशुद्धिविशेषस्यैव तत्तत्प्रत्यक्षसहशतया तद्विशेषत्वात् नित्यनिरवयव. रूपस्य च तस्य प्रत्याख्यानात् । कुतः पुनरिदमवगतं स्पष्टमेव प्रत्यक्षमिति ? द्विबाहुरेकशिरा नर इत्यपि कुतः ? तथैव प्रत्यक्षेणावेक्षणात्, । प्रत्यक्षस्य स्पष्टत्वे स्वानुभवनेन तथैवान्वीक्षणादिति समः समाधिः। सम्यग्ज्ञानस्य व्यवसायात्मकत्वे प्रत्य
१ विमतं ज्ञानं प्रत्यक्षं भवितुमर्हति विशेषावबोधकत्वात् । २ भागासिद्ध इति भावः । ३ परोक्षप्रमाणनिर्णयप्रस्तावे वक्ष्यमाणत्वा दिति निर्गलितोऽर्थः। ४ अनेकांतिकदोषो भवेदिति भावः। ५प्रतिपक्षमनुवृत्तरूपं सामान्यं परोक्षव्यावृत्तरूपं तदेव विशेषः ६ योगमतं सामान्यविशेषोऽर्थात्परसामान्यं । ७ जनः । प्राह ८ अवगतमिति शेषः । ९ बौद्धो वदति।
Page #20
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः ।
क्षस्यापि तद्भेदस्य तदात्मकत्वेन भवितव्यं, नच तस्य तदस्ति, तेनाभिलापसंबद्धतया स्वविषयस्याग्रहणात् । तथा तद्गहणस्यैव व्यवसायत्वादिति चेत्, नैवं, व्यवसायस्यैवाभावप्रसंगात् । अभिलापेन हि तद्गतेनैव विषयस्य संबन्धस्तत्र तदभावात् । स्मरणोपनीतेन संकेतकालप्रतिपन्नेनेति चेन्न । स्मरणस्य निर्विकल्पकत्वे तद्विषयस्य स्वलक्षणत्वेन क्वचिदुपनयनानुपपत्तेः । व्यवसायरूपत्वे च तेनापि स्वविषयस्याभिलापसंबद्धस्यैव स्मर्त्तव्यं, तदभिलापस्यापि तथाविधत्त्यैव तत्स्मरणेनेत्यनवस्थितिप्रसंगात् । स्मरणस्य तदनभिसंबद्धवस्तुवेदित्वोप व्यवसायस्वभावत्वे प्रत्यक्षस्यापि तत्कि न स्यात् ? अभिलापसंबन्धवैकल्ये कुतस्तस्य व्यवसाय इति चेत्, अभिलापस्मरणस्यापि कुतः ? शब्दसामान्यतत्संबन्धयोग्यस्य तेन ग्रहणादिति चेत्, प्रत्यक्षेऽपि तत एव सोऽस्तु, तेनाऽपि सामान्यस्य वस्तुषु सदृशपरिणामस्य परिच्छेदात् । अन्यथा शुक्तिकादौ रजतायपेक्षया साधर्म्यदर्शनस्याभावात् कथं तन्निबन्धनस्तत्र रूप्याद्यारोपः। यत इदं सूक्तं भवेत्, 'शुक्तौ वा रजताकारो रूप्यसाधर्म्यदर्शनादिति " । न च साधादपरं सामान्यमपि तस्य नित्यव्यापिस्वभावस्य क्वचिदप्यप्रतिवेदनात् । तद्विषयत्वेऽपि परामर्शवैकल्याव्यवसायमेव प्रत्यक्षमिति चेन्न । नीलमिदं पतिमिदं इति तत्र परामर्शस्य प्रतिपत्तेः। प्रत्यक्षादन्य एव सः परामर्श इति चेन्नै स्पष्टत्वेन प्रतिभासनात्,
१ अभिलापसंबद्धस्य स्वविषयस्येत्यर्थः । २ " विकल्पो नाम संश्रितः " इति वचनात्स्वाभिधानविशेषापेक्षा एव निश्चयैर्निश्चीयते इत्यभ्युपगमात् । ३ अभिलापसं. बद्धस्वविषयग्रहणस्य व्यवसायत्वे । ४ अनन्यदेशकालाकारत्वेन । ५ वस्तुसंबद्धसामान्यग्रहणादेव । सदृशपरिणामस्यासामान्यत्वे । ६ कल्पना इति शेषः । ७ जैनः।
Page #21
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
स्पाष्टयमपि तत्र प्रत्यक्षप्रत्यासत्तेरघ्यारोपितमेव न वास्त. वमिति चेत्, प्रत्यक्षस्य चैतन्यमप्यर्थान्तरचेतनसंसर्गादध्यारोपितमेव न वास्तवमिति किं न स्यात् ? यतः सांख्यमतस्यानभ्युपगमः प्रत्यक्षादिज्ञानव्यतिरेकेण चेतनस्याप्रतिपत्तेरिति चेत् । न। परामर्शव्यतिरेकेण प्रत्यक्षस्याप्रतीतः । विकल्पप्रतिसंहारवेलायां तथैव तस्य प्रतिपत्तिरिति चेत्, न । सकलचित्तवृत्तिविकलचेलायां चेतनस्य तथैवानुभवात्, अत एव एवोक्तं " तदा द्रष्टुः स्वरूपेऽवस्थान" मिति श्रूयत एव केवलं ताशी वेला न कदाचिदप्युपलभ्यत इति समानमितरवे लायामपि ततो यथा प्रत्यक्षादेरन्यन्न चेतनमनध्यवसितेः। तथा तत एव न परामर्शादन्यत्प्रत्यक्षमपि । अत एव परामर्शात्मकत्वं स्पाष्टयमेव मानसप्रत्यक्षस्य प्रतिपादितमलङ्कारे।
इदमित्यादि यज्ज्ञानमभ्यासात्पुरतः स्थिते ।
साक्षात्करणतस्तत्र प्रत्यक्ष मानसं मतम् ॥ इति कथं पुनर्व्यवसायात्मकत्वे प्रत्यक्षस्याश्वं विकल्पयतो गोदर्शनं व्यवसायेन गां पश्यतस्तत्र तदन्यारोपस्यासंभवात् । निश्चयारोपमनसोर्बाध्यबाधकभावादिति चेन्न । तदा देर्शनेनाश्वसाधर्म्यस्यैव गवि व्यवसायात्तत्र चारोपस्यानुपपत्तेर्विशेषाकारे तस्यारोपो न च तस्य व्यवसायः। कुतस्तर्हि तत्र तदारोपइति चेत् साधर्म्यनिर्ण
१ चेतनसंसर्गाचेतना बुद्धिरित्यस्य २ बौद्धो वदति ३ “ संहृत्य सर्वतश्चिंतां स्तिमितेनांतरात्मना। स्थितोऽपि चक्षुषा रूपमीक्षते साऽक्षजा मति" रिति ४ सांख्यरिति शेषः ५ यथा शब्देन दृष्टतः परामृश्यते ६ भिनं ७ अनिश्चयात् ८ बस्तुनीति शेषः ९ वौद्धो वदति १० गवि अश्वोऽयमित्याद्यारोपस्य ११ निश्चयज्ञानारोपज्ञान्न योः १२ गोरिति शेषः १३ खंडमुंडाकारे ।
Page #22
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः ।
यादेव तस्य तदनुकूलतया प्रतीतेः । भवतस्तु दुःपरिहर एवायं पर्यनुयोगः। मानसप्रत्यक्षेण नीलादिवत् क्षणक्षयादेरेपि निर्णये कथं तत्राक्षणिकत्वाद्यारोपो यतस्तव्यवच्छेदार्थमनुमानपरिकल्पनमिति। न च तस्य तेनानिर्णयो नीलादावपि तत्प्रसंगात् । असकलप्रतिपत्तेर भ्युपगमात् । न चास्माकं परामर्शभावेन प्रसितं, मनोव्यवसायस्य विनापि तेनाव्युत्पत्त्यादिविरोधिरूपतयैवोपपत्तेः । अतदूपस्य तु न प्रामाण्यं अविसंवादवैकल्यात् । तथाहि । यदविसंवादविकलं न तत्प्रमाणं, यथा अज्ञस्य विषदर्शनं, तद्विकलं च सौगतपरिकल्पितं दर्शनमविसंवादो हि इत्थं गेयमित्थं चित्रमित्यभिसन्धिकरणमेवा-“भिप्रायनिवेदनादविसंवादन"-मिति वचनात् । न च तन्निवेदनमव्यवसायस्य, अज्ञविषदर्शनस्यापि तत्प्रसंगात् । अव्यसायस्यापि दर्शनस्य व्यवसायजननात्तनिवेदनमिति चेन्न । अव्यवसायाद् व्यवसायस्य गर्दभादश्वस्येवानुपपत्तेः । व्यवसायवासनोन्मीलनेनाव्यवसायस्यापि व्यवसायहेतुत्वं दर्शनस्येति चेन्न । तद्वदर्थस्यैव तद्धतुत्वप्रसंगेन अन्तर्गडुनो दर्शनस्याकल्पनापत्तेः । व्यवसायहेतुत्वेन चाविसंवादित्वमौपचारिकमेव दर्शनस्य स्यात् । मुख्यतः संनिपत्याभिप्रायनिवेदनेन व्यवसायस्यैव तदुपपत्तेः । न च ततस्तस्य प्रामाण्यं । सन्निकर्षादावपि
१ बौद्धस्य मानसं प्रत्यक्ष व्यवसायात्मकमिति सौगतमतम् । २ स्वर्गप्राप. णादि ३ सर्व क्षणिकं सत्वादित्यादि । ४ तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रांतेनिश्चीयते नेति साधनं संप्रवर्तते ॥ इति बौद्धर्वस्तुनो निरंशत्वाम्युपगमात् ५ नित्यप्रसक्तं संबद्धमित्यर्थः ६ अभिप्रायकरणमेव ७ वसः, दर्शनस्येत्यर्थः । ८ प्राकटयेन । ९ निरर्थकस्य । १० अव्यवधानेन । ११ अन्यथेति शेषः ।
Page #23
--------------------------------------------------------------------------
________________
૬૮
प्रमाणनिर्णये
तत्प्रसङ्गात् । ततो युक्तमविसंवादवैकल्याद्दर्शनमप्रमाणमिति । तदुक्तम् ।
विषदर्शनवत् सर्वमज्ञस्य कल्पनात्मकम् । दर्शनं न प्रमाणं स्यादविसंवादहानितः ॥ १ ॥ इति प्रामाण्याभावे च दूरतः प्रत्यक्षत्वं, तस्य तद्विशेषत्वेन तदभावेऽनुपपत्तेरतः प्रत्यक्षाभासं तदिति प्रतिपत्तव्यं ।
भवतु तर्हीन्द्रियार्थयोः सन्निकर्षः प्रत्यक्षं, वस्तुसाक्षात्करणस्य सर्वत्र तत एव भावादिति चेन्न । तस्याचेतनतया वस्तुप्रमितौ साधकतमत्वानुपपत्त्या प्रामाण्यस्यैव प्रतिक्षेपात् । न च तत एव साक्षात्करणं विषयस्य तद्भावेपि चक्षुषा पटस्य तत्प्रतिपत्तेः । अस्त्येव चक्षुषस्तद्विषयेण सन्निकर्षः, प्रत्यक्षस्य तत्रासत्वेऽप्यनुमानतस्तदवगमात् । तच्चेदमनुमानं; चक्षुः सन्निकृष्टमर्थं प्रकाशयति बाह्येन्द्रियत्वात्त्वगादिवत् । इतिचेत्; अत्र न तावद्गोलकमेव चक्षुस्तंद्विषयसन्निकर्षप्रतिज्ञानस्य प्रत्यक्षेण बाधनात्तेन तत्र तदभावस्यैव प्रतिपत्तेर्हेतोश्च तद्वाधितकर्मनिर्देशानन्तरं प्रयुक्ततया कालात्ययापदिष्टतोपनिपातात् । न तन्मात्रं चक्षुस्तद्रश्मिकलापस्य तत्त्वात्तस्य च रश्मिपरीतं चक्षुस्तैजसत्वात् प्रदीपवदित्यंतस्तैजसत्वस्यापि तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्तद्वदित्यनुमानतोऽवगमादिति चेत् । किं पुनरत्र चक्षुर्यत्र तैजसत्वं साध्यं ? न गोलकमेव तस्य रूपप्रकाशकत्वासिद्धेः; रॉश्मपरिकल्पनावैफल्यप्रसंगात् । रश्मिपरिकरितमिति चेन्न, तस्याद्याप्य
१ अव्यवसायात्मकम् । २ तस्य विषयेण सह सन्निकर्षप्रतिज्ञानस्य, चक्षुः निकृष्टमर्थं प्रकाशयतीति प्रतिज्ञाया इत्यर्थः । ३ विषयकथनपश्चात् । अतोSनुमानात् । ५ तदसिद्धौ तैजसत्वासिद्धिः, तदसिद्धौ च रश्मिपरिकल्पितत्वस्यासिद्धिः । ६ चक्षुः ।
Page #24
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः ।
१९
सिद्धत्वेन रूपादीनामित्यादे है तोराश्रयासिद्धदोषात् । व्यभिचारी चायं हेतुः - स्वच्छजलेन तस्य तद्न्तर्गतरूपमात्र प्रकाशत्वेऽपि तैजसत्वाभावान्न तैजसत्वाद्रश्मिवत्वं चक्षुषः । अरश्मिवता कुतो न तेन व्यवहितस्यापि ग्रहणमप्राप्तेरविशेषात् ? रश्मिवतापि कुतो न स्वसन्निकृष्टस्यांजनादेरंजनशलाकादेः प्रदीपादिनेव ग्रहणं प्राप्तेरभेदात् ? तथा स्वाभाव्यात्, इति समानमन्यत्रापि समाधानम् । ततो गोलकमेव केवलं चक्षुर्नच तस्य विषयसंनिकर्ष । इति सिद्धम् विनापि तेन तद्विषयस्य साक्षात्करणं । तथा सुखादेरपि । तद्वेदन मपि संनिकर्षजमेव वेदनत्वात् घटादिवेदनवत् । सन्निकर्षोऽपि तत्र संयुक्तसमवायो मनःसंयुक्ते आत्मनि सुखादेः समवायादिति चेन्न । दृष्टान्तस्य साध्यवैकल्यात्तत्र सन्निकर्षाभावस्य निरूपितत्वात् ।
अपि च यदि तद्वेदनादनर्थान्तरं सुखादिर्न तर्हि तेन मनसः संनिकर्षः, ततः पूर्वं तस्यैवाभावात् । वेदनसमये भावेऽपि व्यर्थस्तत्संनिकर्षस्तस्य वेदनार्थत्वात् । तस्य च ततः प्रागेवोत्पत्तेः । अर्थान्तरमेव ततः सुखादिरतः प्रागपि तस्य भाव इति चेत्, स यद्यनुभवरहितस्यैव सकलतत्पूर्वसमयेऽपि भाव, इति न चन्दनदहनादेस्तस्योत्पत्तिः शक्यांवक्लृप्तिः । अनुभवसहितस्यैवेति चेन्न तर्हि तस्मादिन्द्रियसंनिकृष्टादुत्पत्तिस्तद्वेदनस्य समसमयभावित्वात् । अनुभवविरुद्धं च सुखादेस्तद्वेदनादर्थान्तरत्वं स्वसंवेदनरूपस्यैव तस्यानुभवात् । कथं तर्हि तद्वेदनस्य प्रामाण्य
१ यौगो वदति । २ सिद्धान्ती प्राह ॥ ३ प्रदीपाय कज्जलरेखादेः । ४ यथा घटादौ प्राप्तिस्तथांऽजनादावपीति प्राप्त्यभेदः । ५ उत्पादकत्वात् । ६ द्वंद्वसमासः कार्यः, चंदनात्सुखस्य दहनात् अमेः दुःखस्य ।
७ शक्या कल्पना
८ अन्यः प्राह ।
Page #25
--------------------------------------------------------------------------
________________
.२०
प्रमाणनिर्णये
मात्मवेदनमात्रस्य तदनभ्युपगमात् । “ अर्थात्मवेदनं न्यायं प्राहु " रित्युक्तत्वादिति चेन्न । अनुग्रहपीडादिरूपेण तस्य तद्वेदनात्कथंचिदर्थान्तरस्यापि भावाँदैकान्तिकस्यैव ततस्तद्भेदस्य तथा तदनुभवाभावेन प्रत्याख्यानादित्युपपन्नमव्यापकत्वं संनिकर्षस्य । तदभावे घटादौ सुखादौ च प्रत्यक्षस्योक्तयोपपत्त्या व्यवस्थापनात् । यदि च संनिकर्षस्य प्रत्यक्षत्वं तर्हि चक्षुषा रूपवद्रसादेरपि ग्रहणप्रसंगस्तस्य तत्रवेतरत्रापि संयुक्तसमवायेन संनिकर्षात् , तद्विशेषस्याभावात् । नो चेत्तस्यैव तर्हि प्रत्यक्षत्वं, सति तस्मिन्विषयसंवित्तेनियमात् । न संनिकर्षस्य विपर्ययादित्यनुपपन्नं तल्लक्षणत्वं प्रत्यक्षस्य ।
यत्पुनर्मीमांसकस्य मतं " इन्द्रियविषयसंप्रयोगादुत्पन्नं ज्ञानं प्रत्यक्षं" इति, तदपि न युक्तम्। संप्रयोगस्य संनिकर्षार्थत्वे नैयायिकवद्दोषात् । यदि चेन्द्रियसन्निकर्षात्तदवच्छिन्न एवात्मप्रदेशे ज्ञानं; तर्हि तदपेक्षया पर्वतादेः प्रत्यासन्नत्वात्तत्र किमपेक्ष्य दूरादिप्रतिपत्तिः । गोलकाधिष्ठानं शरीरमपेक्ष्यति चेन्न, तस्याँसन्नि कृष्टतया तज्ज्ञानेनाग्रहणात् । नचागृहीते तस्मिस्ततोऽयमतिदूर इति भवति प्रतीतिः।अरन्तरेणापि संनिकर्ष तस्य ग्रहणे पर्वतादेरपि स्यादिति न युक्तं तत्र तत्कल्पनं । गोलकाधिष्ठान एवात्मप्रदेशे ततस्तंज्ज्ञानमिति चेत्कथमिन्द्रियाग्रवर्तिनस्तस्मात्तन्मूलगते तत्र विषयज्ञानमिन्द्रियान्तरेष्वेवमदर्शनात् । तत्रादृष्टस्यापि चक्षुषि
१ जनैः । २ प्रमाणम् । ३ एकांतेन नियमेन भवः तस्यैकांतिकस्य ॥ ४ इन्द्रियाणामर्थे व्यापारः, तत्प्रगुणतयाऽवस्थानं,कार्याऽवसेया शक्तिर्वा संप्रयोगः ५आत्मनः सर्वगतत्वात् । ६ संनिकर्षाभावेन । ७ सनिकर्षज्ञानेन । ८ विनेत्यर्थः । ९ विषयज्ञानं। १० अर्थज्ञानं । ११ अनुपलब्धेः । १२ अनुपलब्धस्यापि विषयज्ञानस्य ।
Page #26
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः।
कल्पनायां वरमप्राप्यकारित्वमेव कल्पितमप्राप्यकारिण एव गोलकस्य प्रतीतेः। ___ न च गोलकं चक्षुस्तद्रश्मिप्रसरस्य तत्त्वादिति चेत्, कथं तर्हि चक्षुरर्थस्य चिकित्साविधेगोलके करणमन्यार्थस्यान्यत्र तदनुपपत्तेः । चक्षुरर्थस्य पादे कथमभ्यङ्गस्य करणमिति चेन्न, पादाभ्यक्तस्य स्नेहस्य तन्नाडीरन्ध्रद्वारेण चक्षुरवातस्य तदुपकारित्वात् । न चैवं गोलकाभ्यक्तस्यांजनादेस्तद्वहिर्गतरश्मिप्रसरावाप्तिस्तदनुपलंभात् । न च शक्योपलंभस्यानुपलब्धिरंन्तरेणाभावं संभवति, तन्न संप्रयोगस्य संनिकर्षार्थत्वम् । ___ अनुकूलार्थत्वमिति चेत्, स्यान्मतं।ग्रहणानुकूल्येनावस्थानमेव विषयविषयिणोः संप्रयोग इति तन्न, विषयानुकूल्यग्रहणं प्रत्यनुपयोगात् । अन्यथा तद्रहितस्य द्विचंद्रादेरग्रहणप्राप्तेः । असतस्तद्रहितस्यापि ग्रहणं न सत इति च विभागपरिकल्पनस्य निर्बन्ध. नत्वात् । तन्न संप्रयोगस्यापि प्रत्यक्षत्वं । __ भवतु व्यवसायस्यैव विषयाकारपरिणतिविशेषात्मनो बुद्धिव्यापारस्य प्रत्यक्षत्वं, प्रतिविषयाध्यवसायो दृष्टमितिवचनादू, दृष्ट मितिच प्रत्यक्षस्याभिधानादिति चेन्न। विषयाकारपरिणामे बुद्धेर्दपणादिवदेव तस्याः प्रामाण्यान्मूर्त्तत्वेनाचेतनत्वापत्तेः। अचेतनैव बुद्धिरनित्यत्वात्कलशादिवदिति चेत्। कथमिदानी दर्पणादिवदेव तस्याःप्रामाण्यं यतस्तव्यापारविशेषस्य प्रत्यक्षत्वं, तस्य तद्विशेषत्वेन तदभावेऽनुपपत्तेः । चेतनसंपर्काचेतनैव बुद्धिरिति चेत् । कुतो न दर्पणादिरप्येवं? चेतनस्य व्यापकत्वेन तत्संपर्कस्य तत्रापि भावात् । बुद्धावेव तद्विशेषस्य भावादिति चेत् । स कोऽपरोऽन्यत्र
१ चक्षुनिमित्तस्य । २ अभावं विनेति भावः । ३ जैनो वदति । ४ ग्रहणयो. ग्यतया। ५ अर्थानिमित्तकत्वात् । ६ निःकारणत्वात् ।
Page #27
--------------------------------------------------------------------------
________________
२२
प्रमाणनिर्णये
तत्स्वाभाव्यादिति चेतनात्मैव बुद्धिः। न चैवं तत्र विषयाकारकल्पनमुपपन्नं मूर्त्तत्वाभावात्, मूर्तेषु एव दर्पणादिषु मूर्तमुखाद्याकारस्योपलंभादिति न तदाकारस्य व्यवसायत्वेन प्रत्यक्षत्वकल्पनमुपपत्तिमत् । कुतो वा बुद्धरन्यस्य चेतनस्य भावे तत एव न विषयप्रतिपत्तिर्यतो बुद्धेस्तदर्थान्तरस्य कल्पनं । बुद्धिकरणकादेव ततस्तत्प्रतिपत्तिकरणकस्य तत्र तयापारस्यासंभवात्ततो बुद्धयध्यवसितं बुद्धिप्रतिसंक्रान्तमेव चेतनः प्रतिपद्यते, ततो युक्तमेव तत्कल्पनं साफल्यादिति चेन्न । बुद्धयप्रतिपत्तौ तत्प्रतिसंक्रान्तस्य विषयस्याशक्यप्रतिपत्तिकत्वाद्दर्पणाप्रतिपत्तौ तत्प्रतिसंक्रान्तमुखप्रतिपत्तेरप्रतिपत्तेः। तत्प्रातिपत्तिश्च यदि बुद्धयन्तरप्रतिसंक्रमद्वारेण, भवत्यनवस्थानं; तदन्तरस्यापि तदपरतप्रतिसंक्रमद्वारेणैव प्रतिपत्तेः। अतद्वारायांतु प्रतिपत्तौ विषयप्रतिपत्तेरपि बुद्धिप्रतिसंक्रमनिरपेक्षाया एवोपपत्तेः कथं न व्यथैव बुद्धिपरिकल्पना भवेत् । बुद्धेविषयप्रतिपत्तिवत् स्वप्रतिपत्तावपि स्वयमेव करणत्वादुपपन्नं तत्प्रतिपत्तेस्तदन्तरप्रतिसंक्रमनिरपेक्षणं । न चैवं विषयप्रतिपत्तेविषयस्य ग्राह्यतया कर्मत्वेन स्वप्रतिपत्तौ करणत्वानुपपत्तेरिति चेत् कथमिदानी बुद्धरपि तत्प्रतिपत्तौ करणस्य कर्मत्वं यतस्तद्गाह्यता भवेत्, कर्मणः करणत्ववत् करणस्यापि कर्मत्वानुपपत्तेः । बुद्धावुभयधर्मोपपत्तौ विषयेऽपि स्यादविशेषात् । विषयस्य स्वप्रतिपत्तिकरणत्वे सर्वोपि विषयः सर्वस्य प्रतिपन्न एव भवेत्तत्प्रतिपत्तिकरणभावस्य सर्वत्र तत्र भावादिति चेन्न, बुद्धावप्येवं प्रसंगात् ।
१ सांख्यो वक्ति २ बुद्धिव्यापारस्य । ३ बुद्धिप्रतिबिंबितमेव विषयं । ४ जानाति ।। ५ प्रतीता अप्रतीता वेति विकल्पद्वयं कल्पयन्नाह । ६ कर्मत्वकरणत्वे ।
Page #28
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः ।
२३
अथ या यस्य बुद्धिः सैव तस्य तत्प्रतिपत्तौ करणं नापरा तदयमदोष इति । येस्यति कुतः ? कुश्चित्प्रत्यासत्तिविशेषादिति चेन्न, विषयेऽपि तुल्यत्वात् । तस्यापि हि यो यस्य प्रत्यासन्नः स एव तस्य तत्प्रतिपत्तौ करणं नापर इति वक्तुं शक्यत्वात् । सर्वोपि सर्वात्मानं प्रति प्रत्यासन्न एवात्मनो व्यापकत्वेन सर्वत्र तत्र भावादित्यपि समानं बुद्धिष्वपि । तन्न विषयप्रतिपत्तौ विषयवबुद्धेरपि करणत्वमिति न तद्व्यापारस्य प्रत्यक्षत्वं, प्रागुक्तस्य सम्यग्ज्ञानस्यैव स्पष्टावभासिनस्तदुपपत्तेः ।
अथ प्रत्यक्षस्य भेदद्वयवर्णनं विधीयते । तच्च प्रत्यक्षं द्विविधं, सांव्यवहारिकं मुख्यं चति । सांव्यवहारिकमपि द्विविधं, इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षं चेति । तत्रेद्रियस्य चक्षुरादेः कार्य यबहिर्नीलादिसंवेदनं तदिन्द्रियप्रत्यक्षम् । कैथं पुनस्तस्य विषयनियमः? कैथं च न स्यात् ! संवेदनात्मना नीलादिवत्तदपरनिरवशेषविषयापेक्षयाऽपि तस्य तुल्यत्वादिति चेन्न, शक्तिनियमतस्तदुपपत्तेः । नियतशक्तिका हि संवित्तयः स्वहेतुसामर्थ्यादुपजायते संसारिणामतो नियतस्यैव विषयस्य प्रतिपत्तिर्न सर्वस्य । यावन्नियतशक्तिकत्वात्तत्र विषयनियमस्ता वन्नियतविषयसारूप्यादेवतिं कुतो न भवेत् । भवति हि नीलसारूप्ये संवेदनस्य नीलस्यैवेदं संवेदनं न पीतादेरिति तन्नियम, इति चेत्, किं पुनस्तस्य तत्सारूप्यं? न तावत्सदादिरूपं तस्यापिसर्वत्र साधारणत्वेन नियामकत्वानुपपत्तेः । नीलरूपमेव तदिति
१ स्याद्वादी आह । २ बुद्धरतत्वाम्युपगमादिति शेषः ॥ ३ सौगतः पृच्छति । ४ जैनः पृच्छति । ५ चक्षुरादिकार्यसंवेदनस्य । ६ ज्ञानावरणवीर्यातरायकर्मक्षयोपशमसामर्थ्यात् । ७ यथा । ८ तथा । ९ विषपनियमः । १० सति। ...
Page #29
--------------------------------------------------------------------------
________________
२४ rexmmmmmmmm
प्रमाणनिर्णये
चेन्न । तस्य बहिरेव दर्शनान संवेदने, तस्यांन्तरतंद्रूपस्यैवोपलंभात् । प्रतिपादितश्च तस्य संवेदनवहिर्भावः पुरस्तात् । कुतो न वा नीलसंवेदनं नीलेनेव पीतादिनाऽपि संरूपं ? तस्यैव तत्कारणत्वादिति चेत्, किं न चक्षुरादिनापि तस्यापि तद्धेतुत्वाविशेषात् । नीलानुकरण एव तस्य शक्तिरिति चेत्, व्यर्थमिदानीं तत्र तत्सारूप्यं, शक्तित एव नियमवत्या विषयनियमोपपत्तेः । एवं हि पारंपर्यपरिश्रमः परिहृतो भवति, शक्तिनियमात्सारूप्यनियमस्ततोऽपि विषयनियम इति । सत्यपि सारूप्ये किंवा तन्नीलं यन्नीलस्येत्युक्तं । न संवेदनगतं, तत्र भेदाभावेन व्यतिरेकविभक्तरनुपपत्तेः । बहिर्गतमिति चेत्, तत्रापि कुतः संवेदनं ? तस्य तद्विषयत्वादिति चेत्तदपि कुतः ? साक्षादेव तेन तस्य ग्रहणादिति चेन्न, बहिरन्तारूपतया नीलद्वयस्याप्रतिवेदनात् । तत्सरूपत्वात्तद्विषयत्वं न साक्षादिति चेन्न, तथा तदप्रतिपत्तौ तत्सरूपत्वस्यैव दुख बोधत्वात् । द्वयोर्हि प्रतिपत्तौ भवति तद्गतस्य सारूप्यस्य प्रतिपत्ति प्रतिपत्तौ, “ द्विष्ठसारूप्यसंवित्तिकरूपप्रवेदनात्, द्वयोः स्वरूपग्रहणे सति सारूप्यवेदनम्" इति न्यायात् । ततो युक्तं शक्तिनियमादेव विषयनियमः संवेदनस्यति । तदाकारत्वेन तु तस्य तनियमे केशमशकादौ कुतस्तत्संवेदनस्य नियमः । नहि तत्र तदाकारत्वं, केशमशकादेरसद्रूपतया तदर्पकत्वानुपपत्तेः । अतः सकलस्याप्यसतस्तद्विषयत्वेन भवितव्यम् । अतदाकारतया विवक्षितवदितरनिरवशेषाविद्यमानापेक्षयापि तस्याविशेषात् । न वा कस्यचिदपीत्यप्रतिवे
१ मध्ये इत्यर्थः । २ अनीलरूपस्य । ३ समानरूपं । ४ शक्तिप्रतिपादनसमये॥
Page #30
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः ।
1
दनमेवा सद्रूपस्येति न प्रत्यक्षलक्षणे तद्व्यवच्छेदार्थमभ्रांतग्रहणमुपपन्नम् । स्वयमेवासति तद्वेदने व्यवच्छेदनस्य किंशुके रागार्पणवदनुपपत्तेः । कथं पुनरसतः केशादेराकारार्पणवद्विषयत्वमपी ति चेत्, स्यादयं प्रसंगो यदि तस्य स्वशक्तितो विषयत्वं । न चैवं वेदनसामर्थ्यादेव तद्भावात्तादृशं तत्सामर्थ्यमस्यांतराददृष्टविशेपाद्वाह्यादपि गरलास्वादकामलादेरिति प्रतिपत्तव्यमनुमंतव्यं चेदमित्थम् । अन्यथा क्वचित्कस्यचिदपि व्यामोहस्यानुपपत्त्या तद्व्यवच्छेदार्थस्य शस्त्रस्य वैफल्योपनिपातात् । असदर्थप्रतिवेदनादं परस्य च व्यामोहस्यानुपपत्तेः । ततः स्थितं स्वशक्तितो विषयनियमः संवेदनस्य तत्त्वादसद्विषयनियमवदिति । न कस्याप्यसतः संवेदनं केशादेरपि देशांतरादौ सत एव कॉमलिना प्रतिवेदनादिति केचित् । तन्न । तद्वेदनस्य ग्रंथावस्थिततत्केशादिविषयत्वे विभ्रमत्वाभावापत्तेः । अतद्देशादित्वेन ग्रहणाद्विभ्रमत्वमिति चेत् न, अतद्देशत्वादेस्तत्रासत्वात् । असतोपि तस्य ग्रहणे केशादेरेव किं न स्यांत, यतस्तत्प्रतिपत्तिरसत्ख्यातिरेव न भवेत् । अर्थविषयैव तद्वित्तिस्तदर्थस्य त्वलौकिकत्वात्तत्र विभ्रमाभिमानो लोकस्येति मतं यस्य तस्यापि किमिदं तदर्थस्यालौकिकत्वं ? संमानदेशकालैरप्यन्यैस्तद्दर्शननिमित्ताभावेनीदृश्यत्वमिति चेत्, किं पुनस्तन्निमित्तं यदभावात्तस्यादृश्यत्वं । काचादिरेव कारणदोष इति चेत्, व्याहत
"
१ प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्त्तनमिति वाक्यात् । २ संख्यातिरसत्ख्यातिः प्रसिद्धार्थख्यातिरात्मख्यातिर्विपरीतार्थख्यातिः स्मृतिप्रमोष इत्येवंरूपस्यापरस्येति भावः। ३ भवतीति शेषः । ४ पुंसा । ५ सांख्याः । ६ यथार्थस्थित । ७ तथा च न कस्याप्यसतः संवेदनमित्यादि न स्यात् । ८ परः प्राह । ९ पुंभिः । १० केशादिदर्शन । ११ विषयस्य । १२ केशादेः ।
२५
Page #31
--------------------------------------------------------------------------
________________
२६
प्रमाणनिर्णये
मिदं वस्तुसद्विषयवेदनहेतार्दोषत्वमिति चक्षुरादेरपि तत्त्वापत्तेः। न चासावदोष एव तचिकित्सायामनर्थत्वप्रसंगात् । अलौ किकत्वं लोके तस्याविद्यमानत्वं, तदपि तत्प्रयोजनानिष्पादनादिति चेत्, असद्विषयैव तर्हि तत्प्रतीतिरिति स्पष्टमाभिधातव्यं, किमलौकिकार्थख्यातिरित्यभिधीयते।स्मृतिरेवेयं प्रागनुभूतस्यैव केशादेः काचादिमतोऽपि प्रतिवेदनानासतोऽतिप्रसंगादित्यपि कस्यचिद्वचनमसमीचीनमेव, स्मृतित्वे पुरोवर्तितया तस्याप्रतिवेदनप्रसंगात् । प्रमोषवशात्तथा तत्प्रतिवेदनमिति चेत्, कः पुनरयं प्रमोषो नाम ? स्वरूपात्प्रच्युतिरिति चेन्न तर्हि स्मृतिरिति कथं तया केशादेः प्रतिवेदनं । स्वरूपात्प्रच्युताप्यस्ति स्मृतियदि मते तव । सुप्तो न किं प्रबुद्धोऽस्तु जीवितोऽस्तु मृतो न किंम् ।।
अथ स्वविषयस्य पुरोवर्तितया ग्राहकत्वमेव कुतश्चित्तस्याः प्रमोषः । तन्न । पुरोभावस्यासत्वे ग्रहणानुपपत्तेः, अन्यथा केशादेरेवासतस्तत्संभवादसत्रख्यातिरेव संभवेन्न स्मृतिप्रमोषः । ततः स्थितं यथा स्वहेतुसामर्थ्यादेवासवभासिन इन्द्रियज्ञानस्य विषयनियमस्तथा सदवभासिनोऽपि । तन्न सारूप्यात्तत्कल्पनमुपपत्रं । इति निरूपितमिंद्रियप्रत्यक्षम् ।
१ वस्तुसद्विषयवेदनहेतुत्वाविशेषात् । २ गुणः । ३ तेन केशादिना प्रयोजनस्यार्थक्रियालक्षणस्यानिःपादनात् ४ किमर्थमित्यर्थः । ५ पुंसा ६ सुप्तश्चेत्प्रबुद्धस्तर्हि तस्य स्मरणेन भवितव्यं तच्च तस्य नास्तीति कथं तस्य तत्त्वमिति कस्यचित्प्रश्नस्यापि स्वरूपात्प्रच्युता स्मृतिरस्तीत्युत्तरं वाच्यं । एवमग्रस्थे चतुर्थांशेऽपि। ७अतद्देशत्वेनानुभूतस्य । ८ ग्रहणमेव ९ कारणादिति शेषः १० पुरोविद्यमानत्वस्य। ११ पुरोभावस्यासत्वऽपि तद्हणात् ।
Page #32
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः।
२७
अधुना अनिद्रियप्रत्यक्षस्वरूपकथनार्थमाह । किं पुनरनिद्रियप्रत्यक्षमिति चेत्,सुखादेः स्मरणादिज्ञानस्य च स्वरूपवेदनमेवं तत्र स्पष्टावभासितया प्रत्यक्षव्यपदेशोपपत्तेः । अनिद्रियं चेह न पौद्गलिकं मनः प्रतिपत्तव्यं, तदायत्तजन्मत्वे सुखादिस्मरणादीनां काकादिष्वमनस्केषु तदभावानुषंगात् । न च तत्र न संत्येव तानि, स्मरणप्रत्यभिज्ञानादिनिबंधनतया स्वदेहोपलब्धस्य प्रवृत्त्यादेस्तत्रापि प्रतिपत्तेरतः क्षयोपशमवि. शेषालिंगितः कश्चिदात्मप्रदेश एवानिद्रियं, तत्प्राधान्येन सुखाद्युत्पत्तेः काकादिष्वप्युपपत्तेरत एव गुरुभिरनंतवीर्यदेवैरैपि तस्यैवानिद्रियत्वमभ्यनुज्ञातम् ।
किं पुनरेवं द्रव्यमनसः परिकल्पनेनेति चेत्, द्रव्येन्द्रियस्य चक्षुरादेरपि किं ? न किंचित् , अत एव तद्व्यापाराभावेऽपि सत्य स्वनादावन्तरंगाद्विशुद्धिविशेषादेव रूपादिदर्शनं । तदिद्रियस्य तु जाग्रदशाभाविनि तदर्शने तद्धेतोर्विशुद्धिविशेषस्य तदधिकरणजीवप्रदेशाधिष्ठानत्वेन निमित्तमात्रत्वादे कल्पनमत एव गवाक्षस्थानीयतां तत्र व्यावर्णयांत तत्त्ववेदिन इति चेत्, तंर्हि द्रव्यमनसोऽपि परिकल्पनं क्वचित्सकलेंद्रियस्य सुखादिवेदने तदवष्टब्धजीवप्रदेशाश्रयविशुद्धिविशेषनिबंधने निमित्ततयैव । न च निमित्तेन सर्वदा तत्कार्ये भवितव्यमिति नियमो गवाक्षादिना व्यभिचारात् । कुतः पुनः शक्तिविशेषस्य क्षयोपशमात्मनोऽवगमो यतस्तत्प्रभवत्वमिंद्रियादिप्रत्यक्षस्येति चेत्, तत एव प्रत्यक्षात् । न तावत्तदहेतुकं कादाचित्कत्वात् । नापि द्रव्येद्रिय
१ अष्टदलकमलाकारं । २ क्षयोपशमविशेषालिंगितात्मप्रदेशस्यानिदियत्वे । ३ पंचेंद्रियस्य । ४ जीवस्येति । ५ जीवस्येति । ६ विवक्षित इति शेषः ।
Page #33
--------------------------------------------------------------------------
________________
२८
प्रमाणनिर्णये
मात्रात्तेदभावेऽपि क्वचिदुत्पत्तेः, कदाचित्तद्भावेऽप्यनुत्पत्तेः । तादृशं च तदात्मनि कारणान्तरस्य प्राधान्यमावेदयति । तच्च यथोक्तशक्तिविशेष एवेत्युपपन्नमिंद्रियादिप्रत्यक्षस्य तत्प्रभवत्वमिति ।
कुतः पुनस्तदुभयस्यापि मुख्यमेव प्रत्यक्षत्वं न भवतीति चेत्, वैशद्यसाकल्यस्य तन्निबंधनस्य तत्राभावात् । व्यावहारिकत्वं तु तत्र तस्य वैशये लेशोपाश्रयेण लोकस्य प्रत्यक्षव्यवहारप्रसि द्धः। तत्पुनरुभयमपि प्रत्यक्षं प्रत्येकमवग्रहेहाऽऽवायधारणाविक ल्पाच्चतुर्विधं । तत्र विषयविषयिर्सन्निपातानंतरभाविसत्तालोचनपुरःसरो मनुष्यत्वाद्यवांतरसामान्याध्यवसायिप्रत्ययोऽवग्रहः । तदवगृहीतविशेषस्य देवदत्तेन भवितव्यमिति भवितव्यतामुल्लिखंती प्रतीतिरीहा। तद्विषयस्य देवदत्त एवायमित्यवधारणावानध्यवसायोऽवायःतस्यैव कालांतरस्मरणयोग्यतया ग्रहणं धारणा। तदेतेषामवग्रहादिविकल्पानां पूर्वपूर्वस्य प्रमाणत्वमुत्तरोत्तरस्य च तत्फलत्वं प्रतिपत्तव्यम् । स्वार्थव्यवसायस्याव्युत्पत्त्यादिव्यव च्छेदात्मनस्तद्गतस्यापि कथंचित्पूर्वपूर्वस्मादुत्पत्तेः विषयभेदनिबंधनश्चावग्रहादीनामस्ति संख्याविकल्पः सोन्यत्र प्रतिपत्तव्य । इति व्याख्यातं व्यवहारिकमिंद्रियप्रत्यक्षमनिद्रियप्रत्यक्षं च ।
अधुना मुख्यप्रत्यक्षस्वरूपप्रतिपादनायाह । मुख्यं तु प्रत्यक्षमतींद्रियप्रत्यक्षं । तद् द्विविधं, सकलं विकलं चेति । विकलमपि द्विविधमवधिर्मनःपर्ययश्चेति । तत्रावधिर्ना
१ द्रव्येद्रियामावेपि । २ सत्यस्वप्नादौ । ३ अन्यवस्तुगतचित्तकाले। ४ द्रव्येंद्रियभावाभावाभ्यामुत्पत्यनुत्पत्तिविकलं । ५ इंद्रियानिद्रियप्रत्यक्षभेदात् । ६ योग्यदेशावस्थान । ७ दर्शन । ८ अवायविषयस्यैव ।।
Page #34
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः ।
मावधिज्ञानावरणवयितरायक्षयोपशमविशेषापेक्षया प्रादुर्भावो रूपाधिकरणभावगोचरो विषदावभासी प्रत्ययविशेषः । सच त्रिविधः, देशावधिपरमावधिसर्वावधिविकल्पात् । तत्र देशावधे - मतिज्ञानविषयस्यासर्व पर्यायद्रव्यलक्षणस्यानंतैकभागः, तदनंतैकभागः परमावधेः, तद्नंतैकभागश्च सर्वावधेविषयः प्रतिपत्तव्यः । विशुद्वयतिशय पूर्वस्मादुत्तरोतरस्येति ।
तथा मन:पर्ययोऽपि संयमै कार्थसमवायी तदावरणवीर्यान्तरायक्षयोपशमविशेषनिबन्धनः परमनोगतार्थसाक्षात्कारी प्रत्ययः । सोऽपि द्वेधा, ऋजुमतिविपुलमतिश्चेति । तत्र गुणमनोवाक्कायैर्निर्वर्तितोऽर्थः पूर्वस्य, प्रगुणैरितरैर्वा मनोवाक्कायैर्निर्वर्तितो निर्वर्तितञ्चार्थः पश्चिमस्य विषयः । सूक्षमतया तु सर्वावधिविषयानंतैकभागे पूर्वस्य तदनंतैकभागे परस्य निबंधः । तथा विशु
यतिशयविशेषवत्त्वादप्रतिपातित्वाच्च पूर्वस्मादुत्तरस्य विशेषो वेदितव्य । इति व्याख्यातं विकलमतींद्रियप्रत्यक्षम् ।
२९
सकलं तु तत्प्रत्यक्षं प्रक्षीणाशेषघातिमलसेमुन्मीलितं सकलवस्तुयाथात्म्य वेदिनिरतिशयवैशद्यालंकृतं केवलज्ञानं । तद्वतः पुरुषस्य सद्भावे किं प्रमाणमिति चेत् । इदमनुमानं—अस्ति सर्वज्ञो निर्वाधप्रत्ययविषयत्वात् सुखादिनीलादिवत् । न च तत्प्रत्यये विवादस्तन्निषेधवादिनोऽपि तद्भावादन्यथा तन्निषेधस्यैव तद्विषयपरिज्ञानाभावेनासंभवप्रसंगात् । निर्वाधत्वमपि तस्य प्रत्यक्षादीनामन्यतमस्यापि तद्वाधकत्वासंभवात् । तद्बाधकरवं नाम तद्विषयासत्वनिवेदनमेव । तच्च प्रत्यक्षेण यदि क्वचित्
१ पदार्थः २ असर्व पर्यायं द्वव्यं लक्षणं यस्येति समासो विधेयः ३ सूक्ष्मरूपतया । ४ भवतीति शेषः । ५ आत्मलक्षणार्थे । ६ ऋजु । ७ परेषां । ८ निष्पन्नः ९ वृत्रैः । १० प्रवृत्तिः । ११ प्रादुर्भूतम् ।
Page #35
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
कदाचित्किचिदनिष्टमभ्युपगमात् । सर्वत्र सदापीति चेन्न, तस्य सर्वविषयत्वप्रसंगात् । अन्यथा तत्र तेन तन्निवेदनानुपपत्तेः। भूतलमवलोकयतैव तेन तत्र घटाद्यसत्ववेदनस्य प्रतीतेः । प्रत्यक्षाभावे च तत्पूर्वकत्वेनानुमानस्याप्यसंभवात्, न तस्यापि तद्वाधकत्वं । यदपि विवादापन्नः सर्वोपि देशादिः सर्वज्ञविकलो देशादित्वात् प्रसिद्धदेशादिवदिति, तदपि न साधु । देशादेः सर्वस्याप्रतिपत्तौ हेतोराश्रयस्वरूपासिद्धदोषोपनिपातात; प्रतिपत्ती च तत्प्रतिपत्तिमतः सर्वज्ञत्वापत्त्या सर्वज्ञनिराकरणानुपपत्तेः । यदपीद-विवादापन्नः सर्वज्ञो न भवति पुरुषत्ववत्कृत्वादे रथ्यापुरुषवदित्यनुमानं तदपि न तस्य बाधकं । पुरुषत्वादेर्हेत्वाभासतया निरूपयिष्यमाणत्वेन तदुद्भावितस्य तस्याप्यनुमानाभासत्वेनैवावस्थितेः । नाप्यर्थापत्तिस्तदुत्थापकस्य सर्वज्ञाभावमंतरेणानुपपन्नस्य कस्यचिदर्थस्यानध्यवसायात् । नाप्यहमिव सर्वे पुरुषाः प्रतिनियतमर्थमिंद्रियैः पश्यंतीत्युपपन्नमुंपमानमपि, सर्वपुरुषाणां कुतश्चिद्विषयीकरणे स्वसर्ववेदित्वापत्तेरविषयीकरणे त्वस्मृतिविषयत्वेनोपमेयत्वानुपपत्तेः । स्मरणविषयत्वेन हि तेषां स्वसादृश्यविशिष्टतयोपमेयत्वं ।
तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ इति वचनात् ॥ शोब्द प्रमाणं सकलदर्शिनः सत्ताविषयमेव “ हिरण्यगर्भ १ पुंसा । २ उच्यते इति शेषः। ३ अर्थापत्तिलक्ष्मादः-प्रमाणषट्विज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदेनं सार्थापत्तिरुदाहृता । ४ उपमानलक्षणमदः-दृश्यमानाद्यदन्यत्र विज्ञानमुपजायते। सादृश्योपाधि तत्त्वज्ञैरुपमानमिहोध्यते । ५ विषयं । ६ शाब्दलक्षणं यथा-शब्दाद्यदुदितं ज्ञानमप्रत्यक्षेऽपि वस्तुनि । शाब्दं तदिति मन्यते प्रमाणांतरवादिनः ।
Page #36
--------------------------------------------------------------------------
________________
प्रत्यक्षनिर्णयः ।
प्रकृत्य सर्वज्ञ इत्यादेस्तस्यैव श्रवणात् । न च प्रत्याक्षादेरेभावविषयत्वं भावप्रमाणकल्पनावैफल्यप्रसंगात् । भवत्वभावादेव प्रमाणात्सर्वज्ञस्याभावप्रतीतिः, स च तद्विषयप्रत्यक्षादिनिवृत्तिरूपोऽनुपलंभ इति चेन्न, तस्यात्मसंबंधिनः परचेतोवृत्तिविशेषैर्व्यभिचारात्, विद्यमानेष्वपि तेषु तस्य भावात् । तद्विद्यमानतायाश्च पश्चात्कुतश्चित्कार्यविशेषतोऽध्यवसायात् । सर्वसंबंधिनश्चासिद्धेः सर्वज्ञस्याभावासिद्धौ तस्य स्वयं सर्वज्ञान्तरेणाप्युपलम्भसंभवात् । अभावसिद्धौ तस्य सिद्ध्यत्येव सर्वसंबंधी तदनुपलंभ इति चेत्, न । सिद्धात्ततः तदभावसिद्धिस्ततश्च तत्सिद्धिरिति परस्पराश्रयोपनिपातात् । अन्यवस्तुनि विज्ञानं तर्हि तदिति चेत्, किं तदन्यद्वस्तु ? नियतो देशादिश्चेत्, न । ततस्तत्र तदभावेस्यष्टत्वात् । सर्व इति चेन्न तज्ज्ञानवतः सर्वज्ञत्वप्रसंगात् । अतो न कुतश्चिदप्यभाववेदनं सकलवेदिन इति सिद्धं तस्य निर्वाधप्रत्ययविषयत्वं । नापि हेतोराश्रयासिद्धत्वमंतः प्रागपि सकलज्ञप्रतीतेः प्रतिपादितत्वात् । यद्येवं किमनेनोति चेन्नातस्तत्सत्त्वव्यवस्थापनात् । प्राक्तन्या तु तत्प्रतीत्या नित्यानित्यत्वविकल्पसाधारणस्य शब्दस्येव सदसत्त्वविकल्पसाधारणस्यैव तस्योपदर्शनात् । न चाश्रयबलाद्धेतोर्गमकत्वं यतस्तद्रहितत्वं तस्य दोषः स्यादपित्वन्यथानुपपत्तिसामर्थ्यात् । तच्चानाश्रयत्वेऽपि, निवेदयिष्यते चैतत् ।
१ प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इष्यते । सात्मनो परिणामोवा विज्ञानं वाऽन्यवस्तुनि ॥१॥ प्रमाणपंचकं यत्र वस्तुरूपे न जायते वस्तुसत्त्वावबोधार्थ तत्राभावप्रमाणता ॥ २ ॥ २ नास्ति सर्वज्ञोऽस्मत्प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् ३ प्राभाकरमते सर्वज्ञबाधकप्रमाणाभावं प्रतिपाद्य, भाहमतमिदानीमाह । ४ प्रत्यक्षाद्यनुपलम्भस्य । ५ अस्मादनुमानात् । ६ पूर्वस्मिन् जातया । ७ धर्मसाधनाख्यहेतुस्वरूपनिरूपणावसरे ।
Page #37
--------------------------------------------------------------------------
________________
३२
प्रमाणनिर्णये~~~~~~~
भवतु कश्चित्सर्वज्ञः, सतु भगवान्नहन्नेवेति कुतः ? सुगतादेरापि तत्त्वेन प्रसिद्धेरिति चेत्, उच्यते । भगवानहन्नेव सर्वज्ञः सर्वज्ञत्वान्यथानुपपत्तेः । तथाहि-सुगतस्य तावन्निर्विकल्पक वेदनं, न तेन सुषुप्तादिवेदनवद्वस्तुपारच्छित्तिः । सत्यामपि तस्यां न सर्वाविषयत्वं कारणस्यैव विषयत्वोपगमात् । न च कारणमेव सर्व तस्य समसमयस्योत्तरसमयस्य चाकारण त्वात् । अन्यथा “प्राग्भावः सर्वहेतूना" मित्यस्य व्यापत्तेः । न चैकस्वभावत्वे ततो नानार्थपरिच्छित्तिर्नित्यादप्येकस्वभावादेव हेतोर्देशादिभेदभिन्नानेकवस्तुप्रादुर्भावोपनिपातेन तनिषेधाभावप्रसंगात् । प्रतिव्यक्तितदाभिमुख्याभावे पृथगर्थदेशनानुपपत्तेश्च । भवत्वेकमनेकस्वभावमेव तद्वेदनं युगपन्नानाकारतया स्वतस्तस्य संवेदनादिति चेन्न । क्रमेणापि तद्रूपतया तस्य तत एव प्रतिपत्तिसंभवात् । तादृशसंवेदनात्मा भगवानहन्नेव न सुगतस्तस्य तद्विलक्षणतया तद्वादिभिरभ्यनुज्ञानात् । तन्न सुगतस्य सर्वज्ञत्वं, नापि हरिहरादीनामन्यतमस्य । तद्वेदनस्यापि सकलविषयस्य प्रत्यर्थमाभिमुख्याभावे सतीदंतयेदंतया वस्तुपरिच्छितेरनुपपत्त्या तथा तद्देशनाभावप्रसंगात् । प्रतिव्यक्त्यभिमुखतया तस्य मेचकत्वे च क्रमेणापि तादूप्योपपत्त्या पूर्ववदर्हत एव तादृश एवात्मनः सर्वज्ञत्वोपपत्तेः। नेश्वरादेस्तस्य तद्रूपतया परैरनभ्युपगमात् । ततो नैकस्याप्येकांतवादिनः सर्ववदित्वमित्युपपन्नमर्हत एव भगवतस्तद्वेदित्वं, तत्रैव स्याद्वादन्यायनायके जगदुदरविवरवर्तिनिरवशेषपदार्थसार्थसाक्षात्करणदक्षस्याvणस्याध्यक्षस्य तस्योपपत्तेरितरत्र विपर्यासादिति ! ! !
१ नाकारणं विषय इति । २ विरोधात् ॥ ३ सुगतः। ४ प्रतीतेः । ५ क्रमयोगपद्याभ्यामनेकरूपसवेदनात्मा । ६ पूर्णस्य ।
Page #38
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
३३
मुख्यसंव्यवहाराभ्यां प्रत्यक्षं यनिरूपितम् ।
देवैस्तस्यात्र संक्षेपानिर्णयो वर्णितो मया ॥ इति श्रीमद्वादिराजसूरिप्रणीते प्रमाणनिर्णये प्रत्यक्षनिर्णयः ।
संप्रति परोक्षस्य प्रमाणस्य निर्णयः।
तच्च तस्य परोक्षत्वं न सामान्यविषयत्वं, सामान्यस्य 'निर्विशेषस्य क्वचिदप्यनवलोकनात् । सविशेषे तु तद्विषयत्वं तु प्रत्यक्षत्वेऽपि । नापि ध्यामलाकारत्वं प्रमाणस्य निराकारस्यैव प्रतिपत्तेः। अत एव तदाकारतया तेत उत्पत्तिरपि मिथ्याज्ञान एव च तदा तदुत्पत्तिराप संभवेन्न प्रमाणे । तस्मादतरंगमलविश्लेषविशेषोदयनिबंधनः कश्चिदस्पष्टत्वापरनामा स्वानुभववेद्यः प्रतिभासविशेष एव तस्यं परोक्षत्वं । तच्च द्विविधमनुमानमागमश्चेति । अनुमानमपि द्विविधं, गौणमुख्यविकल्पात् । तत्र गौणमनुमानं त्रिविधं, स्मरणं प्रत्यभिज्ञा तर्कश्चेति । तस्य चानुमानत्वं यथापूर्वमुत्तरोत्तरहेतुतयाऽनुमाननिबंधनत्वात् । तंत्र 'किमिदं स्मरणं नाम? तदित्यतीतावभासी प्रत्यय इति चेत्, न तर्हि तस्य प्रत्यक्षपूर्वकत्वं तदवेंगृहीतविषयत्वे सत्येव तदुत्पत्तेः। नचातीतस्य तदवगृहीतत्वमिति चेत्सत्यमैत एव तस्यापूर्वार्थत्वोपपादनात् । तत्पूर्वकत्वं तु तस्य नीलधवलादिना तद्विषयस्यैव तेनापि ग्रहणात् । एवमपि कथं तस्य प्रामाण्यं ? अविसंवादनस्य विषय
१ यतः विशेषपदार्थसहितसामान्यविषयत्वं भवति । २ अस्पष्टविषयाकारत्वं। ३ विषयाकारतया। ४ विषयात् । ५ न केवलं प्रतिपत्तिरेव। ६ मुख्यानुमाननिबंधनत्वात् ७ तेषु स्मरणादिषु । ८ सौगतः पृच्छति । ९ सौगतो वदति । १० ज्ञातविषयत्वे। ११ प्रत्यक्षानवगृहीतविषयत्वादेव १२ नीलधवलादिस्वरूपेणाऽपि ।
___
Page #39
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
प्राप्तिलक्षणस्य तत्राभावात्, सोऽपि प्राप्तिकाले तस्यासंनिपातादिति चेत्, प्रत्यक्षस्यापि कथं ? तद्विषयस्यापि तत्काले संनिपा'ताभावात् । भावे स्मरणविषयस्यापि स्यात् । निक्षेपादेस्तद्विषयस्यापि प्राप्तिप्रतीतेः। ततो युक्तमविसंवादात्तस्य प्रामाण्यम् । तथा प्रत्यभिज्ञानस्य, तस्यापि पूर्वापरप्रत्ययाप्रतीतांभेदसादृश्यादिविषयत्वेनापूर्वार्थत्वादविसंवादाच्च । प्रत्यभिज्ञानमेव नास्ति, सोऽयमित्ययमिव स इत्यादौ स इत्ययमित्यनयोः स्मरणप्रत्यक्षाकारतयाभिन्नप्रतिभासत्वेन परस्परतोऽर्थातरत्वादन्यस्य च तदाका-. रस्याप्रतिवेदनात् कथं तत्र प्रामाण्यपरिचिंतनम्, इति चेन्न तर्हि ‘स इति स्मरणमपि, सकारानुविद्धादकारानुविद्धस्य संवेदनस्यान्यत्वात् । अन्यथा तदुभयानुविद्धतया प्रतिभासभेदस्याभावप्रसंगादक्षणिकत्वांपत्तेश्च। एवमयमित्यत्राऽपि प्रतिपत्तव्यं । तथा च कुतो वस्तुप्रतिपत्तिरयमिति प्रत्यक्षस्याव्यवस्थितौ तत्पूर्वकत्वेनानुमानस्याप्यसंभवात् । अथाऽयमित्यकारादिवर्णभेदेऽपि तदनुविद्धमेकमेव संवेदनं तथैव तस्य निर्बाधमनुभवात्, तर्हि सिद्धः स एवाऽयमित्यादिरपि प्रत्यय एक एव तथा तस्यापि निर्वाधावबोधगोचरत्वात् । अन्यथा समारोपस्यापि तद्रूपस्याभावान्न तव्यवच्छेदार्थमनुमानमात्मदर्शनस्य तल्लक्षणस्याभावान्न तन्निबंधनः संसारोऽपीति न तत्प्रहाणाय मुमुक्षूणां चेष्टितमुपपद्यते । भवतु स एवायमिति ज्ञानं प्रत्यभिज्ञानमयमिव स इत्यस्माद्विसदृशः स इति तु ज्ञानं न प्रत्यभिज्ञानं तस्योपमानत्वादिति चेत्, तर्हि
१ एकत्वप्रत्यभिज्ञानस्य । २ सादृश्यप्रत्यभिज्ञानस्य । ३ बौद्धो वदति । सोऽयमित्याकारवेदनस्य । ५ क्रमोच्चारितानेकवर्णानुविद्धतया भिन्नप्रतिभासात्मनो ज्ञानस्यैकत्वाभ्युपगमे तस्यैकस्यानेकाक्षरव्यापित्वस्यावश्यंभावादक्षणिकत्वापत्तिरित्यर्थः। ६ प्रत्यक्षेऽपि । ७ मीमांसकः प्राह ।
Page #40
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
तदस्मादुन्नतमवनतं स्थूलमल्पं ह्रस्वं दीर्घमित्यादिज्ञानानामुपमानत्वस्याभावात् कथं न प्रमाणांतरत्वं ? प्रतिपन्नस्यैवापेक्षोपनीतेनोन्नतत्वादिना परिवृत्त्य परिज्ञानेन प्रत्यभिज्ञानत्वस्यैव तत्रोपपत्तिरिति चेत्, सिद्धमुपमानस्यापि प्रत्यभिज्ञानत्वं, तेनाऽपि तथा तस्य तादृशेनैव सादृश्यादिना परिज्ञानात् । भवतु तर्हि गौरव गवय इत्यागमाहितसंस्कारस्य पुनर्गवयदर्शने सोऽयं गवयशब्दस्यार्थ इति शब्दतदर्थसंबंधपरिज्ञानमुपमानमिति चेत् न, तत्राऽपि सामान्यतः प्रागागमा वगतस्यैव पुनः सन्निहितविशेष विशिष्टतया परिज्ञानतः प्रत्यभिज्ञानत्वस्यैवोपपत्तेः । अन्यथा षट्टिः चरणैश्चंचरीकः, क्षीरनीरविवेचनचतुरचंचुर्विहंगमो हंसः, एकविषाणो मृगः खड्गीतिवचनोपजनितवासनस्य पुनस्तद्दर्शने सोऽयं नंचरीकादिशब्दस्यार्थ इति वाच्यवाचक संबंधपरिज्ञानस्याप्युपमानवद्प्रत्यभिज्ञानत्वे प्रमाणांतरस्य प्रमाणचतुष्टयनियमव्याघातविधायिनः प्रसंगात् । तन्न प्रत्यभिज्ञानादन्यदुपमानमित्युपपन्नं प्रत्यभिज्ञानतयैव तस्यापि
प्रामाण्यम् ॥
तर्कश्चेत्थमेव संभवति नानित्यमिति व्याप्तिपरिज्ञानात्मा, प्रमाणं, विना तेन लिंगसाध्याविनाभावस्य दुरवबोधत्वात् । न हि प्रत्यक्षतस्तस्यावबोधस्तेन संनिहितविषयवलभाविना देशकालानवच्छेदेनं तस्यानवगमात् । तद्वच्छेदेनावगतात्तु ततो नानु
.
३५
१ परिज्ञातवस्तुनः। २ नैयायिको वदति । ३ पुंस इति शेषः । • वस्तुनः । ५ प्रत्यक्षानुमानोपमानागमभेदात् । ६ सादृश्याभावेनोपमानेऽप्यंतर्भावाभावात्, प्रसिद्धसा धर्म्यात्साध्यसाधनमुपमानमिति स्वयमेवाभिधानात् । ७ अवलंबनसामर्थ्याव संबद्धं वर्तमानं च चक्षुरादिना गृह्यत इति वचनात् । ८ अनियमेन ।
Page #41
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
मानमन्यत्राऽन्यदा तदभावेऽपि तद्भावशंकनस्यानिवृत्तेः। प्रत्यक्षपृष्ठभाविनो विकल्पात् तर्हि तथा तस्यावगमः। प्रत्यक्षं पौनःपुन्येन साधनस्य साध्यान्वयव्यतिरेकानुविधानमन्वीक्षमाणं सर्वत्र सर्वदाप्येतदेतेन विना न भवतीतिविकल्पकं ज्ञानमुपजनयति इति चेन्न; तेनाप्यप्रमाणेन तदवगमानुपपत्तेः। प्रमाणत्वमपि न तस्य प्रत्यक्षत्वेन विचारकत्वात्तद्वतः सर्वदर्शित्वापत्तेश्च । नाप्यनुमानत्वेनानवस्थापत्तेः । तदनुमानलिंगाविनाभावस्याप्यन्यस्मादनुमानादवगम इत्यपरापरस्यानुमानस्यापेक्षणात् । तस्माप्रत्यक्षानुमानाभ्यामन्यतयैवायं विकल्पः प्रमाणयितव्य, इत्युपपन्नं तस्यापि तर्काभिधानस्य प्रामाण्यम्, अन्यथा लिंगसाध्याविनाभावनियमस्य ततोऽनवगमप्रसंगात् । ततो युक्तं स्मृत्यादेरौपचारिकस्यानुमानस्य प्रामाण्यम् । एवं मुख्यस्यापि । किं तदिति चेत्, साधनात्साध्ये विज्ञानमेव । साधनं साध्याविनाभावनियमलक्षणं तस्मान्निश्चयपथप्राप्तात्साध्यस्य साधयितुं शक्यस्याप्रसिद्धस्य यद्विज्ञानं तदनुमानं। "किं तेन? प्रत्यक्षत एव पृथिव्यादितत्त्वस्य प्रतिपत्तेरिति चेन्न, ततोऽप्यनिश्चितप्रामाण्यात्तदनुपपत्तेः। नच प्रतीतिमात्रात्तन्निश्चयो मिथ्याप्रतिभासेष्वपि तद्भावात् । अविसंवादात्तन्निश्चयस्तस्याभ्यस्तविषयवेदनेषु प्रामाण्यव्याप्ततया प्रतिपत्तेरिति चेत्, आगतमनुमानं; निश्चितव्याप्तिकादादर्थातरप्राप्तेरेवानुमानत्वात् । अनुमानमभ्यनुज्ञायत एव परप्रसिद्धयति चेत्, कुतो न स्वप्रसिद्धया ? वस्तु
१ सौगतः।२ विकल्पज्ञानेन।३ स्वयं । ४ पुरुषस्य । ५ त्रैलोक्यत्रकाल्यवर्त्यस्मदादिप्रत्यक्षागोचरे सकलसाध्यसाधनव्यक्ति साक्षात्करणवदशेषातींद्रियार्थसाक्षात्करणोपपत्ते. रिति भावः। ६ तर्कत्वेन प्रामाण्याभावे ।७ प्रामाण्य मिति शेषः । ८ अबाधितस्येति भावः।९ प्रतिवादिनं प्रति असिद्धरय । १० चार्वाको वदति । ११कुत इति शेषः ।
Page #42
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः।
३७
तस्तस्याप्रामाण्यादिति चेत्, न तर्हि ततः प्रत्यक्षप्रामाण्यनिर्णयोऽप्रमाणात्तदनुपपत्तेः । अन्यथा पृथिव्यादेरपि तत एव प्रतिपत्त्या प्रत्यक्षप्रामाण्यकल्पनस्यापि वैफल्योपनिपातात् । कुतो वा तस्याप्रामाण्यं ? संभवव्यभिचारित्वालिंगस्य, व्यभिचरति हि लिंगं भूयः क्वचिनियमवत्वेनोपलब्धस्योप्यन्यत्राऽन्यदा च तद्वैपरीत्येन प्रतिपत्तेरिति · चेत्, कुतः पुनर्व्यभिचारवत्वेऽपि तस्याप्रााण्यं ?- तस्य तान्तरीयकतया प्रतिपत्तेरिति चेत् , आगतं पुनरप्यनुमानम् । अतो नानुमानमंतरेण क्षणमपि जीवनं चार्वाकस्य । कुतो वा परस्य प्रतिपत्तिर्यतस्तत्प्रसिद्धमनुमानस्य। प्रत्यक्षत इति चेन्न, तेनाऽपि शरीरस्यैव परिच्छेदान्न बोधात्मनः परस्य । तस्य तदनीतरत्वात् स एव तस्यापि परिच्छेद इति चेन्न, शरीरप्रत्यक्षत्वेऽपि बुद्धिविकल्पे संशयात् । न हि शरीरं पश्यतः पंडितोऽयं मूल् वा साधुरयमसाधुर्वेति निश्चयो भवति परीक्षानिरपेक्षं तत्संभावनापमानयोः प्रसंगात् । माभूत्परस्य प्रतिपत्तिस्तत्प्रसिद्धमप्यनुमानमिति चेत्कथमनुमानाभावे शास्त्रं? तस्यानुमाने प्रसिद्धभूतोपादानचैतन्यादिविषयत्वेन तदभावे निर्विषयत्वेनानुपपत्तेः। किमर्थ वा तत् ? न तावदात्मार्थमात्मनः प्रागेवावगततदर्थत्वादन्यथा तत्प्रणयनानुपपत्तेः । ताशस्यापि क्रीड़नार्थ तदिति चेन्न, विचारोपन्यासात् । न हि विचारः क्रीड़नांगं, कॅर्कशत्वेन चित्तपरितापहेतुत्वात् । नाऽपि
१ वृक्षादिस्वभावतया।२ शिशपात्वादेः । ३ लतादिस्वभावत्वेन! ४ अनुमानस्य । ५ व्यभिचारवतो लिंगस्य । ६ अविनाभावरूपतया । ७ " अनुमानमप्रमाणं संभव
व्यभिचारलिंगत्वात् प्रसिद्धानिकांतिकलिंगवत् ।” ८ इतरवादिनः । ९ सत्कारावज्ञयोः । १० मा भूदिति शेषः । ११ शास्त्रं । १२ अवगतशास्त्रार्थस्याऽपि पुंसः। १३ तत् शास्त्रप्रणयनं। १४ शास्त्रे इति शेषः । १५ विचारस्येति ।
Page #43
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
परार्थ परस्याप्रतिपत्तेः । अस्त्येव तत्प्रतिपत्तिापारादेलिंगात्तस्य बुद्धिपूर्वकत्वेन स्वशरीरे प्रतिपत्तिरिति चेदागतं पुनरप्य-- नुमानम्, अवधृतव्याप्तिकादादीतरप्रतिपत्तेरेव तत्त्वात् । ने चैवं प्रत्यक्षादनुमानवदनुमानादर्थापत्तिरप्यन्यन्यदेव प्रमाणं, तदविशेषात् । कथमविशेषो बहितिरनुमानस्यांताप्तेश्चार्थापत्तेर्भावादिति चेन्न । अप्यनुमानेऽप्यताप्तेरेव गमकांगत्वेन 'निवेदयिष्यमाणत्वात् । ततः पर्वतोऽयमग्निमान् धूमवत्त्वादिति वाऽग्निरयं दाहशक्तियुक्तो दाहदर्शनादित्यप्यनुमानमेव नापरं प्रमाणम् ।
अभावस्तहि प्रमाणांतरं प्रत्यक्षादावनंतर्भावात् इति चेत् न, तस्याज्ञानत्वेन प्रामाण्यस्यैवासंभवात् । ज्ञानमेवासौ, भूतले तज्ज्ञानादेव घटाभावस्यावगमादिति चेत्, नंनु तस्याभावो नाम भूतलस्य कैवल्यमेव नापरोऽप्रतिवेदनात च तज्ज्ञानं प्रत्यक्षमेव । न तत्कैवल्यमात्रस्य ज्ञानमभावज्ञानमाप तु घटो नास्त्यप्रेत्याकारमिति चेन्न, तस्याप्यनुस्मर्यमाणघटाविशिष्टतयोपलम्यमानतत्कैवल्यपरामर्शिनः प्रत्यभिज्ञानत्वेन तदंतरत्वानुपपत्तेः; नाऽस्त्यत्र घटोऽनुपलब्धेर्गगनकुसुमवदित्याकारत्वेऽपि तस्यानुमान एवांतर्भावादिति न प्रामाणांतरत्वमभावस्यापि ।
लिंगात् । २ प्रभाकरमतमाशंक्य निराकरोति । ३ अर्थापत्तेः ४ सर्वमनेकातास्मकं सत्वादित्यादिसपक्षविकलोदाहरणादिष्वभिधास्यमानत्वात् । ५ भादृ आह । ६ अभावप्रमाणं ज्ञानमज्ञानं वेति विकल्पद्वयं मनसि निधाय प्राह जैनः । ७ अज्ञानस्य प्रामाण्यासंभवः प्रागेब समर्थितः । ८ विज्ञानं वाऽन्यवस्तुनि । ९ जैनो वदति । १० घटाभावस्य भतलकैवल्ये सति ॥ ११ “ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनं । मानसं नास्तिताज्ञानं जायतेक्षानपेक्षया"। १२ उपलभ्यमानभूतलकैवल्यं पश्चात्स्मर्यमाणघटाविशिष्टतया परिवृत्य जानीत. इत्यर्थः।
___
Page #44
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
किंलक्षणं तत्तर्हि साधनं यतोऽनुमानमिति चेत्, पक्षधर्मत्वं सपक्ष एव सत्त्वं विपक्षे वाऽसत्त्वमेवोत त्रिलक्षणमिति केचित् । तदसत् । एवं सत्युदेष्यति शकटं कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेनागमकत्वोपपत्तेस्तदभावश्च शकटे धर्मिण्युदेष्यत्वे साध्ये कृत्तिकोदस्य हेतोरभावात् । नायं दोषः, कालस्य धर्मित्वात्तत्र च तद्भावात; तथा च प्रयोगो मुहूर्तपरिमाणः कालः शकटोदयवान् भवति कृत्तिकोदयत्वात् प्रवृत्ततत्कालवदिति चेन्न, एवमप्य. यस्कारकुटीरधूमेन पर्वतपावकस्यानुमानापत्तेस्तदुभयगर्भस्य विस्तारिणः पृथिवीतलस्य धर्मित्वेन हेतोः पक्षधर्मत्वोपपत्तेः । नायं दोषस्तस्य तदविनाभावनियमाभावादिति चेत्, न तार्ह कालादिधर्मिकल्पनयाऽन्यत्रापि पक्षधर्मत्वोपपादनेन किं. चित्सतोऽपि तस्य गमकत्वं प्रत्यनंगत्वात् । नाऽपि सपक्षे सत्वेन, विनाऽपि तेने केवलव्यतिरेकिणो गमकत्वनिवेदनात् । नाऽपि विपक्षासत्वेनासद्विपक्षस्यापि सर्वमनेकांतात्मकं सत्वा. दित्यादेः स्वसाध्यप्रत्यायनसामर्थ्यस्याग्रे निरूपणात् । नाऽपि पक्षधर्मत्वादित्रयेण, सत्यपि तस्मिन् सः श्यामस्तत्पुत्रत्वादितर तत्पुत्रवदित्य तत्वस्यागमकत्वात् । अस्ति पत्र तत्रितयं धर्मिणि सपक्षे च श्यामे तत्पुत्रत्वस्य भावादश्यामादन्यपुत्रार्दपवृत्तेश्च !!!
स्यान्मतं न पक्षधर्मत्वादिकं साक्षालक्षणं लिंगस्याविना भावस्यैव तथा तत्वात्तस्य तु तत्रैव भावात् । तदपि तल्लक्षण
१ बौद्धाः । २ मुहूर्तपरिमाणकाले धर्मिण्यपि । ३ तदुभयगर्भ विस्तारि भूतलं पर्वताग्निमत् अयस्कारकुटीरधमवत्वादिति । ४ उदेष्यति शकटं कृत्तिकोदयादि. त्यत्राऽपि । ५ सर्व जीवच्छरीरं सात्मकं प्राणादिमत्वात् व्यतिरेके भस्मवदित्यस्या सर्वे क्षणिक सत्वात् तत्र खराविषाणवदित्यस्य । ज्ञापन । ७ अनुमाने । ८ व्यावृत्तेः। ९ तस्मिन्सत्येव ।
Page #45
--------------------------------------------------------------------------
________________
४०
प्रमाणनिर्णये
त्वेनोक्तं, ततोऽविनाभावविरहेऽपि तद्भावो न दोषाय तद्वादिन इति, तन्न । प्रत्येकं पक्षधर्मत्वाद्यभावेऽप्यविनाभावस्य निरूपितत्वात्तत्समुदायेन तदभावेऽपि संति प्रमाणानीष्टसाधनादित्यादौ तद्भावात्तन्न त्रैरूप्यं साधनलक्षणम् ।
नाऽपि पांचरूष्यं तत्राऽप्यविनाभावस्यानियमात् । पक्षधर्मत्वे सत्यन्वयव्यतिरेकावबाधितविषयत्वमसत्प्रतिपक्षत्वं च पांचरूप्यं । न चेह तन्नियमः, प्रकृते हेतौ तदभावेऽपि तद्भावात, तत्पुत्रादौ तद्भावे तदभावादस्ति हि तत्पुत्रत्वस्य पक्षधर्मत्वमन्वयव्यतिरेकावबाधितविषयत्वमपि सः श्याम इति पक्षस्य प्रत्यक्षादिना बाधानुपलब्धेरसत्प्रतिपक्षत्वमपि श्यामत्वविपर्ययसाध' नस्य प्रत्यनुमानस्याप्रतिपत्तेः। तन्न त्रैरूप्यादिकं लक्षणं लिंगस्य साध्याविनाभावनियमस्यैव तत्वोपपत्तेः । सति तन्निर्णये त्रैरूप्यादिभाववत्तदभावेऽपि साध्यप्रतिपत्तेरावश्यकात् । एवमापि स्वभावकार्यानुपलब्धिभेदेन त्रिविधमेव लिंगं । अविनाभावस्य तत्रैव नियमादिति चेत्, न।रसादे रूपादावतत्स्वभावादेरपि गमकत्वप्रतिपत्तेः । न हि रसादे रूपादिस्वभावत्वं भेदेन प्रतिपत्तेः । नाऽपि तत्कार्यत्वं समसमयत्वात् । तत्कारणकार्यत्वादस्त्येव तस्य तत्कार्यत्वं पारंपर्येणेति चेन्न, इन्धनविकारस्यापि पावकजन्मन एवं धूमकार्यत्वेन तलिंगत्वापत्तेः । न चैवं धूमादिभावेन तत्सं
. १“ तस्य तु तत्रैव भावा" दित्यनेनाविनाभावस्य व्याप्यत्वं पक्षधर्मत्वादिकस्य व्यापकत्वं चाभिहितं यतः । २ सौगतस्य । ३ सपक्षे सत्वं विपक्षाद् व्यावृत्तिःश्च । ४ त्रैरुप्यादिभावे सति यथा साध्यप्रतिपत्तिः । ५ बौद्धः प्रत्यवतिष्ठते, अविनाभाव नियमस्य. लिंगलक्षणत्वेऽपि । ६ उत्तररूपलक्षणकारणभतप्राक्तनरूपलक्षणकार्यवात् । ७ भस्मादेरिति भावः ।
Page #46
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
४१
भवेनं व्यभिचारात्, रंसादेरपि तत्कारणस्य प्रतिपत्तेरेव रूपादेरपि प्रतिप्रत्तिस्तस्य तज्जननधर्मतया ततोऽनुमानात्ततः कार्यतयैव तत्र तस्यैव लिंगत्वमिति चेन्न, धूमशिंशपादेरप्यग्निवृक्षादिकार्यस्वभावतया प्रतिपत्तेरेवाग्निवृक्षादिप्रतिपत्तित्वापत्त्या लिंगव्यवहारस्यैवाभावोपनिपातात् । रसादिकारणात्तर्हि रूपादेरवगम इति चेन्न कारणस्य लिंगत्वानभ्युपगमात् । स्वभावलिंगमेव तत्तत्र साध्यस्य रूपादेस्तन्मात्रेणैव भावात्, स्वसत्तामात्रानुबंधिसाध्यविषयस्य लिंगस्य स्वभावलिंगत्वोपगमादिति चेत्; न । तत एव धूमादेरपि तल्लिंगत्वप्रसंगेन कार्यलिंगस्याभावानुषंगान्न रसादेः कार्यस्वभावयोरंतर्भावो नाऽप्यनुपलभे विधिसाधनत्वादिति कार्यादिभेदेनात्रैविध्यं लिंगस्य ।
"
नाऽप्यन्वयादिभेदेन संति प्रमाणानीष्टसाधनादित्यस्यागमकत्वप्रसंगात् । नह्यसावन्वयी व्यतिरेकी वा साधम्र्योदाहरणादेरभावादत एव नान्वयव्यतिरेक्यपि । न चासावगमक एवेष्टसाधनस्य प्रमाणसद्भावाविनाभावितया निर्णयात् । प्रमाणनिरपेक्षे हि तत्साधने भवत्यतिप्रसंगः स्वाभिमतस्य तत्वोपप्लवसंविदद्वैतादे रिव तद्विपर्ययस्यापि तथा तत्प्रसंगात् । नापि संयोग्यादिभेदेन चातुर्विध्यं तस्यं कृत्तिकोदयस्य शकटोदयादावलिंगत्वापत्तेः । नहि तत्र तस्य संयोगो धूमस्येवानौ । नाप्यऽसौ तस्य समवायी गोरिव विषणादिः । न च तेन सहैकार्थसमवायी रूपादिनेव रसादिः । न च तद्विरोधी तद्विधिलिंगत्वात् । तन्न लिंगे त्रैविध्या
"
१ इत्यत्र तृतीया हेत्वर्थे नतु सहार्थे । २ अनुभूयमानात् । ३ पूर्वरूपादेः ४ अनुभूयमानरसलक्षणसमानकालीनस्य । ५ पूर्वरूपक्षण उत्तररूपक्षणजनकः पूर्वरूपक्षणत्वात् संप्रतिपन्नवत् । ६ अंतभावः । ७ तत्वसद्भावपुरुषद्वैतादेः । ८ संयोगिसमवायिएकार्थसमवायितद्विरोधि भेदेन । ९ लिंगस्य । १० कृत्तिकोदयः ।
Page #47
--------------------------------------------------------------------------
________________
४२
प्रमाणनिर्णये
दिनियमकल्पनमुपपन्नम् । अतेन्नियतस्यापि साध्याविनाभावनियमविषयस्यानेकस्याभावात् ।
संक्षेपेण तु तद्भिद्यमानं द्विधा भवति, विधिसाधनं प्रतिषेधसाधनं चेति । विधिसाधनमपि द्वेधा, धर्मिणस्तद्विशेषस्य चेति । धर्मिणो यथा; संति बहिरर्थाः साधनदूषणप्रयोगादिति । कैथं पुनरतो भावधर्मिणो बहिरर्थस्य साधनं ? कैथं च न स्यात् ? अस्य तद्भावधर्मत्वे तद्वदसिद्धत्वापत्तेस्तदभावधर्मत्वे चातस्तदभावस्यैव सिद्धेर्विरुद्धत्वोपनिपातात् तदुभयधर्मत्वे च व्यभिचारप्रसंगादिति चेन्न, प्रत्येको भयधर्मविकल्पविकलस्यैवास्याभ्यनुज्ञानात् । कथमेवं तस्य बहिरर्थभावं प्रत्येव लिंगत्वं न तद्भावं प्रत्यपीति चेन्न, तत्रैव तस्याविनाभावनियमाद्धर्मिधर्मस्यापि कृतकत्वादेरनित्यत्वादौ तत एव गमकत्वोपपत्तेर्न धमिधर्मत्वमात्रेणैकशाखाप्रभवत्वादावपि तदुपनिपातेनातिप्रसंगापत्तेः । तंत्र साधनं नीलादेः संवेदनत्वसमर्थनं दूषणं बहिरर्थत्वनिषेधनं तयोः प्रयोगः प्रकाशनं" नीलादि: संवेदनात् व्यतिरिक्तस्तद्वेद्यत्वात् तत्सरूपवदित्यादिः, न जड़ो नीलादिः प्रतिभासमानत्वात् सुखादिवदित्यादिश्च कथं पुनरस्य बहिरर्थाभावेऽनुपपत्तिरिति चेत्, अस्य बहिरर्थविशेदेव । न हि तदभावे तद्विशेषस्य संभवः वृक्षाभावे शिंशपाभा
१ न विद्यते त्रैविध्यादि नियतं यत्र । २ साधनं । ३ परः प्राह । ४ जैन, आह । ५ " असिद्धो भावधर्मत्वे व्यभिचाभयाश्रिताः । विरुद्धो धर्मो भावस्य सा. सत्ता साध्यते कथं " इति कारिकां मनसि धृत्वा परः प्राह । ६ भाव, अभाव । ७ भावाभावश्च । ८ धर्मित्वाभावे । ९ अन्यथा, सर्वफलानि पक्वानि धर्माणि एकशाखाप्रभवत्वात् । १० भावं प्रत्यविनाभावाभावं समर्थयते परः । ११. उन्नारणं । १२ प्रयोगस्य बहिरर्थविशेषत्वं शब्दरूपत्वात्प्रतिपत्तव्यं ।
,,
Page #48
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः।
४३
वस्यैव प्रतिपत्तेः। नासौतद्विशेष आरोपितरोपिरूपत्वादिति चेत्, न, ततः सर्वशक्तिविकलादनिष्टवदिष्टस्याप्यसिद्धेः। अप्यनारोपितोऽप्ययं बोध एव न बहिरर्थ इति चेत्न; प्रतिपाद्यस्य तदभावात् । प्रतिपादकस्येति चेत्, कथं ततः प्रतिपाद्यस्य प्रकृतार्थप्रतिपत्तिरन्यबोधादन्यस्य तदनुपपत्तेरन्यथा प्रत्यात्मबुद्धिभेदकल्पनावैफल्योपनिपातात् । तस्मादर्थविशेष एवाऽयमित्युपपन्नमेवा तो बहिरर्थव्यवस्थापनं तदभावे स्वयमप्यभावापत्तेः। __तथेदमपरं धर्मिसाधनं संति प्रमाणानीष्टसाधनादिति । न हि प्रमाणनिरपेक्षमिष्टस्य विभ्रमैकांतादेः साधनमुपपन्नं, तद्विपर्ययस्यापि तथैव तत्प्रात्या तदेकांताभावप्रसंगात्। तद्विपर्ययस्योपायाभावोपदर्शनेन प्रतिक्षेपे तदेकांत एव पारिशेष्यादवतिष्ठत इति चेदस्ति तर्हि प्रमाणमुपायाभावोपदर्शनस्यैव तत्वादन्यथा ततस्तदेकांतविपर्ययप्रतिक्षेपानुपपत्तेः । पारिशेष्यं च यदि न प्रमाणं न तबलात्तदेकांतस्य तद्विपर्ययव्यवस्थापनम् । तस्मात्प्रमाणमेव तत्तेत्रंत्युपपन्नमेवेष्टसाधनान्यथानुपपत्त्या प्रमाणास्तित्वव्यवस्थापनम् । एवमन्यदपि मिसाधनमभ्यूहितव्यम् ।
धर्मिविशेषसाधनमपि द्वेधा, धर्मिणोऽनर्थान्तरमर्थान्तरं चेति । अनर्थान्तरमाप द्विविधं, सपक्षेण विकलमविकलं चेति । तत्राचं सर्वमनेकान्तात्मकं सत्वादिति।सत्वं खलु सामर्थेन व्याप्तमसमर्थाई व्योमकुसुमादेस्तस्य व्यावृत्तेः । सामर्थ्यस्य चैकत्वे न ततः प्रदीपादिसंबंधिनः कज्जलमोचनतैलशोषादिकार्यम् , अनेकत्वे च - १ साधन दूषणप्रयोगः बहिरर्थविशेष इत्यारोपितरूपत्वात् । २ प्रतिपादकबोधात् । ३ प्रकृतार्थप्रतिपत्त्यनुपपत्तेः । । प्रसक्तस्य प्रतिषेधे अन्यत्र प्रसंगात् शिष्यमाणे संप्रत्ययः परिशेषस्तस्य भावः पारिशेयं । ५ विभ्रमकांतादिव्यवस्थापने। ६ क्रियाकारकात् । ७ आदिशब्देन वर्तिकादाहोर्द्धज्वलनस्वपरप्रकाशनतमश्छेदनस्फोटादिकरणानुवृत्तव्यावृत्तप्रत्ययोत्पादनप्राणिविशेषंद्यष्टिप्रतिवंधनमनुष्यादिदृष्टयप्रतिधनप्राणिविशेषमारणप्रदीपांतरकारणादि ग्राह्यं ।
Page #49
--------------------------------------------------------------------------
________________
४४
प्रमाणनिर्णये
कथं न भोवस्यानेकांतात्मकत्वं । भावतस्तस्यव्यक्तिरेकादिति चेत् न, समर्थों भाव इति भावसामानाधिकरण्येन सामर्थ्यस्याप्रतिपत्तिप्रसंगात् । तथा तत्प्रतिपत्तेरव्यतिरेक एव द्रव्यत्वं सामान्य संवेदनं प्रमाणमित्यादौ दृष्टत्वात् । कथं पुनरेकस्यानेकत्वं विरोधादिति चेत् न, तदभावे तत्प्रतिपत्तेरेवानुपपत्तेविरोधस्य हि विरोधिनोऽवगमे सत्येव प्रतिपत्तिः । अवगमश्च नैकस्वभावया बुद्ध्या तयोरेकत्वापत्तेः । अनेकस्वभावायाश्चानेकांतमनिच्छतामसंभवात् । एवं वैयधिकरण्यादिप्रतिपत्तावपि वक्तव्यम् । ___ संशयस्तु स्वयमेव निर्णयानिर्णयरूपतयाऽनेकांतरूपतामुपजीवन्न तत्प्रतिक्षेपाय संपद्यते । भावस्यानेकरूपत्वं यद्यकस्वभावात्तप्तः कार्यमप्यनेकं किं न स्यात् ? अनेकस्वभावाच्चेदनवस्था, पुनस्तस्याप्यन्यतस्ततो भावात् । इत्यपि न युक्तं; स्वहेतोरेव तथाविधात्तस्य तद्रूपतयोत्पत्तेहेतुतथाविधत्वस्यापि तद्धेतुतथाविधत्वादेव भावात् । न चैवमनवस्थानं दोषोऽनादित्वात्तत्प्रबं. धस्य । ततो युक्तं सत्वं सर्वस्यानेकात्मकत्वं तदन्यथानुपपत्तिनियमवत्तयासाधयत्सपक्षविकलस्योदाहरणम् ।
सपक्षाविकलमपि द्विधा, सपक्षस्य व्यापकमव्यापकं चेति । व्यापकं यथा, अनित्यः शब्दः कृतकत्वात् घटवदिति । सपक्षे
१ पदार्थस्य । २ पदार्थतः । ३ भेदात् । ४ भेदाभेदयोर्विधिनिषेधयोरेकत्राभिन्ने वस्तुन्यसंभवः शीतोष्णयोरिवेति विरोधः, भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यं, यमात्मानं पुरोधाय भेदोयं च समाश्रित्याभेदस्तावात्मानौ भिन्नौ चाभिन्नौ च तत्राऽपि तथा परिकल्पनादनवस्था, येन रूपेण भेदस्तेन भेद. श्चाभेदश्चेति संकरः, येन भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः, भेदाभेदात्मकत्वे च वस्तुनो साधारणाकारेण निश्चेतुमशक्तेः संशयः, ततश्चाप्रतिपत्तिः, ततोऽभाव इत्यानेकांतेऽष्टदूषणानि । ५ बुद्धेः । ६ गच्छन् । ७ " मूलक्षयकरीमाहुरनवस्थां हि दूषणं । वस्त्वानंत्येऽप्यशक्तौ च नानवस्था निवार्यते " । ८ अपे. क्षितपरव्यापारो हि भावः कृतक उच्यते ।
Page #50
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः।
व्यापकत्वं चाऽस्य घटवदनित्ये सर्वत्र विद्युद्वनकुसुमादावपि भावात् । तदव्यापकत्वं तु तत्रैव साध्ये प्रयत्नंतरीयकत्वं, तस्य व तत्वं घटवदनित्येऽप्यन्यत्र जलधरध्वानादावभावात् ।
धर्मिणो भिन्नेमाप लिंगमनेकधा, कार्यकारणमकार्यकारणं वेति । कार्य धूमः पर्वतादौ हि पावकस्य, व्याहारादि शरीरे जीवस्य कारणं, मेघोन्नतिविशेषो वृष्टः, अभ्यवहारविशेषस्तृप्तः। कारणस्य कथं लिंगत्वं ? प्रतिबंधवैकल्याभ्यां तस्य कार्यत्वानियमादिति चेत् , सत्यम् ; यदि कारणमात्रस्य लिंगत्वं, न चैवम्, अन्यथाऽनुपपत्तिनियमनिर्णयवत एव तस्य तत्त्वोपगमात्तथाविधत्वं च प्रसिद्धमेव मेघोन्नतिविशेषादौ व्यवहारिणामिति निरवयं तस्य लिंगत्वम् ।। __ अकार्यकारणं पुनधा,साध्येन समसमयं विभिन्नसमयं चेति। समसमयं रसादि रूपादेः, शरीराकारविशेषो जीवस्याप्रतिपद्यते हि गाढमूर्छाद्यवस्थायां तद्विशेषदर्शनाज्जीवत्ययमिति प्रतिपत्तारः । कथमन्यथा तदवस्थापनोदाय तेषां चिकित्साविधावुपत्रकम इति । विभिन्नसमयं पुनरद्य भास्करोदयः उत्तरेधुस्तदुदयस्य । नाऽवश्यंभावस्तदुदयस्य कदाचित्पतिव्रतया तत्प्रतिबंधस्य श्रवणादिति चेन्न, जनश्रुतिमात्रविश्वासेन व्यभिचारकल्पनस्यायोगात्; अन्यथा पुत्रस्य पितृप्रभवत्वानुमानमपि न भवेत्, द्रोणवदपितृकस्यापि तद्भावस्य संभवात् । अस्ति हि तत्रापि जनश्रुतिः “ द्रोणः कलशादुत्पन्न" इति । कथमेवमप्युत्तरोदयं प्रत्यकार्यत्वमस्येति चेत्, ततः प्रागेव भावात् । तथाऽप्युत्तरस्य
१ अर्थातरं। २ सौगतः।३ सामर्थ्यप्रतिबंधकारणांतरवैकल्याभ्यां । ४ निराकरणाय । ५ ज्ञात्वारंभ उपक्रमः । ६ उत्तरेयुः भास्कर उदेष्यति अद्य भास्करोदयात् । ७ शांडिल्या । ८ अयं पितृप्रभवः पुत्रत्वात् ॥
Page #51
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
कारणत्वे 'प्रारभाव सर्वहेतूनामित्यस्य व्यापत्तिः।तं प्रत्यकारणत्वमपि चिरव्यवहितत्वेन,तत्कालप्राप्त्यभावात्।अन्यथा तादृशादेवाविद्यातृष्णादेर्मुक्तिंगतस्यापि संसारोत्पत्तेर्न मुक्तिरात्यंतिकी भवेत् । कथं पुनः पुनरतत्स्वभावस्यातत्कार्यस्य च तदुदयस्य तत्राविनाभावो गवादेस्तादृशस्य श्वादौ तदनवलोकनादिति चेत्, तत्स्वभावादेरपि कथं? चूतत्वस्य तत्स्वभावत्वेऽपि वृक्षत्वे, भस्मनस्तत्कार्यत्वेऽपि पावके तदनवलोकनात् । कथमन्यथा चूतत्वं लतायां 'निर्दहनमपि भस्म भवेत् । विशिष्टस्यैव तस्य वृक्षत्वादौ नियमो न तन्मात्रस्य तथाप्रतीतेरिति चेत्, सिद्धमिदानीमस्वभावादेरप्यद्यतनतपनोदयस्य श्वस्तनतदुदयं प्रत्यविनाभावित्वं, तथा प्रतीतेः, न गवादेवादिकं प्रति विपर्ययात् । ततो युक्तमविनाभावसंभवादस्वभावादेरपि लिंगत्वम् । एवमन्यदपि विधिसाधनं प्रतिपत्तव्यम् ॥
प्रतिषेधसाधनमपि द्विधा, विधिरूपं प्रतिषेधरूपं चेति। विधिरूपमप्यनेकधा, विरुद्धं तत्कार्यमकार्यकारणं चेति । तत्र विरुद्धं यथा, नाऽस्ति तत्र शीतस्पर्शो वढेरिति । वह्निः खलूष्णस्पर्शात्मा रूंपविशेषादवगम्यमानस्तत्प्रत्यनीकस्य स्पर्शस्याऽभावं गमयति । विरुद्धकार्यमत्रैव साध्ये धूमादिति । धूमो हि वह्निं तत्कार्यत्वेनावगमयंस्तद्विरोधिनः स्पर्शस्याभावमवबोधयति ।।
कारणविरुद्धकार्यमस्यैव प्रभेदः । तद्यथा-नाऽस्य हिमजनितो रोमहर्षादिविशेषो घूमादिति । धूमः खलु हिमस्य तत्प्रत्यनीकदह
१ सौगतः । २ साध्ये । ३ चतत्वस्य तरुणा सह भस्मनश्च सह पावकेनाविनाभावोऽस्तीति चेत् । ४ अग्निना सहितं ५ नियमस्य । ६ लिंगत्वं । ७ अविना भावित्वं नास्तीत्यर्थः । ८ पिंगांगभासुराकारत् ॥
Page #52
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः। .
नोपनयनद्वारेणाभावमाविर्भावयंस्तत्कार्यस्य तद्विशेषस्याभावम. वबोधयति ।
विरुद्धकारण; नायं मुनिः परपीडाकरः कृपालुत्वादिति ।कृपालुत्वं हि परहितनिबंधनतयाऽनुग्रहमुपस्थापयत्तेद्वतस्तत्पीडाकरत्वमपाकरोति।
कारणविरुद्धकारणमस्यैव प्रभेदः । तद्यथा-नाऽस्य मुनर्मिथ्यावावस्तत्वशास्त्राभियोगादिति । तदभियोगो हि रागादिरहितस्य तत्कारणतया तत्वज्ञानसद्भावमुपनिपातयंस्तत्प्रत्यनीकमिथ्याज्ञाननिवृत्तिनिवेदनद्वारेण तन्निबंधनमिथ्यावादस्य विरहं निरपवादमुपपादयति।
अकार्यकारणमप्यनेकधा, विरुद्धव्याप्तादिविकल्पात् । विरुद्वव्याप्तं यथा, नास्ति भावेषु सर्वथैकांतः सत्वादिति । सत्वं खल्वनेकांतेन व्याप्तमन्यथा तदनुपपत्तेः। तथाहि-तदर्थक्रियाकारिण एवं व्योमारविंदादावतत्कारिणि तदभावात् । तत्कारी च योकस्वभावः, अत एकमेव कार्य भवेन्न देशादिभिन्नमनेकम् । अन्यथा सकलस्यापि जगत एकहतुकत्वापत्तेः । सहकारिभेदादेकस्वभावादपि तदनेकमुपपन्नमेवेति चेत्, तद्भेदस्यैव तर्हि तत्र हेतुत्वं, तदनु तयैव तस्योत्पत्तेन्नॆकस्वभावस्य विपर्ययात् । तस्यापि तदा भावाद्धेतुत्वेऽतिप्रसंगस्तत्कालभाविनः सर्वस्यापि तत्र तत्वापत्तेः । नैकस्वभावस्य नाऽपि सहकारिभेदस्य तत्र हेतुत्वं, तत्समुदायस्यैव तत्वादिति चेत्, तस्यैव तर्हि सत्वं स्थान प्रत्येक समुदायिनां न च तत्र तदभावे समुदायस्यापि तत्तद्व्यतिरेकि
१ मुनेः । २ तत्वज्ञानकारणतया । ३ निर्दुष्टं । · घटत ५ अर्थ क्रियाकारी भावः ६ आदिशब्देन कालाकारयोर्ग्रहणं । ७ अनेककार्योत्पत्तिबेलायो ।
ww
Page #53
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
णस्तस्याप्रतिवेदनादित्यनेकस्वभावस्यैवानेककार्यकारित्वमभ्यनुज्ञातव्यम् । अनेकस्वभावत्वं च तस्य स्वकारणात्तथाविधात्तस्याऽपि तत्वं तथाविधात्तद्धेतोरिति नानवस्थानमत्र दोषस्तत्प्रबंधस्यानादित्वादित्युपपन्नमनेकांतव्याप्ततया सत्वस्य तद्विरोधिः सर्वथैकांतप्रत्याख्यानं प्रति साधनत्वम् ।
विरुद्धसहचरं यथा-नास्य मुनेमिथ्याज्ञानं सग्यग्दर्शनादिति । सम्यग्दर्शनं तत्साहचर्यनियमेन सम्यग्ज्ञानमुपसर्पयत्तत्प्रत्यनीकमिथ्याज्ञानप्रत्यवायमुपपादयतीत्युपपन्नं तत्र तस्य लिं. गत्वं । विरुद्धसहचरस्य कारणमत्रैव साध्ये तत्वाधिगमादिति, कार्य चानुकंपाऽऽस्तिक्यादिरिति । तत्वाधिगमो हि सम्यग्दर्शनस्य कारणमनुकंपादि च कार्यमविनाभावनिर्णयात् सम्यग्ज्ञानसहभाविनस्तस्य भावमवबोधयन्मिथ्याज्ञानव्युदासाध्यवसायमासादयति । एवमन्यदपि विधिरूपं प्रतिषेधलिंगं प्रतिपत्तव्यम् ।
प्रतिषेधरूपमपि तलिंगमनेकधा। तत्र स्वभावानुपलंभो यथानास्ति बोधत्मनि' रूपादिमत्वमनुपलंभात् खरमस्तके विषाणवदिति । न चेदमत्र मंतव्यं, परमाण्वादेः सतोऽपि क्वचिदनुपलंभादू व्यभिचार इति; ततः प्रकृतानुपलंभस्य॑ गोपालकलशधूमादेः पर्वतधूमादेरिव विलक्षणत्वेन तद्दोषोपनिपाताभावात् । तर्हि दृश्यविषयत्वमेव ततस्तस्य वैलक्षण्यमिति दृश्यानुपलंभस्यैव हेतुत्वमिति चेत् न, अदृश्यानुपलंभस्याप्यात्मनि पिशाचरूपत्वाभावे गमकत्वात् अन्यथा पिशाचो नाहमस्मीति व्यवहा
१ वस्तुनः । २ सम्यग्ज्ञानं । ३ उपनयत् । ४ अभानं । ५ तत्वार्थोपदेशग्रहणादिभावः तत्वार्थानां श्रद्धानपूर्वकमवधारणं हि ग्रहणमत्रेष्टमन्यथाऽस्य ग्रहणाभासत्वात । ६ चेतसि । ७ परमावाद्यनुपलभात् । ८ रूपादिमत्वानुपलभस्य ।
Page #54
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
रानुपपत्तेः । न च पिशाचस्यादृश्यत्वे तव्यतिरेकिणस्तद्रूप त्वस्य दृश्यत्वम् । आत्मनोऽदृश्यत्वेन तदभिन्नतयाऽदृश्यत्वमपि तस्येति चेत्, नेदानीमेकांततस्तदनुपलंभस्याभावं प्रति गमकत्वं, दृश्यादृश्यविषयतया संशयनिबंधनत्वात् । तन्न दृश्यविषयतयैव गमकत्वमनुपलंभस्याविनाभावनियमनिर्णये तदपरस्यापि तदु. पपत्तेः।
कारणानुपलंभो यथा-न तत्र गृहे पाकसंभवः पावकानुपलब्धेरिति । कार्यस्यानुपलंभस्तु नाऽत्र शरीरे बुद्धिापारादिविशेषानुपलब्धेरिति । कार्यविकलस्यापि कारणस्य संभवान तद्वैकल्यात्तदभावप्रतिपत्तिरिति चेत्, कथमिदानी क्वचिन्मरणस्यावगमो यतस्तत्र दाहादिकमाचरेत्, प्रकारांतरेण तत्प्रतिपत्तेरभावात् । ततः सत्यविनाभावनिर्णये कार्यवैकल्यादुपपन्नैव कारणस्याभावप्रतिपत्तिः । न तत्र शिंशपा वृक्षानुपलब्धेरित व्यापकानुपलब्धिः।अस्याश्च तं प्रति प्रयोगो यस्य क्वचिद्वृक्षविकलेऽपि तत्सदृशाकारदर्शनेन शिंशपाबुद्धिः । कथं पुनः शिंशपाव्यापकत्वं वृक्षस्य ? लताशिंशपाया अपि लताचूतवत्संभावनादिति चेत्, कथमेवं कारणत्वमपि धूमादौ वह्नेः ? अवह्निकस्यापि तस्य गोपालकलशादौ दर्शनात् । अन्य एव स धूमादिर्वह्निहेतुकात्तत इति चेत् न, वृक्षव्याप्तायास्ततो लताशिंशपाया अपि संभवे ऽन्यत्वाविशेषात् । नास्त्यस्य तँत्वज्ञानं सम्यग्दर्शनाभावादिति सहचरानुपलब्धिः । व्यभिचारी हेतुरसम्यग्दृशोऽपिं रूपादौ तत्वज्ञानस्य भावादिति चेत् न, तेन रूपादेरित्थंभावनिर्णयाभावात् ।
१ पिशाचत्वमिति यावत् । २ अन्यः कश्चिद्वक्ति । ३ प्राणिनि । ४ मृते ५ व्यापारादिबिशेषानुपलब्धिं विहायाऽन्येन । ६ लताशिंशपा नास्त्येव यदिसंभवऽपि । ७ सम्यग्ज्ञानमिति यावत् । ८ पुस इति शेषः।
Page #55
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
नानुपकांत निर्णयं तत्वज्ञानं नाम बालोन्मत्तादिज्ञानवत् । तन्न व्यभिचारकल्पनमत्र । न भविष्यति मुहूर्तान्ते शकटोदयः कृत्तिकोदयानुपलब्धेरिति पूर्वचरानुपलब्धिः । मुहूर्त्तात् प्राक् नोदगाद्धरणिः कृत्तिकोदयानुपलब्धेरिति उतरचरानुपलब्धिः । एवमन्यान्यपि विविधिप्रतिषेधलिंगानि प्रतिपत्तव्यानि ।
५०
यदि तत्प्रभवमनुमानं, प्रमाणमेव तर्हि, कस्यचित्कथं तस्य तदाभासत्वमपीति चेत्, स्वार्थव्यवसायवैकल्यात् प्रत्यक्षवत् । यते हि प्रत्यक्षस्य तद्वैकल्यं क्वचिदव्युत्पत्याऽऽत्मनः, क्वचित्संशयात्मनः, क्वचिद्विपर्यासात्मनञ्च, तस्य तत्र प्रतीतेः । तद्प्यंतरंगावरणोदयाद्वहिरंगादिंद्रियदोपादाशुभ्रमणादेरपि । तद्वदनुमानेऽपि । तत्राप्युक्तस्यांतरंगस्य बहिरंगस्य च हेत्वाभासादे - स्तद्धेतोर्भावात् ।
"
तत्र त्रिविधो हेत्वाभासः, असिद्धानैकांतिकविरुद्ध विकल्पात् । असिद्धोऽपि त्रिविध एव स्वरूपाज्ञातसंदिग्धासिद्धविकल्पात् । तत्र स्वरूपासिद्धो यथा - नित्यः शब्दचाक्षुषत्वादिति । न हि शब्दस्य चाक्षुषत्वं श्रावणत्वस्यैव तत्र भावतः प्रतिपत्तेः । अज्ञातासिद्धस्तु शब्दानित्यत्वे सर्वोऽपि कृतकत्वादिः । न हि तस्य कुतश्चित्परिज्ञानं प्रत्यक्षस्य स्वलक्षणविषयतया सामान्यात्मनि तस्मिन्विकल्पस्य च स्वाकारपर्यवसायित्वेनाप्रवृत्तेः । विकल्पाकार एव सोऽपीति चेत्, कथमिदानीं तस्य पक्षधर्मत्वं शब्दे धर्मिण्यभावात् । तत्र तस्यारोपादिति चेत् न, तत्र तस्येति प्रत्यक्षविकल्पयोरन्यतरेणाप्यशक्यपरिज्ञानत्वात् । अन्यतरा
१ अकृततन्निर्णयं । २ तच्छब्देन लिंगग्रहणं । ३ अनध्यवसायात्मनः । ४ आदिशब्देन पक्षाभासादिकं ग्राह्यं । ५ स्वरूपतः । ६ अनुगताकारे । ७ स्वसंविन्मात्रपर्यवसितत्वेन । ८ स्वलक्षणे । ९ विकल्पाकारकृतकत्वादेः ।
Page #56
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
wwwwwwwww
सिद्ध एवायं कस्मान्न भवति मीमांसकस्य शब्दे तदभिव्यक्तिवादिनः कृतकत्वादेरभावादिति चेत् न, शक्यसमर्थनत्वे तस्य तं प्रत्यपि सिद्धत्वात् , अशक्यसमर्थनत्वे च स्वरूपासिध्द एवांतर्भावात् तन्नान्यतरासिदो नाम । __ संदिग्धासिध्दः पुन—मोऽयं बाष्पादिर्वा इति संशय्यमानो भूतसंघांतः । न ह्यसौ पावकप्रतिपत्तौ धूंमतयोपदिष्टो गमको भवति निश्चितस्यैव तत्वोपपत्तेः, संदिग्धस्य चानिश्चितत्वात् ।
प्रतिज्ञार्थंकदेशासिध्दस्तर्हि वक्तव्यः, तद्यथा-अनित्यः शब्दः शब्दत्वादिति । शब्दस्य हि साध्यधर्मधमिसमुदायरूपप्रतिज्ञार्थंकदेशतया साध्यधर्मवदसिध्दत्वान हेतुत्वमिति चेत्, तहि धर्मित्वमपि न भवेदिति कथं शब्दानित्यत्वे कृतकत्वादेरपि हेतुत्वमाश्रयासिध्देः । समुदायरूपतयैव शब्दस्य साध्यत्वं न पृथगपि प्रसिद्धत्वात् ततो धर्मित्वमिति चेत्, हेतुत्वमपि स्यादविशेषात् । धर्मित्वं प्रत्युपक्षीणस्य तस्य कथं हेतुत्वमिति चेत् न, धर्मभेदानहि येनैव तस्य धर्मित्वं साध्यधर्म प्रत्यधिकरणभावेन तेनैव तस्य हेतुत्वमपित्वविनाभावनियमेन। कथं पुनर्विपक्षव्यावृत्तिर्यदनित्यत्वे तस्य तन्नियम इति चेत्, कृतकत्वादेरिव सत्वविशेषादेव। न चैवं सत्वादेवं साध्यसिध्दोविफलत्वं शब्दत्वस्य कृतकत्वादावपि तत्प्रसंगात् । कथं वा शब्दस्य प्रति
१ वादिप्रतिवादिनोर्मध्य एकस्यासिद्धः । २ मशकादिसमूहः। ३ भूतसं. घातं दृष्टा धूमोऽयं बाष्पादि वेति संदहे समुत्पन्ने बह्निरत्र धूमादिति । ४ बौद्धस्य मतं, प्रतिज्ञा एव धर्मधर्मिसमुदाय एवार्थः प्रतिज्ञार्थस्तस्यैकदेशः सन् हेतुर सिद्ध इत्यर्थः । ५ परवादी । ६ जैनः । ७ खरूपेण । ८ कृतकत्वादेर्यथा सत्वविशेषत्वाद्विपक्षव्यावृत्तिः। ९ सतीति शेषः । १. साधनादेव । ११ साधनस्य।
Page #57
--------------------------------------------------------------------------
________________
५२
प्रमाणनिर्णये
ज्ञार्थंकदेशत्वं, शब्दशब्दनिर्दिष्टस्य तद्विशेषस्यैव तत्वान्न शब्दसामान्यस्य । तत्कथं तस्यासिद्धत्वं? शब्दशब्देनाऽपि सामान्यस्यैव निर्देशादिति चेत्, विफलमिदानीं सत्वाद्यनुमानमपि वस्तुन्य. वस्थां प्रत्यनंगत्वात् । वस्तुनि हि शब्दविशेषे ततो नित्यत्वव्य वस्थितौ तस्य तदंगत्वं नावस्तुनि सामान्ये । नायं दोषः सामान्यानित्यत्वेन विशेषानित्यत्वस्य लक्षणादिति चेत्, लिंगादेव कुतो न तल्लक्षणं ? विशेषाणामानंत्येन तत्र लिंगप्रतिबंधस्य दुरवगमादिति चेत् न, सामान्यप्रतिबंधस्यापि दिविशेषात् । तन्न सामान्यस्य धर्मित्वं विशेषस्यैव तत्वात् । कथं तस्य प्रतिज्ञार्थकदेशत्वेनासिद्धत्वे सामान्यस्यापि तत्वं ? 'विशेषादन्यस्य सामान्यस्यैवाभावादिति चेन्न किंचिदिदानी लिंगं नाम सत्वादेरपि तथाविधस्याभावात् । भाव एव सत्सदित्यनुगमप्रत्ययस्य तद्विषयस्य भावादिति चेत् न, शब्दः शब्द इति तत्प्रत्ययस्याविशेषात् । तन्न शब्दानित्यत्वे शब्दत्वस्यासिद्धत्वं । नाऽपि रूपाद्यनित्यत्वे रूपादित्वस्य शब्दत्वेन समानयोगक्षेमत्वात् । नाऽप्यनित्यःशब्दोऽनित्यत्वादित्यस्य प्रतिज्ञार्थंकदेशत्वनासिध्दत्वं शब्देऽपि तदापत्त्या तस्य धर्मित्वाऽभावप्रसंगात् ; समुदाया
१ शब्द इति शब्दः शब्दशब्दः । २ शब्दत्वस्य । ३ यत्सत् तत्क्षणिकं यथा जलधरः संश्च शब्द इत्याद्यनुमानं । ४ शब्दत्वलक्षणे । ५ अनित्यः शब्दः कृतकत्वादित्यनुमानात् शब्दसामान्यस्यानित्यत्वेन साधितेन तद्विशेषाणामनित्यत्वस्य लक्षितलक्षणतया लक्षणात्परिज्ञानात्कुतः शब्दसामान्यस्य शब्दविशेषः सहाविनाभावात् । ६ विशेषानित्यत्वपरिज्ञानं । ७ अविनाभावस्य। ८ सामान्येन सह ससत्वस्याविनाभावे दुरवगमत्वाविशेषात् कुतस्तस्याप्यानंत्यात् । ९ परवादी । १० परो वक्ति तथाविधसत्वादिरेव । ११ साधनस्य । १२ आक्षेपसमाधानात् ।
Page #58
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
पेक्षयोऽपि तस्यापि तदवयवत्वाविशेषात् । कुतस्तर्हि तस्यासिद्धत्वमिति चेत्, तर्हि स्वरूपत एवानिर्णयाद्भवतु । स्वरू पासिध्दत्वादेवायमहेतुरिति चेत् न, शब्दावच्छिन्नस्यानित्यत्वस्य साध्यत्वात् । न च तस्य हेतुत्वं अनित्यमात्रस्य तत्वात् , तंत्र च मीमांसकस्याप्यविवादात्, अन्यथा घटादावपि तदभावापत्तेः । कथं पुनः शब्दानित्यत्वाभावे तन्मात्रस्यानुपपत्तिर्यतस्तदनित्यत्वे तस्य हेतुत्वमिति चेत् न, शब्दवत्तदभावेऽपि घटादेर्वस्तुत्वाव्याघातात्, तद्वस्तुत्ववच्छब्देऽप्यनित्यत्वसामान्यस्यापि तद्विशेषेऽन्यथाऽनुपपत्तिमत्त्वादुपपन्नमेव हेतुत्वम् ।
एवमपि न त्रित्वमेवासिद्धस्याश्रयासिद्धस्यापि भावात् । तद्यथा-द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्ववादिनं बौद्धं प्रत्यस्याश्रयत्वासिद्धत्वोपपत्तरिति चेत् न, आश्रयवत्स्वरूपस्यासत्वे स्वरूपासिद्ध एवांतर्भावात् , सत्वे चान्यथानुपपत्ती गमकत्वस्यान्यथा च व्यभिचारित्वस्यैवोपपत्तेर्भागासिध्दस्य तर्हि भावान त्रित्वमसिध्दस्य । तद्यथा-चेतनास्तरवः स्वापा
१ अन्यथेति शेषः। २ साध्यरूपस्य साधनस्य । ३ तटस्थो ब्रूते । । विशिष्टस्य । ५ शब्दस्यैव नाभ्युपगम्यते नित्यत्वं नान्यत्र। ६ अनित्यत्वमात्रविवादविशेषात् । ७ शब्देनित्यत्वमेव वस्तुत्वमिच्छतां घटादावप्यनित्यत्वमंतरेण वस्तुत्वमिष्यतां तथाचानित्यमात्रमवलोकेन सिद्धयति, अन्यथाऽनुपपत्तिः प्रतिपादिता भवतीत्यत्रावगंतव्यम् । ८ शब्दवदिति, यथा शब्दस्यानित्यत्वाभावे. ऽपि वस्तुत्वमुपपन्नं तथा घटादेरपि, अनित्यत्वाभावेऽपि वस्तुत्वमव्याहतमिति वस्तु किमप्यनित्यं न स्यात्, न चैवं ततः कारणाद्वस्तुत्वस्य घटादावनित्यत्वेन व्याप्तत्वात् , वस्तुत्ववदिति वस्तुत्वसामान्यस्य विशेषानित्यत्वव्यवस्थापकतदनित्यत्वसामान्यस्य तद्विशेषे नित्यविशेषेऽन्यथानुपपत्तिमत्त्वादुपपन्नमेव हेतुत्वम् ।
___
Page #59
--------------------------------------------------------------------------
________________
५४
प्रमाणनिर्णये
दिति । न हि तरुषु सर्वत्र स्वापः पत्रसंकोचलक्षणस्य तस्य द्विदलेष्वेव भावादिति चेत्, भवत्वेवं न तथाऽपि दोषः, स्वाश्रयेषु तेन पशुमनुष्यादिनिदर्शनबलेन चेतनत्वं व्यवस्थापयता तर्वन्तरेष्वपि तव्याप्तहेतुस्थापनद्वारेण तस्य व्यवस्थापनात् । परेऽपि तरवश्चेतनास्तत्वात् स्वापवत्प्रसिद्धतरुवादिति । तत् नाऽस्य भागासिध्दत्वं दोषाय गमकत्वाप्रतिक्षेत् । एवमेव शब्दानित्यत्वे प्रयत्नानंतरीयकस्याऽपि भागासिध्दस्य निर्दोषत्वकल्पनोपपत्तेः । अस्ति हि तस्यापि भागासिध्दत्वं समुद्रघोषजलधरध्वानादावभावात् । विपर्यस्तासिध्दस्त्वज्ञातासिध्द एव, न हि धूमस्तद्विपर्यासेन प्रतीयमानः स्वरूपतः परिज्ञातो नाम, तन्न ततस्तस्य पृथगसिद्धत्वम् । ___ अनैकांतिकश्च पुनर्दिधा-निश्चितसंभाव्यव्यभिचारविकल्पात् । निश्चयश्च व्यभिचारस्य क्वचित्पक्षैकदेशे, यथा-पक्वान्यतानि फलान्यकशाखाप्रभवत्वादुपभुक्तफलवदिति । अस्ति ह्य तत्रैव तन्निश्चयः पक्षीकृतेष्वेव बहुलमामेष्वपि प्रकृतस्य हेतोर्भावात् । क्वचिदन्यत्र, यथा सः श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदिति । अत्र ह्यन्यत्रैव तन्निश्चयस्तत्रैवाश्यामेऽपि तत्पुत्रस्यावलोकनात् ।
संभाव्यव्यभिचारो यथा-विवादापन्नः पुरुषः किंचिज्ज्ञो रागादिमान्वा वक्तृत्वादे रथ्यापुरुषवदिति।संभावनाऽत्र व्यभिचा. रस्य, सर्वज्ञादावपि विरोधाभावेन वक्तत्वादेः संभवाविरोधात् । विरोधे वा ज्ञानप्रकर्षतारतम्ये वक्तृत्वस्यापकर्षतारतम्यमुपल
१ एकदलेषु। २ एकदलाः। ३ अत्र मत्वर्थे प्रत्ययः । ४ भूतसंघा. तेन । ५ अनुमाने। ६ अनुभूतफलवत् । ७ अनुमाने । ८ अपक्वेष्वपि । ९ अनुमाने। १० विपक्षे । ११ वीतरागे । १२ असंभवादिति भावः ।
Page #60
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
५५
भ्येत । न चैवं सति तस्मिन् तत्राऽप्यतिशयतारतम्यस्यैव प्रतिपत्तेस्ततोऽतिशयपर्यंतगतज्ञानस्यापि संभवत्येव वक्तृत्वं । न संभवति तस्य वीतरागत्वेन रागविशेषात्मनो विवक्षाया अभावात्त निबंधनत्वाच्च वक्तृत्वस्येति चेत् न, तदभावेऽपि गोत्रस्खनादौ तस्य प्रतिपत्तेः । न हि तत्र यद्विषयं वचनं तद्विवक्षा विद्यते । विवक्षान्तरस्य सतोऽपि हि न तद्धेतुत्वमतिप्रसंगात् । विवक्षापूर्वकत्वे च वक्तृत्वस्यानभ्यस्तस्यापि शास्त्रार्थस्य कश्चिइक्ता भवेत् तद्विवक्षायास्तत्राऽपि संभवान्नचैवं व्याख्यातृसेवावैफल्यप्रसंगात् । अभ्याससाहाय्ये भवत्येवेति चेन्न, सत्यभ्यासपाटवे निर्विवक्षस्यैव स्वापादौ तदर्थप्रतिपादित्वस्य प्रतिपत्तेः । तन्न विवक्षावैकल्येन वीतरागस्य वक्तृत्वासंभवकल्पनमुपपन्नम् ।
उपपन्नमेव वैयर्थ्यात्, न हि वीतरागस्य तेन कश्चिदर्थइति चेत् न, स्वार्थस्याभावेऽपि परार्थस्य भावात् । तादृशस्य कथं परार्थेऽपि प्रवृत्तिरिति चेत्, भानोः पद्मविकासने कर्थे ? तथास्वभावेनेति चेत्, समानमिदमन्यत्राऽपि । ततो युक्तं सर्वज्ञादेरपि वक्तृत्वं । एवं पुरुषत्वादिकमपि तस्यापि क्वचितं सकलज्ञत्वादिनी जैमिन्यादौ वेदार्थज्ञत्वेनेव विरोधाभावात् । सर्वज्ञादेरविद्यमानत्वान्न तत्र वक्तृत्वादिकमित्यपि नें युक्तमन्येतैस्तदविद्यमानत्वस्य प्रतिपत्तावस्य वैफल्यादनेनाऽपि तदभावस्यैव किंचिज्ज्ञत्वाद्युपनयनेनोपस्थापनादतें एव तत्प्रतिपत्तावन्योन्याश्रय
१ नुः । २ वक्तृत्वमिति शेषः । ३ घटादिकारणस्य मृदादेः पटादिकारणत्वप्रसंगात् । ४ पुंसः। ५ वक्तव्वा संभवकल्पनं । ६ प्रयोजनं । ७ प्रवृत्तिरिति शेषः । ८ तथा स्वभावेनेतीदं । ९ पुंसि। १० साकमिति शेषः। ११ परवादी वक्ति । १२ जैनो वदति । अतः " वेति विकल्पद्वयं । प्रमाणांतरात् वक्तृत्वादिकात् ।
८८
> 66
१३ अन्यतः
१४ आनयनेन । १५ द्वितीयविकल्पः ॥
-
Page #61
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
nawwamro
w meaninrna
णमतस्तदभावप्रतिपत्तौ तत्र वक्तृत्वादेरसंभावनमसंभावितव्यभिचाराचातस्तदभावस्य प्रतिपत्तिरिति । ततः स्थितं संभाव्यव्यभिचारत्वाद्वक्तृत्वादेरनैकांतिकत्वमिति।
ननु एवं शब्दानित्यत्वे प्रमेयत्वमप्यनैकांतिकमेव भवेत् तस्य नित्ये गगनादावपि भावेन व्यभिचारादिति चेत् न, तस्य कूटस्थस्य प्रमितावनुपयोगादुपयोगे वा कुतो न सर्वदा तस्य प्रमेयत्वं? सहकारिसन्निधिसमय एव तद्भावादिति चेत् न, तदापि प्राच्यरूपापरित्यागेन तदनुपपत्तेः, तत्परित्यागे तु परिणामि नित्यमेव । तन्न कूटस्थं, न च तत्र भावाद्धेतो~भिचारः, संपक्षभावित्वेन साध्यप्रतिपत्तिं प्रत्यानुकूल्यात् । साध्यसपक्षत्वमपि तस्य शब्देऽपि सान्वयस्यैवानित्यत्वस्य सा. धनान्न निरन्वयस्य, तद्वति प्रमितेरसंभवात् । न हि सा ततः समसमयान्निष्पन्नत्वेन तस्यास्तनिरासत्वात् । नाऽप्यतीताच्चिरतरातीतादिव कार्यकालमप्राप्तात्ततोऽपि तदनुपपत्तेः । न चातत्प्रभवया तया तस्य प्रमेयत्वं “ नाकारणं विषय " इत्यस्य व्यापत्तेः। कथं पुनः सान्वयविनाशेऽप्यनित्यत्वे साध्ये न व्यभिचारः प्रमेयत्वस्य भाववदभावेऽप्यवस्तुनि भावात् तत्र च वस्तुधर्मस्यानित्यत्वस्यानुपपत्तेरिति चेत् न, तस्य कुतश्चिदप्रतिपत्तेः, व्यतिरेके च भावेभ्यस्तस्य कुतो न तेषां सांकर्यमें । तत्संबंधादिति चेत् न, तेनाऽपि स्वतः संकीर्णा
१ सर्वज्ञाभावसिद्धौ वक्तृत्वाभावसिद्धिस्तत्सिद्धौ सर्वज्ञाभावसिद्धिः। २ घटत इति शेषः। ३ अज्ञातव्यभिचारात् । ४ अनेकांतिकं पुनधेित्यायुक्तप्रकारेण । ५ निश्चितव्यभिचाराख्यमिति भावः । ६ स्वप्रमितावित्यर्थः । ७ प्रमाणविषयत्वमेव प्रमेयत्वं । ८ अप्रमेय । ९ गगनादौ हेतौ । १० कथंचिदभिन्नस्यैव । । ११ निरपेक्षत्वात् । १२ घटः पटो न भवति पटो घटो न भवतीति व्यावर्तकस्याभावस्य भावात् ।
Page #62
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः ।
५७ ~~~~~ www.mmm~~~newwwwwwwwwwwwwm नामनन्यथात्वस्याकरणात्, करणे वा तदेव तेषामन्योन्यमभावस्तस्य च तेभ्योऽनन्तरत्वेन तद्धेतोरेव भावादिति । तस्य वैयyमर्थातरस्य तस्य प्रागभावादिभेदिनः कथंचिद्भावाविष्वग्भावेन तद्वदेवानित्यत्वोपपत्तेः। न तद्गतत्वेनाऽपि प्रमेयत्वस्यानैकांतिकत्वं, व्यभिचारस्य निश्चितस्येव संभाव्यस्यापि तत्राभावात् ।
संशयकरत्वादप्यनैकांतिकं वक्तव्यं । तद्यथा-श्रावणत्वं न हि तस्य शब्दे नित्यत्वेतरत्वयोरन्यत्र हेतुत्वमनवगतबहिरन्वयस्य तदर्नुपपत्तेः । न च तेने विना तस्य संभवः सर्वस्याऽपि वस्तुसत. स्तेन व्याप्तेः। ततः शब्दे तदुपलम्यमानं तत्र संशयमावहति, किं श्रावणत्वान्नित्यः शब्द आहोस्विदनित्य इति । तस्मादनकांतिक मिति चेत् न; सत्ववत्तस्यापि तद्विशेषस्य शब्दानित्यत्वे हेतुत्वस्यैवोपपत्तेः। बहिरन्वयानवगमे कथं तदिति चेत्, सर्वानित्यत्वे सत्वस्यापि कथं ? न हि तस्यापि बहिस्तवगमः सर्वस्य पक्षीकृतत्वेन तद्वहिर्भूतस्याभावात् । नित्यस्य संहकमाभ्यामर्थक्रियावैकल्येन व्योमारविंदवत् सत्वानुपपत्तेः । ततो निश्चितव्यावृत्तिकस्य तस्य पक्ष एव तब्द्यातेरवगमादिति चेत्, सिद्धस्तर्हि श्रावणत्वस्यापि तत्रैव तदवगमो विपक्षात्सत्वस्य व्यावृत्तौ तद्विशेषस्यापि तस्य ततोऽवश्यं तया व्यावृत्तेनिर्णयात् । निर्विशेषादपि सत्वात्तदनित्यत्वस्याऽपि सिद्धेः किं तद्विशेषेण
१ स्वरूपेण संश्लिष्टानां पदार्थानां । २ अनित्यः शब्दः श्रावणत्वात् । ३ अनित्यत्व । ४ श्रावणत्वस्य बहिरन्वयाभावेन शब्दनित्यत्वेतरत्वयोरन्यतरत्वसाधकत्वभावेऽपि शब्दः संभविष्यतीत्याकांक्षा प्रतिक्षिपन्नाह । ५ नित्यत्वेनानित्यत्वेन। ६ संशयमावहति यस्मात् । ७ सर्वमनित्यं सत्वात् । ८ हेतुत्वमिति शेषः। ९ योगपद्य । १० श्रावणादिविशेषराहतात् ।
Page #63
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
श्रावणत्वेनेति चेत् नैवमुत्पत्तिमत्त्वादावपि प्रसंगात् । ततः सामान्यवत्तद्विशेषस्याऽपि साध्याविनाभावनिर्णये कदाचित्कुतश्चित्साध्यप्रतिपत्तेरुपपन्नं तद्विशेषस्याऽपि श्रावणत्वस्य तत्र गमकत्वमतो न तस्यानैकांतिकत्वकल्पनमुपपन्नम् ।
साध्यार्थाभावनिश्चितो विरुद्धो हेत्वाभासः । स चानेकधा, धर्मतद्विशेषाभ्यां धर्मितद्विशेषाभ्यां च विपरीतस्यैव साधनात् । तत्र धर्मविपरीतसाधनो यथा-नीलतज्ज्ञानयोरभेदः सहोपलंभनियमात् द्विचंद्रवदिति । तत्साधनत्वं चाऽस्य योगपद्यार्थे सहशब्दे तन्नियमस्याभेदविरुद्ध नानात्व एव भावात् । अभेदेऽपि चंद्रद्वितये भाव इति चेत् न, तत्राऽपि यथाप्रतिभासं भेद एव भावात् । यथातत्वमभेदेपीति चेत् न, तदानीमभेदस्यानवभासनात् । न चानवभासिनि तस्मिस्तनियमस्य तदनुगमः शक्यो गंतुमवभासिन्येव साध्ये तदनुगमस्य हेत्वंतरेषु प्रतिपत्तेः । सन्नपि तत्र तन्नियमो विरुद्ध एव धर्मविशेषविपरीतसाधनत्वात् । धर्मविशेषो हि नीलतज्ज्ञानयोः सिसाधयिषतां तात्विकमेकत्वं न च तस्यायं साधनः किं तात्विकस्यैव तस्यैव चंद्रद्वये स्वयं मिथ्याज्ञानविषयत्वेनातात्विके भावात् । ननु एवं पाकान्वितस्यैवानित्यत्वस्य घटे दर्शनात्तस्यैव शब्देऽपि कृतकत्वात्साधनं तदिति चेत् न, तत्रान्यत्र च तदन्वितस्यापि
१ अनित्यः शब्द उत्पत्तिमत्वादित्यादावपि । २ प्रयोगकाले । ३ श्रावण त्वादिविशेषात् । ४ “ साध्यार्थाविनाभावनियमनिश्चितो विरुद्धो हेत्वाभास' इत्यपि कुत्रचित्पाठः । ५ क्रियाविशेषणमदः। ६ सहोपलंभनियमकाले । ७ धर्मविशेषविपरीतदर्शनं दर्शयति । ८ अभेदे। ९ धर्मो भेदस्तस्य विशेषस्तात्विकत्वं तस्माद्विपरीतमतात्विकत्वं तस्य साधनं तस्य भावस्तत्वं तस्मात् । १० पटादो।
Page #64
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः।
तस्य प्रतिपत्तेः । न चैवं चंद्रद्वयादन्यत्र तात्विकस्योभयाभेदस्य प्रतिपत्तिर्यदवष्टंभेन नीलतद्वेदनयोरपि तन्नियमस्तस्यैव हेतुर्भवेत्ततो युक्तं धर्मविशेषविपरीतसाधनत्वेनास्य विरुद्धत्वम् ।
धर्मिविपरीतसाधनस्य किमुदाहरणम् ? इदं-न द्रव्यं भावं एकद्रव्यवत्त्वाव्यत्ववदिति । द्रव्यत्वं हि यथा न द्रव्यं तथा न भावोऽपि । तत्र यदि तद्वेदकद्रव्यवत्वाद्भावोऽपि न द्रव्यं स भावोऽपि न भवेदिति, तन्न, कृतकत्वस्याप्येवं तत्साधनत्वापत्तेः । शक्यं हि वक्तुं घटस्यानित्यत्वमिवाशब्दत्वमपि । तत्रं यदि तद्वत्कृतकत्वादनित्यत्वं शब्दस्याशब्दत्वमपि भवेदिति । यदि शब्दस्याप्रतिपत्तिराश्रयासिद्धिलिंगस्य, प्रतिपत्तावपि न तत्राशब्दत्वसाधनम् तत्पक्षस्य तत्प्रतिपत्त्यैव प्रतिक्षेपात् । तत्कथं कृतकत्वस्य धर्मिविपरीसाधनत्वमिति चेत् न, भावेऽप्येवमभावरूपत्वसाधनस्यानुपपत्तेरेकद्रव्यवत्त्वस्यापि तत्साधनत्वाभावप्रसंगात् । किं तर्हि तत्रोदाहरणमिति चेत्, क्षणभंगे सर्वोऽपि संत्वादिः, ततो हि धर्मिणः शब्दादेस्तत्क्षण एव भंगे तदभावसिद्धेरवश्यंभावादन्यदा भंगस्य च तत्क्षणभंगत्वानुपपत्तेः । तत्क्षणभंगोऽपि तस्य क्षणांतरादेव व्यावृत्तिर्न स्वरूपात् तन्नायं प्रसंग इति चेत् न, ततोऽपि तस्यानर्थातरत्वे प्रसंगस्यौनिवृत्तेः तथा क्षणांतरादपि व्यावृत्तिः स्वरूपादपि तत्प्रसंगात्कथंचिद
तरत्वस्य च स्याद्वादविद्वोषिणामसंभवात् । संभवेऽपि विरुद्धः __ १ सहायेन । २ पर्यायः ३ धर्मिविपरीतस्योदाहरणमुक्तम् । ४ धर्मिविपरीत-- साधनत्वापत्तेः।५ कृतकत्वानुमाने।६ परो वक्ति। ७ सर्वस्मिन्पदार्थेपि सत्वादिहेतुना विनाशस्वभावत्वसाधनस्यानुपपत्तेः कुतः प्रतिपत्त्यप्रत्तिपत्तिपक्षस्याविशेषात् । ८ परवादी वक्ति तत्र विपरीतसाधने किमुदाहरणमिति । ९ उत्पत्तिमत्वादिः। १० उत्प-- त्तिसमये । ११ त्वद्भावसिद्धयोरेवावश्यंभावलक्षणप्रसंगस्य ॥
Page #65
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
ऐव तत्रं सत्वादिमिविशेषविपरीतसाधनत्वात् । धर्मिविशेषो हि परस्यं निष्कलेः शब्दस्तद्विपरीतश्च स एव प्रवृत्तिरूपतया तु द्विरूपस्तं च साधयतः स्पष्टमेव संत्वादेस्तद्विपरीतसाधनत्वं । एवं पुरुषोऽस्ति भोक्तभावादिति । अस्यापि न हि पुरुषस्य भोग उपचारादप्रतिपन्ने तत्र तदनुपपत्तेरन्यतश्च तत्प्रतिपत्तावस्य वैफल्यात् । अत एव तत्प्रतिपत्तौ प्रतिपन्ने तत्र भोगोपचारस्ततश्च तस्य प्रतिपत्तिरिति परस्पराश्रयात्तात्विकोऽपि च तस्मान्न व्यतिरेकी, तेन तस्य गगनादेरिव भोकृत्वानुपपत्तेः, भोग्यसंनिधिसव्यपेक्षतया कादाचित्कत्वे तस्य तद्रूपतया पुरुषस्य कथंचिदनित्यत्वात्, सिद्धं तस्य साधयिषितकूटस्थपुरुषरूपधर्मिविशेषापेक्षया विपरीतत्वमित्युपपन्नं भोक्तृत्वस्य तत्साधनतया तद्विपरीतत्वसाधनमतो विरुद्धत्वम् । एवं विरुद्धाव्यभिचारिणो. ऽपि । तत्खल्विदमनित्यः शब्दः कृतकत्वात् घटवदिति । तदव्यभिचारित्वमस्य तत्रैव नित्यत्वसाधनस्य प्रत्यभिज्ञायमानत्वादेर्भा वात् । विरुद्धत्वं निरन्वयविनाशविपरीतस्य सान्वयविनाशस्यैव साधनात् । तदपि कथं नित्यत्वहेतुना प्रतिबंधादिति चेत् न, तद्विषयस्यापि नित्यत्वस्य सविनाशान्वयतद्विनाशादविशेषात्, कूटस्थे तस्मिनिरन्वयविनाशवदर्थक्रियाशक्तिवैकल्येन तद्व्याप्तस्य कस्याचिदपि हेतोरसंभवात् । कथमिदानीं अवि
१ धर्मिविशेषविपरीतसाधनं दर्शयति। २ क्षणभंगसाध्ये। ३ साधनं। ४ सौगतस्य।५ निरंशः। ६ स्वपररूपाद्यपेक्षया । ७ साधनस्य । ८ उपचारात्परमार्थतो वा। ९ व्यतिरेकिणा तात्विकेन। १० उदाहरणं। ११ सर्वथा नित्ये । १२ विरुद्धत्वं नास्त्यनैकांतिकत्वं कुतस्तद्विपरीते वर्तमानत्वात् , प्रकृतसाध्यद्वयस्याविशेषप्रतिपादनकाले युष्मन्मतेऽपि कथं तयोरन्योन्यविरुद्धत्वमित्याशंकते परः, सान्वयविनाशसविनाशनित्यत्वाभ्यामिति शेषः ॥
Page #66
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः।
शिष्टे विषये तस्य तद्विरुद्धत्वमिति चेत् न, तत्र कथंचिद्विरोधस्यापि भावात्तन्न तव्यभिचारिणोऽनैकांतिकत्वं विरुद्धत्वस्यैव भावात् । कथं वा तस्य तत्वं तद्वलादनित्यस्तद्विरुद्धबलान्नित्यो वा शब्द इति संशयादिति चेत्, केवलस्यापि स्यात्ततोऽपि तत्र तत्संभवात, कृतकत्वस्य निरन्वयविनाशवत् कौटस्थ्येऽपि काल्पनिकस्य भावात्, तात्विकस्यानेकांतनांतरीयकतयोभयत्राप्यसंभवात् । ततोऽनेकांतन्यायवेदिनां विरुद्ध एव विरुद्धाव्यभिचारी, तदन्येषां तु तद्वत्केवला अपि कृतकत्वादयः संशयहेतव एवानेकांतरूपप्रक्रियापरिच्युतानां तेषां साध्यवदितरत्रापि संभवात् । तदुक्तम् ---" विरुद्धाव्यभिचारी स्यात् विरुद्धो विदुषां मतः। प्रक्रियाव्यतिरेकेण सर्वे संभोहहेतवः॥” इत्यन्यपि हेत्वाभासाः प्रतिपत्तव्याः।
किं पुनः साध्यं यदविनाभावो हेतुलक्षणमित्युच्यते । " साध्यं शक्यमभिप्रेतमप्रसिद्धमिति” । न हि प्रसिद्धस्य साध्यत्वं पुनः पुनस्तत्प्रसंगेनानवस्थापत्तेः । नाप्यनभिप्रेतस्य साध्यं प्रत्यभिमुखचित्तस्येव लिंगतस्तत्प्रतिपत्तेः । नाप्यशक्यस्य तत्र हेतोरशक्तेः।
ततोऽपरं साध्याभासं । तच्च प्रत्यक्षादिविरुद्धविकल्पनादनेकधा। तत्र प्रत्यक्षविरुद्धं यथा-प्रतिक्षणविशरारवो भावा इति, प्रत्यक्षतस्तत्र कथंचिदविशरणस्यापि प्रतिपत्तेः । लोकोपाध्या
१ संदिग्धानेकांतिकत्वादिति भावः । २ केनचिद्वादिना प्रत्याभिज्ञायमानत्वादित्येतस्य प्रतिपक्षसाधनस्याप्रयुक्तत्वे सति केवलस्येत्यर्थः, विपक्षसाधकरहितस्यापि । ३ अबाधितं । ४ इष्टं । ५ प्रतिवाद्यपेक्षयाऽप्रसिद्धं । ६पुंसः ॥
Page #67
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
रूढत्वान्मिथ्यैव तत्प्रतिपत्तिरिति चेत् नान्यथाप्रतिपत्तेरनध्यवसायाद्विचारतस्तदध्यवसायस्य चान्यत्र विरोधात् ।
अनुमानविरुद्धं यथा-न संति बहिरा इति साधनदूषण. प्रयोगादिना तत्सद्भावस्यावस्थापनात् ।
आगमविरुद्धं यथा-नास्ति सर्वज्ञ इति मीमांसकस्य । तत्र "हिरण्यगर्भ प्रकृत्य सर्वज्ञ" इत्यादौ तत्सद्भावस्य श्रवणात् । न तस्य तत्सद्भावावेदने तात्पर्यमर्थवादत्वेनं हिरण्यगर्भस्य सर्वज्ञतया स्तुतिविधावेवं तद्भावात् । अन्यथाऽऽदिमदर्थत्वेन तस्यानित्यत्वापत्तेरिति चेत्, कथं तत्रासता तेन स्तुतिः ? अध्यारोपितेन तेनेति चेत् न, आरोपणस्य मिथ्याज्ञानत्वेन वेदादसंभवादन्यथाविधिपरोऽपि तस्मिन् अनाश्वासापत्तेः । ततस्तदावेदन एव तात्पर्य तस्य । नचानित्यत्वे तस्य दोषो नित्यत्व एव तस्य वक्ष्यमाणत्वात् ।
स्ववचनविरुध्दं यथा-न वाचो वस्तुविषया इत्यस्य वस्तुविषयत्वस्य प्रतिज्ञानस्यं विरोधात्, अवस्तुविषयत्वे चानर्थकवचनतया निग्रहस्थानत्वापत्तेः।
लोकविरुद्धं यथा-मिथ्यैव सर्वे प्रत्यया इति लोकस्य बहुलं जाग्रत्प्रत्ययेष्वमिथ्यात्वे एव विषयभावलक्षणेऽभिनिवेशात् । वासनादायादेवायं न वास्तवादमिथ्यात्वादिति चेत् न, तद्दायस्याप्य तत्प्रतीतिसम्यक्ताभिनिवेशोपनीतत्वेनावस्तुत्वापत्ती
१ धर्मविपरीतसाधनोदाहरणनिरूपणावसरे । २ युणवादत्वेन, “ विरुद्ध गुणवादः स्यादनुवादावधारित" इति वचनात् , ३ स्तुतिरूपत्वेन । कर्मस्तुतिः, यजेत इत्यज्ञातज्ञापनरूपेऽज्ञातज्ञापको विधिरिति वचनात् । ४ आदिमान् सर्वज्ञाद्यर्थों यस्य स तथा। ५ कल्पितन । ६ आरोपणसंभवप्रकारेण । कार. णात् । ८ वचनस्येति शेषः। ९ प्रकृत इति शेषः। १० तत्प्रतीतिसम्यकाभिनेवेशः।
___
Page #68
--------------------------------------------------------------------------
________________
परोक्षप्रमाणस्य निर्णयः।
व्योमकुसुमादिवत्ततस्तेषु तत्कल्पनानुपपत्तेस्ततो विषयभावादेव तत्प्रतीतिवदन्यत्रापि तदभिनिवेश इति कथं न सर्वप्रत्ययमिथ्यात्वं लोकविरुद्धं ।
हेतुसाध्ययोरिव दृष्टांतस्याप्याभासो निरूपयितव्यः, अन्यथातद्विलक्षणतया तस्य निरूपणानुपपत्तेरिति चेत् न, दृष्टांतस्यैव तदभावेऽप्यनुमानस्य बहुलमुपलंभेन तं प्रत्यनंगत्वात्, तमम्युपगम्य तु ब्रूमः । साध्यसाधनधर्मयोः संबंधो यत्र नितिः स दृष्टांतः। स च द्वेधा, साधम्र्येण वैधम्र्येण च । तत्र शब्दस्य कृतकत्वादेरनित्यत्वे साधम्र्येण घटः वैधयेणाकाशं तंत्र तयोरन्वयमुखेन व्यतिरेकद्वारेण च संबंधपरिज्ञानात् ।
तदाभासाः पुनः साध्यविकलादयः-तत्र नित्यः शब्दोऽमूतत्वादित्यत्र कर्मवदिति साध्यविकलं निदर्शनमनित्यत्वात् कर्मणः, परमाणुवदिति साधनविकलं मूर्त्तत्वात्परमाणोः, घटवदित्युभयविकलं अनित्यत्वान्मूर्त्तत्वाच्च घटस्य । रागादिमान सुगतो वक्तृत्वादित्यत्र रथ्यापुरुषवदिति संदिग्धसाध्यं रथ्यापुरुषे साध्यस्य प्रत्यक्षेणानिश्चयात्, वचनस्य च तत्र दृष्टस्य तदभावेऽपीच्छया संभवात् । अत एव मरणधर्माऽयं रागादित्यत्र असर्वज्ञोऽयं रागादित्यत्र च संदिग्धसाधनं संदिग्धोभयं च रागादिवदसर्वज्ञत्वस्यापि तत्र निश्चेतुमशक्यत्वात् । रागादिमानं वक्तृत्वादित्यत्र अनन्वयं, तत्रै रागादेरसिद्धौ तदन्वयस्यासिद्धेः। अनित्यः शब्दः कृतकत्वात् घटवदित्यत्राप्रदर्शितान्वयं, यद्यस्कृतकं तत्तदनित्यमित्यन्वयप्रदर्शनस्यात्राभावात् , यदनित्यं
१ प्रयोग । २ घटाकाशयोः । ३ साध्यसाधनयोः। ४ मीमांसकाभ्युपगतादृष्टवत् । ५ सुगत इत्यनुवर्तते। ६ न विद्यते साध्यसाधनयोरन्वयो यत्र । ७ रथ्यापुरुषवदित्यत्र ।
Page #69
--------------------------------------------------------------------------
________________
६४
तत्कृतकमिति विपरीतान्वयम् 1 एवं नव साधम्र्येण दृष्टांताभासाः |
प्रमाणनिर्णये
एवं वैधर्म्येणाऽपि तद्यथा - नित्यः शब्दोऽमूर्त्तत्वात् यन्न नित्यं न तदमूर्त्तं परमाणुवदिति साध्याव्यावृत्तं परमाणोर्नित्यत्वात् । कर्मवदिति साधनाव्यावृत्तं अमूर्त्तत्वात्कर्मणः । आकाशवदित्युभयाव्यावृत्तमुभयोरपि तत्र भावात् । सुगतः सर्वज्ञ अनुपदेशालिंगानन्वयव्यतिरेकप्रमाणोपपन्नतत्ववचनत्वात्, यस्तु न सर्वज्ञो नासौ तद्वचनो यथा वीथीपुरुष इति संदिग्धसाध्यव्यतिरेकं तत्र सर्वज्ञत्वाभावस्य दुरवबोधत्वात् । अनित्यः शब्दः सत्वात् यन्न तथा न तत्सत् यथा गगनमिति संदिग्धसाधनव्यतिरेकं गगनसत्वस्यादृश्यत्वेनानुपलं भादभावासिद्धेः । संसारी हरिहरादिरविद्यादिमत्वात् यस्तु नैवं नासौ तथा यथा बुद्ध इति संदिग्धोभयव्यतिरेकं, बुद्धात्संसारित्वादिव्यावृत्तेः प्रमाणाभावेनानवधारणात् । नित्यः शब्दोऽमूर्त्तत्वात् यन्न नित्यं न तदमूर्त्त यथा घट इत्यव्यतिरेकं घटे सतोऽपि साध्यव्यतिरेकस्य हेतुनिर्वर्त्तनं प्रत्यप्रयोजकत्वादन्यथा कर्मण्यपि तस्य तत्वोपपत्तेः । अनित्यः शब्दः शब्दत्वात् वैधर्म्येणाकाशवदित्य प्रदर्शितव्यतिरेकं । तत्रैव यत्र सन्न तदनित्यमपि यथा नभ इति व्यतिरेकं साध्यनिवृत्त्या साधननिवृत्तेरनुपदर्शनात् । त इमे नव पूर्वे चाष्टादश दृष्टांताभासाः प्रतिपत्तव्याः ! ! !
कुतः पुनर्दृष्टांततदाभासयोः साधनदूषणभावस्याभावेऽभ्युपगमेनापि निरूपणमिति चेत् न, तैत्ववाद एव तयोस्तदभा
"
१ संदिग्धः साध्यव्यतिरेको यत्र । २ अदृश्यार्थाभावस्य दुरवबोधत्वेन बौद्धै. स्वयमनभिमतत्वादिति भावः ॥ ३ वीतरागकथायां ।
Page #70
--------------------------------------------------------------------------
________________
आगमनिर्णय: ।
वात् । प्रतिवादादौ तु स विद्यत एव तद्वादस्यापि चिरंतनैरभ्यनुज्ञानादित्युपपन्नमेव तन्निरूपणं फलवत्वादिति ।
( पद्यम् )
स्मृत्यादेरनुंमाधियोऽपि च मया हेत्वादिभिः सेतैरैः । नीते निर्णयपद्धतिं स्फुटतया देवस्य दृष्ट्वा मतम् ॥ श्रेयो वः कुरुतान्मनोमलहरं स्फारादरं श्राविणां । मिथ्यावादतमो व्यपोह्यं निपुणं व्यावर्णितो निर्णयः।। इति श्रीमद्वादिराजसूरि-प्रणीते प्रमाणनिर्णयनाम्नि न्यायग्रंथे अनुमाननिर्णयः ॥
आगमनिर्णयः ॥
६५
पुनः
अथेदानीमागमः । स चाप्तोपदेशः, तस्य च प्रामाण्यं ततस्तद्विषयप्रतिपत्तेरौपचारिकं, मुख्यतस्तस्या एव तद्भावात् । कथं शब्दादर्थप्रतिपत्तिस्तस्यार्थाभावेऽपि भावादिति चेत्, कथमिदानीं ज्ञानादपि कुतश्चित्तत्प्रतिपत्तिस्तदभावे तस्याऽपि भावाचंद्रद्वयादिवत् । पुरुषेच्छानुविधायित्वान्नार्थवत्त्वं शब्दस्येत्यपि न युक्तं ज्ञानेऽपि समानत्वात् । अस्ति हि तस्यापि तदनुविधायित्वं ब्रह्मप्रधानादिषु तद्वादिमतानुविधायितयैव तस्य प्रवृत्तेः, न वस्तुतथाभावादन्यथों स्वयं तत्प्रतिक्षेपस्यानु
१ विजिगीषुकथायां । २ उपचारानुमानस्य । ३ आदिशब्देनाऽत्र साध्यदृष्टांतौ ग्राह्यौ । ४ हेत्वाभासादिभिः । ५ निश्चयमार्ग । ६ शीघ्रं श्रोतॄणां । ७ दूरीकृत्य । ८ अंगुल्य हस्तियूथशतमास्त इत्यादिवदिति शेषः । ९ वस्तुयथार्थत्वात् । १० सौगतैरिति शेषः ॥
Page #71
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
पपत्तिप्रसंगात् । कारणदोषोपनीतमिथ्यावभासनस्वभावस्यैव तयाऽपि तत्र तस्य प्रवृत्ति परस्य, तस्य वस्तुभावानुरोधितयैव प्रवृत्तरिति चेत्, अनुकूलमिदमस्माकमेवं शब्दस्याऽपि वस्तुभा. नुरोधिनः शक्यव्यवस्थापनात् । सामान्यमेव शब्दस्य विषयस्तत्रैव संकेतस्य संभवात् तस्य चावस्तुत्वात्तद्वाचिनः कथमर्थवत्वमिति चेत् न, तस्य नित्यव्यापिरूपस्याभावेऽपि विषयतप्रत्यक्षयोरिव सदृशपरिणामरूपस्य तत्वत एव भावादन्यथा प्रत्यक्षेऽपि तस्यातात्विकेन ततो विषयव्यवस्थापनस्याभावप्रसंगात् । कथं वा तस्यावस्तुत्वे क्वचित्तन्निबंधन एकत्वसमारोपों यतस्तव्यवच्छेदार्थमनुमानपरिकल्पनं । सोऽप्यंतरंगादेव कुतश्चिदुपप्लवान तत इति चेत् न, सदृशापरापरोत्पत्तिविप्रलंभान्नावधारयतीत्यस्य विरोधात् । तन्न सदृशपरिणामस्यातात्विकत्वं, अनुभवप्रसिध्दत्वाच्च । अन्यथा विसदृशपरिणामस्याप्येवं तन्निवंधनत्वेन स्वलक्षणस्यापि काल्पनिकत्वोपनिपातात्। चेष्टमेवेदम्, " भावा येन निरूप्यते तद्रूपं नास्ति तत्वत” इति वचनादिति चेत् न, कुतः पुनर्निरूप्यमाणत्वाविशेषे भावरूपस्येव तन्नैरात्म्यस्यापि तात्विकत्वम् ? अपरिस्खलितनिरूपणत्वाचेत्, आगतं तर्हि सदृशपरिणामस्यापि तत्त्वं तदविशेषादित्युपपन्नमेव तद्विषयतया शब्दस्य वस्तुविषयत्वं । तच्च न तन्मात्रत्वादतिप्रसं
१ जनित २ सम्यग्ज्ञानस्य ३ सम्यग्ज्ञानस्य ४ सौगतो वदति ५ “ अर्थन घटयत्येनां नहि मुक्तार्थरूपतां । तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपतेति स्वयं सौगतैरुक्तप्रकारेण विषयतत्प्रत्यक्षयोस्तात्विकः सदृशपरिणामोऽस्ति तथा ६ स मा भूदित्याशंकायामाह ७ सर्व क्षणिकं सत्वादिति ८ विसंवादात् ९ अनुभवप्रसिद्धत्वाविशेषेण तात्विकत्वापत्या १० स्वेनासाधारणस्वरूपेण लक्ष्यत इति स्वलणक्षं न तथा सति विसदृशपरिणामाभावे तस्य तथा लक्षयितुमशक्यत्वात्काल्पनिकत्वोपनिपातः ११ तत्वोपप्लववादी प्राह ॥
Page #72
--------------------------------------------------------------------------
________________
आगमनिर्णयः ।
गात् । अपि चातोपज्ञत्वेन गुणवत्वादातिश्च वक्तुर्वाच्यवस्तुयाथात्म्य वेदित्वे सत्यविप्रलंभकत्वम् ।
आप्तश्च द्वेधा, विकलाविकलज्ञानविकल्पात् । विकलज्ञानस्यातत्वे तद्वचनस्याविसंवादकतया बहुलं व्यवहाराधिरूढत्वात् । अविकलज्ञानश्च द्वेधा - परोक्षप्रत्यक्षज्ञानविकल्पात् । परोक्षज्ञानो गणधर देवादिस्तस्य प्रवचनोपनीतसकलवस्तुविषयाविशदज्ञा नतया परोक्षज्ञानत्वात् । प्रत्यक्षज्ञानस्तु तीर्थङ्करः परमदेवस्तदपरो sपि केवली तस्य निरवशेषनिर्धूतकषायदोषघातिमलोपलेपतया परमवैराग्यातिशयोपपन्नस्य सकलद्रव्यपर्यायपरिस्फुटावद्योतकारिणः : प्रत्यक्षज्ञानस्य भावात् । प्रसाधितञ्चायं । ततो युक्तं तदुक्तत्वात्प्रवचनस्य गुणवत्वं, अन्यथां तद्वचनस्यासंभवात् । संभव एव वीतरागस्यापि सरागवच्चेष्टासंभवादिति चेत् न, प्रयोजनाभावात् । क्रीड़नस्य च रागातिरेकैमलीमसमानसधमतया परमवीतरागे भगवत्यनुपपत्तेः । वैराग्यातिशयश्च तत्र ' रागादिः कचिदत्यन्तहानिमान् प्रकृष्यमाणहानिकत्वात् हेनि कालिकादिवदित्यनुमानतोऽध्यवसायात् । व्यभिचारी हेतुः सकलशास्त्रविदः प्रभृति प्रकृष्यमाणहानिकत्वेऽपि ज्ञानस्य क्वचिदत्यं - तहान्यभावादिति चेत् न, तस्यापि भस्मादौ निरवशेषस्यैव प्राणस्य प्रतिपत्तेः । आत्मन्येव रागादिवत्कुतो न तस्य तदिति चेत् न, तस्यैवात्मत्वेन तत्रैव तथा तदभावस्य विरोधात् । रागादेस्तु तदनन्यत्वेऽपि युक्तस्तत्राभावः सत्यपि तस्मिन् बोधस्वभावस्य तस्यापरिक्षयात् । तत्स्वभावञ्चात्मा “ तथैवाहं जानामि " इति प्रत्यक्षेण प्रतिवेदनात् । अनुमानस्य च तद्विलक्षणे
८८
६७
१ सर्वज्ञः २ अगुणवतः ३ आधिक्यं ४ निरवशेषेण ५ एकेंद्रियादौ ६ हेत्वर्थे तृतीया विभक्तिः ७ ॥
Page #73
--------------------------------------------------------------------------
________________
६८
तस्मिन् प्रत्यक्षविरुद्धपक्षतयानुपपत्तेः । तन्न परमवीतरागतया निर्व्यभिचार हेतुबलावधारिते भगवति वचनप्रलंभः संभवति ।
कथमेवं तादृशस्य वचनमपि स्वार्थाभावादिति चेत् न, परार्थतयैव तद्भावात् । तयापि तन्न परानुग्रहाभिसंधेस्तत्र तद्भावात्, अपि तु सुकृतविशेषोपनिपातात्, स्वभावविशेषादेव, भानुमतोनलिनविकासवत्, उदन्वदंभोविवर्द्धनवच्च तुहिनद्युतेः ॥
प्रमाणनिर्णये
कथं तर्हि प्रत्यर्थनियतत्वं तद्वचनस्य सकलदर्शनोपजनिते तत्र सकलार्थताया एवोपपत्तेर्नियतविषयाभिसंधेश्च नयरूपतया तत्रासंभवादिति चेत् न, प्रश्नविषयं एव प्रत्यर्थनियतानेकस्वभा वाधिकरणादपि तद्दर्शनात्तदुपपतेः । प्रश्नस्य च सकलविषयस्य युगपत्प्रश्नकारिण्यसंभवात् संभवे च भवत्येव तद्वचनात् कुतश्चिदप्यंतरंगमल विश्लेष विजृंभितप्रज्ञापाटवस्य गणधरदेवादेः सकलविषयप्रतिपत्तिः । अद्यापि कस्यचिद्बोधातिशयविशेषवतः सूत्रादेव तद्वृत्तिर्वात्तिकादिविवरणीय तदर्थ विस्तारपरिज्ञानस्योपलंभात् ।
कः पुनः प्रवचनस्याप्तोपज्ञत्वेन गुणो यतः प्रामाण्यमिति चेत्, प्रमाणांतराविरोधलक्षणोऽविसंवाद एवं न ह्यसौ तत्र शब्दस्यैव सामर्थ्येन स्वतस्तस्योपाध्याय सेवावैफल्यप्रसंगेना प्रत्यायकत्वावं, नाऽपि पुरुषमात्रस्य वचनमात्रेऽपि तत्प्रसंगात् । अस्ति प्रवचने ततस्तदर्थस्य कथंचित्प्रत्यक्षेणापरस्यानुमानेनात्यंतपरोक्षस्य च तदेकदेशैरविरुद्धतयैवं प्रतिपत्तेः । के पुनस्तेऽर्था ये तथा ते प्रतिपत्तव्या इति चेत् । भावेष्वनेकांतः परिणामो
1
।
१ हेत्वर्थे तृतीया २ सतीति शेषः ३ स्वस्य प्रयोजनाभावात् ४ मोहात् ५ चंद्रात् ६ अर्थे इति शेषः ७ व्याक्रियमाण ८ अवाधस्वरूपः ९ अनिश्चायकत्वात् १० कस्य तदर्थस्य प्रत्यक्षेणाविरुद्धतया ततः प्रतिपत्तिरिति संबंधः एवमनुमानादावषि योज्यं ११ पूर्वापराविरुद्धतया तथैवोक्तं श्रीमदाशाधरदेवै " दृष्टोऽर्थोऽध्यक्षतो वाक्यमनुमेयेऽनुमानतः । पूर्वापराबिरोधेन परोक्षे च प्रमाणते "
॥
Page #74
--------------------------------------------------------------------------
________________
आगमनिर्णयः ।
मार्गस्तद्विषयश्च । तत्रानेकांतो नाम तेषां युगपदनेकरूपत्वं । परिणामश्च क्रमेणास्ति हि तयोर्गुणपयर्यवद्रव्यमित्यादेरागमादिव प्रत्यक्षादेरपि प्रतिपत्तिश्चेतने स्वपरवेदनविकल्पाविकल्पविभ्रमाविभ्रमादिभिः स्वभावैरचेतने परिसामान्यविशेषगुणगुण्यादिर्भिस्तदेकांतभेदाभेदयोरप्रतिपत्त्या प्रतिक्षेपेण युगपदनेकरूपसाध्यक्षतः शक्तिभेदैश्च कार्यभेदप्रतिपत्तिहेतुकादनुमानतोऽपि निर्णयपथप्रापणात् ।
एवं परिणामस्य, तस्यापि स्मरणप्रत्यभिज्ञानाद्यनुपातिनश्चिस्वभावस्याचित्स्वभावस्यापि कुंडलप्रसारणाद्यनुषंगिभुजंगाया त्मनः स्वानुभवादैद्रियादप्यध्यक्षतोऽन्वीक्षणात् । एवमनुमानतो. ऽपि । तच्चेदं-क्रमादप्यनेकांतात्मा भावो युगपदप्यन्यथा तदनुपपत्तेः। नित्यानित्यात्मकस्य तत्र संशयादेर्दोषादभावे संकृन्नानकरूपत्वमपि न स्यात् तदविशेषात् ।माभूदिति चेत्, न तर्हि संशयादिरपि, तद्विकल्पस्यापि नानापरामर्शरूपत्वेनानेकांतात्मक. त्वासंभवेऽनुपपत्तेः । भवतु संकृदनेकांतः, कथं तावता क्रमेणापि ? विरोधाभावादिति चेत् न, निरन्वयविनाशे तस्य चिरातिक्रांतंवत्कार्यतत्कालमप्राप्तस्यानुपयोगेनावस्तुत्वापत्तेः, सान्वयविनाशे तु स एव परापरसमयेष्वपि तस्य स्वभाव इति तदात्मनः क्रमानेकांतस्य ततः साधनमविनाभावस्य तत्रैवाध्यवसायात् ।
कस्तर्हि मार्ग इति चेत् , निःश्रेयसप्राप्त्युपाय एव । स च त्रिरूपः “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" इत्यागमात् ।
१ सहभाविनो गुणाः; क्रमभाविनः पर्यायाः २ “ सर्वथा सविकल्पत्वे तस्य स्याच्छब्दरूपता । सर्वथा निर्विकल्पत्वे स्वार्थव्यवसितिः कुतः" ३ स्वभावस्येति शेषः ४ युगपदिति भावः ५ ज्ञानस्य ६ युगपत् ७ अग्न्यभावे धूमसद्भावविरोधवत्; क्रमानेकांताभावे युगपदनेकांतसद्भावस्य विरोधाभावात् ८ चेतनादेः ९ अतीतवत् १० आगमस्य प्रमाणांतराविरोधलक्षणं दर्शयति ॥
Page #75
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
अनुमानाञ्च । तच्चेदं-त्रिरूपोऽपवर्गमार्गः अपवर्गमार्गत्वान्यथानुपपत्तेः । न चाऽत्र हेतोराश्रायासिद्धिरपवर्गवादिनां सर्वेषामपि तस्य प्रसिद्धत्वात् ।
नाप्यन्यथोपपत्तिः ज्ञानादेः प्रत्येकं तन्मार्गत्वाभावात् । तथा हि-न ज्ञानादेवापवर्गः प्रत्युत्पन्नतत्वज्ञानस्याप्यनपवृक्तस्यावस्थितेरन्यथोपदेष्टुरभावेनापवर्गार्थिनां तत्वज्ञानस्याभावप्रसंगात् ।
नापि दर्शनादेवायमभिरुचिरूपात् तद्विषयापरिक्षाने तस्यैवासंभवात् । नापि ततस्तत्परिज्ञानसहायादनुष्ठानकल्पनावैफल्योपनिपातात् ।
नाऽपि अनुष्ठानमात्रात्, तद्विषयवेदनाऽऽदरयोरभावे तस्यैवाभावात् । ततो युक्तं त्रैरूप्यमेव तन्मार्गस्य । __ कथं पुनर्बधेन तस्याविरोधे तत्परिक्षयरूपस्तस्मादपवर्ग इतिचेत् न, साक्षादविरोधेऽपि तन्निदानविरोधितयाऽपि ततस्तदुत्पत्तेः । तथा हि-यद्यन्निदानविरोधि ततस्तत्परिक्षयः, यथा व्याधिनिदानवातादिविरोधिनो भैषज्यात् व्याधेः, बंधनिदानविरोधी चोक्तो मार्ग इति। बंधस्य च निदानं रागादिरास्त्रवस्तद्विरोधित्वं च मार्गस्थ, तस्य भेषजस्येवातिशयतारतम्ये रागादेर्वातादेरिवापकर्षतारतम्यस्य प्रतिपत्तेः । __ भवतु नाम तदत्यंतातिशयदशायां तन्निदानपरिक्षयाधस्यानागतस्यानुत्पत्तेरभावः प्रागवस्थस्य तु कथमिति चेत् न, तस्याप्याश्रवरूपस्नेहवशावस्थायिनस्तत्स्नेहापक्रमादेवाभावात् । तत्वाभिनिवेशरूपत्वान्मार्गस्य ततो मिथ्याभिनिवेशस्यैवापवर्त्तनं कथं रागादेरिति चेत् न, तस्यापि तद्विशेषत्वात् । कुतः पुनस्तस्य बंधनिबंधनत्वमिति चेत् । उच्यते । रागादिर्जीवस्य शरी१ अमुक्तस्य । २ आदिशब्दने श्लेष्मपित्तयोर्ग्रहणं । ३ अत्र हेत्वर्थे पंचमी ॥
___
Page #76
--------------------------------------------------------------------------
________________
आगमनिर्णयः ।
रादिव्यतिरिक्तपुद्गलविशेष संबंधहेतु स्तत्वान्मदिराद्यर्थिनस्तद्रागादिवत् । यथावस्थितस्वपरज्ञानस्वभावस्यात्मनः कुतो रागादिरपि दोषो यतस्तस्य तत्संबंधनिबंधनत्वमिति चेत् न, तस्यापि ताशोत्प्राच्यादेव सत्संबंधतो भावात् । तथा हि-तादृशस्यात्मनो रागादिस्तसंबंध पूर्वकस्तत्वान्मदिरापीतस्य रागादिवत् सोऽपि तत्संबंधस्ततः प्राच्याद्रागादेरेव । न चैवमनवस्थितिर्दोषो हेतुफलरूपतया रागादितत्संबंधप्रबंधस्यानादित्वात् । तदुक्तम्जीवस्य संविदो रागादिहेतुर्मदिरादिवत् । तत्कर्मागंतुकं तस्य प्रबंधोऽनादिरिष्यते ॥ इति । विषयस्तु मार्गस्य सप्तधा तत्वं जीवाजीवाश्रवबंधसंवरनिर्जरामोक्षास्तत्वम् " इति सूत्रात् । तद्विषयत्वं च तस्य तन्निर्णयादेव प्रवृत्तेः ।
66
न हि जीवस्यानिर्णये तत्प्रवृत्तिरनिर्णीतस्यापवर्गार्थित्वासंभवात् । नाप्यजीवस्य तर्दा तत्संबंधस्य संबंधस्यानवगमेन तद्वियोगकांक्षानुत्पत्तेः । नाप्याश्रवस्य बंधस्य च तन्निदानेनिवर्त्तनद्वारेण शक्यनिवर्त्तनत्वानवगमेन कस्यचित्तन्निवर्त्तनायोद्यमानुपपत्तेः । नापि संवरस्य निर्जरामोक्षयोर्वा तदापि तस्य तन्निदानप्रत्यनीकत्वर्यं तयोर्बंधविश्लेषस्वभावत्वस्य चानवगमेन तदनुपपत्तेः । कुतस्तर्हि जीवादेर्निश्चय इति चेत् न, ज्ञानस्यैव स्वपरसंवेदन स्वभावस्यान्वयिनो जीवत्वात्तस्य च क्रमानिरूपणे न निर्णयात्, तद्विलक्षणस्याजीवस्य बंधतदास्रवयोश्च मार्गात्तदास्त्रवनिरोधस्यांतद्वारेण वंधनिर्हरणस्याप्येकं देश सकलविकल्पस्यो - निर्णयत्वात् ।
१ रागादिहेतुकात् । २ संवित्स्वभावस्य । ३ पुंस इति शेषः । ४ अनवगमसमये । ५ निदानं कारणं ६ । तस्य निदानं तस्य प्रत्यनीकस्य भावस्तत्वं । ७ संवरस्य ॥ • एकदेशेन निर्जरी, सकलदेशेन माक्षः ।
७१
Page #77
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
कथमेवं " तपसा निर्जरा च " इति संवर निर्जरयोस्तपो निमित्तत्वमभिहितं तपसः कायपरितापरूपस्यामार्गागत्वादिति वेत् न, तपः शब्देन तंत्रापि तत्वज्ञानपरिपाकपरिकलितस्य बाह्येतरव्यापारोपरमलक्षणस्य चारित्रस्यैव प्रतिपादनादनशनादीनां तत्परिबृंहणपरतयैव तपस्त्वात् न मुख्यतः । यद्येवं चारित्रादेव तादृशादास्त्रवनिरोधे कथमभ्यधायि, " स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः " इति गुत्यादेरपि तन्नि रोध इति चेत् न, तस्यापकृष्टतद्विकल्परूपतया लेशतस्ततोऽपि तदुपपत्तेः । कीदृशस्तार्ह मोक्षे जीवो नीरूप एव न भवत्येव केवलमित्यभ्युपगमादिति चेत् न, ततः प्रागनुवृत्तिस्वभावतया प्रतिपन्नस्य तदापि पूर्ववत्तत्स्वभाव परित्यागानुपपत्तेः । प्रागपि तस्य वास्तवमनुवृत्तिमत्वमध्यारोपादेव तस्य भावादिति चेत् न, अध्यारोपस्याप्यपरापरक्षणेष्वेकत्वाध्यवसायस्य तत्प्रतिपत्तिविकलादयोगात् क्षणपर्यवसायिनश्च कुतश्चित्प्रत्यक्षादिवत्तत्प्रतिपत्तेरनुपपत्तेः, अपरापरसमयानुपातित्वस्य तत्र वास्तवत्वे वस्तुसत एव तद्रूपतया जीवस्य व्यवस्थितेः । काल्पनिकत्वे तत्कल्पनाकारिण्यप्येवं प्रसंगेनानवस्थोपनिपातात् । ततो वास्तवमेव तस्यानुवृत्तिमत्वं कल्पनया तदनुपपत्तेरिति मोक्षे नीरूपत्वमुपपन्नम् ।
भवतु तर्हि जीवस्तदानीं ब्रह्मवेदे ब्रह्मैव भवतीत्याम्नायात्
७२
""
१ मोक्षमार्गदेव भवति चेदिति शंकायां । २ सूत्रे । ३ " भवहेतुप्रहाणाय बहि रम्यंतरक्रियाविनिवृत्तेः परं सम्यक् चारित्रं ज्ञानिनो मतम् ” । ४ तटस्थो वक्ति, बौद्धः प्रत्यवतिष्ठते, निःस्वभावः सर्वशून्य' इत्यर्थः । ५ दीपो यथा निरृतिमभ्युपैति नैवावनिं गच्छति नांतरिक्षं ॥ दिशं न कांचिद्विदिशं न कांचित्स्नेहक्षयात्केवलमेति शांति ॥ " जीवस्तथा निर्वृतिमभ्युपैति नैवावनिं गच्छति नांतरिक्षं । दिशं न कांचिद्विदिशं न कांचिन्मोहक्षयात्केवलमति शांतिं ६ विधवादी वक्ति ॥
Page #78
--------------------------------------------------------------------------
________________
आगमनिर्णयः।
ब्रह्मणैक्यमापन्न इति चेत् न, ब्रह्मणस्तदापि प्रागिव तद्भेदा. परित्यागे तदनुपपत्तेः । तत्परित्यागे चातादेवस्थ्येनानित्यत्वापत्त्या नित्यं ब्रह्मति प्रतिज्ञाव्यापत्तेः । प्रागपि तेनैक एव जीवः केवलमविद्यानिबंधन एव भेद इति चेत् न, तदभेदिनस्तस्य तद्वदेव सुविशुद्धज्ञानस्वभावतया तस्याप्यविद्यानुपपत्तेः । भवतु को दोष इति चेत् न, तत्र नित्यनिर्मुक्ततया मुक्त्यर्थस्यात्मदर्शनश्रवणमननादेराम्नायाभिरूढस्यानर्थक्यापत्तेः ! ! !
अस्तु तर्हि जीवस्तदानीं निरवशेषबुद्धयादिवैशेषिकगुणनिमुक्त इति चेत् न, तस्य बुद्धयादिस्वभावत्वेन तदभावे सत्यभावस्यैव प्रसंगात् । तद्रूपत्वं च तस्याऽहं बोद्धाऽहं द्रष्टति बुद्धयादिसमानाधिकरणतया प्रत्यवभासनादिति चेत्, समानाधिकरणतया प्रत्यवभासनस्य च द्रव्यत्वं सामान्यमित्यादावभेदनिबंधनस्यैव प्रतिपत्तेः । बुद्धयादेरात्मनस्तद्गुणत्वेन भेदान्मिथ्यैव तथा तत्प्रतिभासनमिति चेत्, कुतो भेदेऽपि स तस्यैव गुणो नाकाशादेरपि, समवायस्य तन्निबंधनस्य तत्रापि भावात् । स्वगतात् कुतश्चिद्विशेषादिति चेत्, सः कोऽपरोऽन्यत्र कथंचिदभेदात् ? इति न ज्ञानादिव्यतिरेकी जीवः संभवतीति।
भवतु तर्हि तदा चिन्मात्रमेव तस्य तत्वमिति चेत्, किमिदं चिन्मात्रमिति ? दृश्योपलंभव्यावृत्तं स्वावभासनमिति चेत्, तदुपलंभस्य तत्स्वभावत्वे कथं ततो व्यावृत्तिरनित्यत्वापत्तेरतस्वभावत्वे प्रागपि कथं स. तस्य ? तत्स्वभावया प्रकृत्या संसर्गादिति चेत्, न तर्हि कदाचिदपि ततो व्यावृत्तिः प्रकृत्या
१ पूर्वावस्थाया अभावलेन । २ यौगो वदति । ३ स्वरूपं, सांख्यस्य मतमदः ४ घटायुपलभव्यावृत्तं ५ अन्यथेति शेषः ६ मुक्तेः प्रागित्यर्थ. ७ प्रधानेन ॥
Page #79
--------------------------------------------------------------------------
________________
७४
प्रमाणनिर्णये
नित्यव्यापिकतया तन्निबंधनस्य संसर्गस्य सर्वदाऽपि भावात् । नाऽपि रागादिमलविलयपरिशुद्धो निरन्वयपरिशुद्धो विनश्वरबोधक्षणप्रबंध एव तदा स इति सांप्रतं निरन्वयविनाशित्वे बोधक्षणानामर्थक्रियाकारित्वस्य प्रतिक्षिप्तत्वेन प्रबंधानुपपत्तेः ।
तस्मान्निर्मूलनिर्मुक्तकर्मबंधोऽतिनिर्मलः । व्यावृत्तानुगताकारोऽनंतमानंददृग्बलः ॥१॥ निःशेषद्रव्यपर्यायसाक्षात्करणभूषणः । जीवो मुक्तिपदं प्राप्तः प्रपत्तव्यो मनीषिभिः ॥२॥ भवतु नाम निश्चितलक्षणेन प्रत्यक्षादिनाऽसंवादात्तद्विषयेण प्रामाण्यमागमस्यात्यंतपरोक्षे तु जगत्संनिवेशविशेषादौ कथं निर्णेतव्यमतन्निर्णये तत्वज्ञानस्यापरिपूर्णतया निःश्रेयसनिवंधनत्वाभावप्रसंगादिति चेत् न, तद्विषयस्यापि प्रवचनस्य प्रत्यक्षादिसंवादबलादवधारितप्रामाण्यप्रवचनसमानकर्तृकतया तन्निर्णयात् । न च निःशेषनिधूतरागादिदोषस्य सर्ववेदिनः कचित्तथ्या मिथ्या चान्यत्र वचनप्रवृत्तिः संभवति, रागादिमत्यतत्वज्ञ एव तथा तत्प्रवृत्तेरुपलंभात् । समानकर्तृकत्वमपि तत्र भागस्य भागांतरण शास्रांतरवदविच्छिन्नादुपदेशपारंपर्यावगतः । __ पदादिरूपमेव प्रवचनं पदादेश्च स्फोटात्मनो निकलस्य नित्यत्वेनाऽपौरुषेयत्वात् कथं तदात्मनः प्रवचनस्य पुरुषगुणवशात्प्रामाण्यमिति चेत् न, वर्णक्रमस्यैव पदादित्वात्तदपि तद
१ नित्यत्वात् व्याप्तित्वाच्च । • कर्मभ्यः व्यावृत्तः, संविदादिनानुगतः। ३ अनंतसुखदर्शनवीर्यज्ञानबलः। ४ अत्यंतपरोक्षवस्तुप्रतिपादकस्यागमांशस्य प्रामाण्यानिर्णये । ५ अत्यंतपरोक्षार्थप्रतिपादकागमांशस्य । ६ प्रत्यक्षादिप्रसिद्धार्थप्रतिपादकागाशेन सह । ७ भाद्र आह । ८ आदिशब्देन वाक्यस्य ग्रहणं । ९ निरंशस्य ।
Page #80
--------------------------------------------------------------------------
________________
आगमनिर्णयः।
७५
न्यस्य तस्याप्रतिपत्तेः । वर्णानामितरेतरकालपरिहारावस्थायिनां कथमेकत्र वस्तुप्रतिपत्तावुपयोग इति चेत् । इतरेतरदेशपरिहारावस्थायिनां कारणानामप्येकत्र कार्ये कथं ? तेषां यथास्वदेशं भावादिति चेत् न, वर्णानामपि यथा स्वकालं विद्यमानत्वस्याविशेषात् । अवश्यं चैवमभ्युपगंतव्यमन्यथा ताल्वादिपरिस्पंदस्यापरापरसमयभाविनः एकत्र पदादिस्फोटाभिव्यक्तावप्यनुपयोगित्वेनानर्थकत्वप्रसक्तेः । कथं स्फोटादर्थप्रतिपत्तिः ? स्वाधीनाभिव्यक्तिकादनभिव्यक्तिकाद्वा ततोऽर्थप्रतिपत्तौ सर्वदा सर्वस्यापि ततस्तदापत्तेः। ततो वर्णक्रमनिवेशरूपमेव पदादिकं, तस्य च पौरुषेयत्वादुपपन्नं पुरुषगुणायत्तं तत्र प्रामाण्यं । कथं पुनरेवमनित्यत्वे शब्दस्य तस्माद् व्यवहारोऽप्रतिपन्नसमयात्तदनुपपत्तेः, प्रतिपन्नसमयस्यापि तस्य व्यवहारकालं यावदस्थितेरिति चेत् न, समयस्याऽप्ययमस्येत्यकरणात् । कथं तहीदृश ईदृशस्य वाचक इति ? ततस्तात्कालिकस्येवं कालांतरभाविनोऽपि तादृशतया समयविषयत्वादुपपद्यत एव तस्य व्यवहारोपयोगित्वं । कर्त्तव्यश्चैवमंगीकारस्ताल्वादिव्यापारजन्मनो ध्वनिविशेषस्याप्यनित्यस्यैवमेव समयविषयतया वर्णाभिव्यक्तावुपयोगादित्यलमतिविस्तरेण !!!
कथं पुनरनित्यत्वे शब्दस्य स एवायमकार उकारो वा यः प्रागश्रावीति प्रत्यभिज्ञानं, सत्येव नित्यत्वे तदुपपत्तेरिति चेत् न; तद्गतात्कुतश्चित्सामान्यविशेषादेवं तदवकृप्तेः । तस्य सदृशपरिणामरूपत्वात्तादृशोऽयमिति भवतु ततस्तवक्लप्तिः कथं
१ व्यापारस्यति । २ रचना । ३ शब्दादित्यर्थः । ४ अयं शब्दोऽस्यार्थस्य वाचक इति । ५ ईदृशस्यार्थस्येदृशः शब्दो वाचक इति संकेतकरणं कथं । ६ कारणात् । ७ शब्दस्य । ८ कुत्रचित्सामान्यात् । ९ शब्दस्य ॥
Page #81
--------------------------------------------------------------------------
________________
प्रमाणनिर्णये
पुनः स एवायमिति चेत् न, तथा ततोऽपि कलमकेशादौ तदुपलब्धेः । भ्रांतमेव तत्र तल्लूनपुनरुत्पन्नतया भेदिनि वस्तुत एकत्वस्याभावात् इति चेत् न, वर्णादिष्वपि तदविशेषात्, व्ययप्रादुर्भावयोस्तत्रापि प्रत्यक्षतोऽध्यवसायात् । तदनेनं तबलात्तत्र व्यापित्ववर्णनमपि प्रत्याख्यातं घटादिष्वव्यापिष्वेव तत्रापि तद्भावात् । व्यापिनः सामान्यस्य भावादेव घटादिष्वपि तद्भाव इति चेत् न, तादृशस्य प्रवेदनासंभवात्तत्संभवेऽपि वर्णेष्वपि तत एव तदिति कथं ततस्तदव्यक्तिषु तत्वप्रतिपत्तिः ? कीदृशः पुनरसौ शब्दो यस्य प्रादेशिकस्यानित्यस्य चोपकल्पनमिति चेत्, पौद्गलिक इति ब्रूमः। तथा हि-पुद्गलविवर्त्तः शब्दःइंद्रियवेद्यत्वात् कलशादिसंस्थानवत् । तोयादिसंस्थानेन व्यभिचारस्तस्य सत्यपि तद्वेद्यत्वे तद्विवर्त्तत्वाभावात् । सोऽपि तोयादौ स्पर्शादिस्वभावचतुष्टयस्याभावेन तल्लक्षणस्य पुद्गलस्याभावादिति चेत् न, तत्राप्यनभिव्यक्तस्य गंधादेः स्पर्शवत्वादेव लिंगात्पृथिव्यामिव प्रतिपत्तेः, अनुभूतस्वभावत्वाच्च हेम्न्युष्णस्पर्शवदनुपलंभस्याप्यविरोधात् । पृथिव्यादिरूपतया चातुर्विध्यस्यापि धारण इवोष्णेरणरूपतया पुद्गलतत्वाविशेषेऽप्युपपत्तेः, तन्नायं नियमः, आपो रसरूपस्पर्शवत्यस्तेजोरूपस्पर्शवत् वायुः स्पर्शवानिति। नापि सामान्यैः कर्मभिर्व्यभिचारस्तेषां तद्वतो भेदे तद्वेधत्वस्याप्रतिवेदनात; अभेदे तु तद्वतः पुद्गलतया तद्विवर्त्तत्वेन तेषु सपक्षस्यैव भावात् । मूर्तिमदिंद्रयवेद्यत्वस्यैव पौद्गलिकत्वेन व्याप्तिर्न च
१ पूर्वोक्तन्यायेन नित्यत्त्वनिराकरणेन वा । २ अस्त्विति शेषः, तथाचानिष्ट मीमांसकस्य कुतः वर्णेष्वेव व्यक्तिवत्तेन सामान्यानंगीकरणात् । ३ एकत्व ४ आदिशब्देन तेजोवायू गृहीतव्यौ। ५ पृथिव्यादेः पुद्गलत्वाविशेषात् भेदः कथमिति चेत् । ६ चलनात्मकैः ॥
Page #82
--------------------------------------------------------------------------
________________
आगमनिर्णयः।
७७
~~rrammmmmmmmmmmmmmmmmmmms
शब्दस्य तदस्ति तदिद्रियस्यामूर्त्तत्वादिति चेत्, कथमेवमन्योऽपि हेतुदंडादिनिबंधनस्यैव कृतकत्वस्यानित्यत्वेन व्यातिन च तच्छब्दस्य विद्यत इत्यपि वदतो निवारयितुमशक्यत्वात् कृतकत्वमात्रस्यैव तेन व्याप्तौ प्रकृतेनाप्यद्रियत्वमात्रस्यैव सा वक्तव्या। किं वा तदमूर्तिमदिद्रियम् ? आकाशमिति चेत् न, तस्य व्यापित्वेनातिदूरस्यापि शब्दस्य सर्वस्यकेंद्रियत्वेनं सर्वविषयस्यैकेनैकविषयस्य सर्वेण श्रवणप्रसंगात् । कर्णशष्कुलिविवरपरिच्छिन्नस्तस्य प्रदेश इति चेत् न, तस्य वास्तवत्वे कार्यत्वे च नभसः कलशादिवदनित्यत्वप्रसंगात; काल्पनिकस्य च व्योमकुसुमादिवदिद्रियत्वानुपपत्तेः । ततः क्षयोपशमस्वभावशक्तिविशेषाध्यासितजीवप्रदेशाधिष्ठितस्य शरीरावयवस्यैव श्रोत्रत्वं, तत्संस्पर्शनेनैव शब्दस्य श्रवणमिति न तस्येंद्रियान्तरात्कश्चिद्विशेषः । कथं पुनः पौद्गलिकत्वे शब्दस्य घटादिवदव्यापकत्वानानादेशस्थैर्युगपदुपलंभः ? श्रोत्रस्याप्राप्यकारित्वादिति चेत्न, तत्र प्राप्यकारि श्रोत्रं प्रत्यासन्नग्राहित्वात्, यन्नैवं तन्नैवं यथा नयनं, तथा च श्रोत्रमिति प्राप्यकारित्वस्य व्यवस्थापनात्। प्रत्यासन्नग्राहित्वं च तस्य तत एव तद्विवरवर्तिनः कीटकादिध्यानस्याप्रतिपत्तेः । साधनव्यावृत्तिश्च नयनात्ततोऽजनादेस्तद्गतस्याप्रतिवेदनात्तदप्राप्यकारित्वस्य च प्रत्यक्षनिर्णये निरूपितत्वात् । कथमेवमेकश्रोत्रप्रविष्टस्य वर्णस्य तदेवान्यैः श्रवणमिति ?
१ कृतकत्वादिः । २ श्रोत्रैकेंद्रियत्वेन । ३ पौद्गीलकत्वेन घटादेव्यापकत्वेऽपि नयनस्य प्राप्यकारित्वाद्युपलंभो यथा, तथा शब्दस्यापि कुतो न स्यादिति प्रश्न इत्याह । ४ नृभिः ॥
Page #83
--------------------------------------------------------------------------
________________
७८
प्रमाणनिये
न, वर्णस्य नानादिगभिमुख प्रवृत्तिकसदृशानेकस्वरूपतयैव स्वहे - बलतो गंधवदेव प्रादुर्भावात् । न हि गंधस्यापि युगपन्नानादेशस्थम्राणेंद्रियप्राप्तिरेकस्यैवाव्यापिनो लोष्ठवदेव तदनुपपतेः । तनैवं प्रवचनस्यापौगलिकत्वपरिकल्पनमुपपन्नम् । ततः स्थितं सकलभावाधिष्ठानयोरनेकांतपरिणामयोर्मार्गतद्विषययोश्च प्रतिपादकं प्रवचनमविसंवादभावात्तद्भावस्य च निरूपितत्वात्प्रमाणमिति ।
तच स्वविषयेऽनेकांतादौ तत्प्रत्यनीकधर्मसद्वितीये वर्तमानं सप्तभंग्या प्रवर्त्तते । तद्यथा स्यादनेकात्मैव भावः स्यादेकात्मैव, स्यादुभयात्मैव, स्याववक्तव्य एव स्यादनेकावक्तव्य एव स्यादकात्मावक्तव्य एव स्यादुभयात्मावक्तव्य एवेति ।
अनेकात्मतत्प्रत्यनीकयो द्वित्वात्तदाश्रयावुभावेव भंगावुपन्नौकथममी सत भंगा इति चेत् न, प्रतिपित्सातावत्त्वेन तदुपपत्तेः । तथा हि- अनेकत्मनस्तत्प्रत्यनीकस्य च प्रत्येकमुभयोः क्रमेण युगपच्च प्रतिपित्सायां प्राथमिकाञ्चत्वारो भंगाः, प्रथमभंगत्रयस्य क्रमेणावक्तव्यत्वेन सह बुभुत्सायामपरे त्र्यो भंगा इति । एवं परिणामादावपि सप्रत्यनीके भंगसप्तकमुन्नेतव्यम् ।
I
न चैवं भंगांतरस्य परिकल्पनं भवति प्रथमादेद्वितीयादिना योगे तृतीयाद्यंतर्भावस्य बहुलं पुनरुक्तस्यै चोपनिपातात् । तन्न युक्तमिदं- “ सप्तभंगीप्रसादेन शतभंग्यपि जायते । " इति प्रकृतधर्मविधिप्रतिषेधाभ्यामेव तदनुत्पत्तेर्जीवादिपदार्थगततदपरानेकधर्मविधिव्यवच्छेदबलालंबेन तदवकल्पना
१ अन्यथा नानादिगभिमुखवृत्तिकसदृशानेकस्वरूपत्वाभावे । २ प्रथमभंगस्य तृतीयभंगेन सह योगेन पुनरुक्तत्वमस्तित्वद्वयात् ॥
·
Page #84
--------------------------------------------------------------------------
________________
आगमनिर्णयः ।
यामत्यल्पमिदं शतभंगीत्यादि, ततः सहस्रभंग्यादेरपि संभवात् । एवकारोऽत्र सर्वत्रोयोगव्यवच्छेदाय सर्वमनेकात्मैव नान्यथेति, एवमन्यत्रापिं ।
तस्याप्यनेकात्मादिपदादेव प्रतिपत्तुमसामर्थ्यं भवत्वयं क स्यचित्सामर्थ्ये तु किमनेनेति चेत् न, तदाप्यप्रयोग एवेति नियमाभावात् । कथं तदभावः प्रतीतार्थप्रयोगस्य दोषत्वादिति चेत्, कथमिदानीं द्वावपूपौ त्वं पचसीत्यत्र द्वौपदत्वंपदयोः प्रयोगो विना ताभ्यां तदर्थप्रतिपत्तेः । लोके गुरुलाघवं प्रत्यनादरादिति चेत्, सिद्धमेवकारप्रयोगस्यापि निर्दोषत्वं । तञ्चानेकात्मत्वं भावस्य स्यात्कथंचिद्धर्मरूपेणैव न धर्मिरूपेण तस्यैकस्यैव शब्दादिरूपस्य प्रतीतेरेकात्मत्वमपि धर्मिरूपेणैव, न धर्मरूपेण, तस्यापि तत्रानित्यत्वकृतकप्रयत्नानंतरीयकत्वादिरूपस्यानेकस्यैव प्रतिपत्तेः । कल्पनैव सा न वस्तुतत्त्वावगाहिनी बुद्धिरिति चेत् न, कल्पनाया एवाभिलाप्यानभिलाप्यस्वभावायाः स्याद्वादविद्वेषे सत्यनुत्पत्तेः । कल्पनायां न तद्विद्वेष इति चेदन्यत्रापि न स्यादविशेषात् । एवमुभयात्मकत्वमपि स्वगताभ्यामेव धर्मधर्मिभ्यां क्रमवुभुत्साविषयाभ्यां न भावांतरगताभ्यामवक्तव्यत्वमपि ताभ्यां युगपदेव न क्रमेण नापि पदांतरेण तेन युगपदपि शतृशानयोः सच्छदेनेव वक्तव्यत्वसंभवात् । एवमुत्तरत्रापि स्यान्निपातादतिप्रसंगनिवृत्तिरवगंतव्या ।
७९
१ भंगेषु । २ द्वितीयादिभंगेष्वपि । ३ पुंस इति शेषः । ४ द्वाविति पदं च त्वमिति पदं च द्वौपदत्वं । ५ अनेकैकत्वविषया । ६ “ धीर्विकल्पाविकल्पात्मा बहिरंतश्च किं पुनः । निश्चयात्मा स्वतः सिद्धयेत्परतोऽप्यनवस्थितिः ७ स्वरूपापेक्षया ॥
>>
Page #85
--------------------------------------------------------------------------
________________
८०
प्रमाणनिर्णये
भवतु नाम हेयोपादेयतत्वस्य सोपायस्य प्रवचनेन प्रतिपादनं तत्परिज्ञानस्य निःश्रेयसनिबंधनत्वेन पुरुषार्थहेतुत्वादनेकांतपरिणामयोः किमभिधानेनेति चेत् न, हेयादितत्वस्य तव्यापृत्वज्ञापनार्थत्वात्, तस्य न ह्यनेकात्मपरिणामविकलं तत्संभवति वस्तुमात्रस्यापि तव्याप्तस्यैवोपपत्तेर्निरूपितत्वात् । तथा चानेकांतन्यायविद्विषां तदभावेन तदव्याप्तस्य हेयादितत्वस्याप्यनुपपत्तेस्तत्प्रवचनानां तदाभासत्वमभिहितं भवति । ततः स्थितं युक्तिशास्त्राविरोधेन सकलभावाधिकरणानकांतपरिणामनिःश्रेयसमार्गतद्विषयलक्षणस्य सत्यचतुष्टयस्य यथावदभिधानादन्ययोगव्यवच्छेदेन भगवजिनशासनमेव प्रमाणमिति । श्रेयः श्रीजिनशासनं यदमलं बुद्धिर्मम स्ताद --
द्रीची नित्यमनुत्तराप्यदमुईची मे रुचिर्वर्द्धताम् ॥ आ संसारपरिक्षयादमुमुईची भावना भावतो भूयान्मे भवबंधसंततिमिमामुच्छेत्तुमिच्छावतः॥ इति श्रीमद्भगवद्वादिराजसूरिप्रणीते प्रमाणनिर्णयनाम्नि
न्यायग्रंथे आगमनिर्णयः। ॥ समाप्तिं पफाणायं श्रीप्रमाणनिर्णयः॥
॥शुभं भवतु ॥
१ मार्गविषयभूतसप्ततत्वस्य । २ अमुद्रीची, अदोऽचति प्राप्नोतीत्यमुद्रीची, यथा विष्वग्द्रीची। अदमुईची, अमुमुईची इति प्रयोगावपि प्राप्त्यर्थेऽदःशब्दाद्भवतः एतैत्रिभिः प्रयोगैः " वादिराजमनुशाब्दिकलोक ” इति स्तुतिः साक्षा. कृतार्था भवति ॥
Page #86
--------------------------------------------------------------------------
________________ Piyawans- msona -strunthar-ob निवेदन / इस ग्रन्थमालाकी सहायता करना प्रत्येक धर्मात्माका काम है है। यह केवल प्राचीन जैनसाहित्यके उद्धारके लिए प्रकाशित है है की जाती है / प्रत्येक ग्रन्थका मूल्य ठीक लागतके बराबर ई रक्खा जाता है / इसके प्रत्येक ग्रन्थकी दश दश पाँच पाँच ई प्रतियाँ खरीदकर विद्वानोंको, पुस्तकालयोंको, जैनमन्दिरोंको ई धर्मार्थ देना चाहिए। प्रभावनाके लिए इससे अच्छा काम और है 1 नहीं हो सकता / ग्रन्थमालाके किसी ग्रन्थकी कमसे कम / 250 प्रतियाँ लेनेवालोंका फोटू उस ग्रन्थकी तमाम प्रतियोंमें लगवा दिया जाता है। ezarmannann. umrahmhmhuimerez t mas निवेदक ~-star-samsussionis नाथूराम प्रेमी, मंत्री माणिकचन्दजैनग्रन्थमाला समिति, ___ हीराबाग, बम्बई। - 3-90-samso-st~-~-~~-sirsawe