________________
प्रत्यक्षनिर्णयः ।
क्षस्यापि तद्भेदस्य तदात्मकत्वेन भवितव्यं, नच तस्य तदस्ति, तेनाभिलापसंबद्धतया स्वविषयस्याग्रहणात् । तथा तद्गहणस्यैव व्यवसायत्वादिति चेत्, नैवं, व्यवसायस्यैवाभावप्रसंगात् । अभिलापेन हि तद्गतेनैव विषयस्य संबन्धस्तत्र तदभावात् । स्मरणोपनीतेन संकेतकालप्रतिपन्नेनेति चेन्न । स्मरणस्य निर्विकल्पकत्वे तद्विषयस्य स्वलक्षणत्वेन क्वचिदुपनयनानुपपत्तेः । व्यवसायरूपत्वे च तेनापि स्वविषयस्याभिलापसंबद्धस्यैव स्मर्त्तव्यं, तदभिलापस्यापि तथाविधत्त्यैव तत्स्मरणेनेत्यनवस्थितिप्रसंगात् । स्मरणस्य तदनभिसंबद्धवस्तुवेदित्वोप व्यवसायस्वभावत्वे प्रत्यक्षस्यापि तत्कि न स्यात् ? अभिलापसंबन्धवैकल्ये कुतस्तस्य व्यवसाय इति चेत्, अभिलापस्मरणस्यापि कुतः ? शब्दसामान्यतत्संबन्धयोग्यस्य तेन ग्रहणादिति चेत्, प्रत्यक्षेऽपि तत एव सोऽस्तु, तेनाऽपि सामान्यस्य वस्तुषु सदृशपरिणामस्य परिच्छेदात् । अन्यथा शुक्तिकादौ रजतायपेक्षया साधर्म्यदर्शनस्याभावात् कथं तन्निबन्धनस्तत्र रूप्याद्यारोपः। यत इदं सूक्तं भवेत्, 'शुक्तौ वा रजताकारो रूप्यसाधर्म्यदर्शनादिति " । न च साधादपरं सामान्यमपि तस्य नित्यव्यापिस्वभावस्य क्वचिदप्यप्रतिवेदनात् । तद्विषयत्वेऽपि परामर्शवैकल्याव्यवसायमेव प्रत्यक्षमिति चेन्न । नीलमिदं पतिमिदं इति तत्र परामर्शस्य प्रतिपत्तेः। प्रत्यक्षादन्य एव सः परामर्श इति चेन्नै स्पष्टत्वेन प्रतिभासनात्,
१ अभिलापसंबद्धस्य स्वविषयस्येत्यर्थः । २ " विकल्पो नाम संश्रितः " इति वचनात्स्वाभिधानविशेषापेक्षा एव निश्चयैर्निश्चीयते इत्यभ्युपगमात् । ३ अभिलापसं. बद्धस्वविषयग्रहणस्य व्यवसायत्वे । ४ अनन्यदेशकालाकारत्वेन । ५ वस्तुसंबद्धसामान्यग्रहणादेव । सदृशपरिणामस्यासामान्यत्वे । ६ कल्पना इति शेषः । ७ जैनः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org