SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३२ प्रमाणनिर्णये~~~~~~~ भवतु कश्चित्सर्वज्ञः, सतु भगवान्नहन्नेवेति कुतः ? सुगतादेरापि तत्त्वेन प्रसिद्धेरिति चेत्, उच्यते । भगवानहन्नेव सर्वज्ञः सर्वज्ञत्वान्यथानुपपत्तेः । तथाहि-सुगतस्य तावन्निर्विकल्पक वेदनं, न तेन सुषुप्तादिवेदनवद्वस्तुपारच्छित्तिः । सत्यामपि तस्यां न सर्वाविषयत्वं कारणस्यैव विषयत्वोपगमात् । न च कारणमेव सर्व तस्य समसमयस्योत्तरसमयस्य चाकारण त्वात् । अन्यथा “प्राग्भावः सर्वहेतूना" मित्यस्य व्यापत्तेः । न चैकस्वभावत्वे ततो नानार्थपरिच्छित्तिर्नित्यादप्येकस्वभावादेव हेतोर्देशादिभेदभिन्नानेकवस्तुप्रादुर्भावोपनिपातेन तनिषेधाभावप्रसंगात् । प्रतिव्यक्तितदाभिमुख्याभावे पृथगर्थदेशनानुपपत्तेश्च । भवत्वेकमनेकस्वभावमेव तद्वेदनं युगपन्नानाकारतया स्वतस्तस्य संवेदनादिति चेन्न । क्रमेणापि तद्रूपतया तस्य तत एव प्रतिपत्तिसंभवात् । तादृशसंवेदनात्मा भगवानहन्नेव न सुगतस्तस्य तद्विलक्षणतया तद्वादिभिरभ्यनुज्ञानात् । तन्न सुगतस्य सर्वज्ञत्वं, नापि हरिहरादीनामन्यतमस्य । तद्वेदनस्यापि सकलविषयस्य प्रत्यर्थमाभिमुख्याभावे सतीदंतयेदंतया वस्तुपरिच्छितेरनुपपत्त्या तथा तद्देशनाभावप्रसंगात् । प्रतिव्यक्त्यभिमुखतया तस्य मेचकत्वे च क्रमेणापि तादूप्योपपत्त्या पूर्ववदर्हत एव तादृश एवात्मनः सर्वज्ञत्वोपपत्तेः। नेश्वरादेस्तस्य तद्रूपतया परैरनभ्युपगमात् । ततो नैकस्याप्येकांतवादिनः सर्ववदित्वमित्युपपन्नमर्हत एव भगवतस्तद्वेदित्वं, तत्रैव स्याद्वादन्यायनायके जगदुदरविवरवर्तिनिरवशेषपदार्थसार्थसाक्षात्करणदक्षस्याvणस्याध्यक्षस्य तस्योपपत्तेरितरत्र विपर्यासादिति ! ! ! १ नाकारणं विषय इति । २ विरोधात् ॥ ३ सुगतः। ४ प्रतीतेः । ५ क्रमयोगपद्याभ्यामनेकरूपसवेदनात्मा । ६ पूर्णस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003100
Book TitlePramana Nirnaya
Original Sutra AuthorN/A
AuthorRajsuri, Indralal Shastri, Khubchand Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy