________________
आगमनिर्णयः ।
यामत्यल्पमिदं शतभंगीत्यादि, ततः सहस्रभंग्यादेरपि संभवात् । एवकारोऽत्र सर्वत्रोयोगव्यवच्छेदाय सर्वमनेकात्मैव नान्यथेति, एवमन्यत्रापिं ।
तस्याप्यनेकात्मादिपदादेव प्रतिपत्तुमसामर्थ्यं भवत्वयं क स्यचित्सामर्थ्ये तु किमनेनेति चेत् न, तदाप्यप्रयोग एवेति नियमाभावात् । कथं तदभावः प्रतीतार्थप्रयोगस्य दोषत्वादिति चेत्, कथमिदानीं द्वावपूपौ त्वं पचसीत्यत्र द्वौपदत्वंपदयोः प्रयोगो विना ताभ्यां तदर्थप्रतिपत्तेः । लोके गुरुलाघवं प्रत्यनादरादिति चेत्, सिद्धमेवकारप्रयोगस्यापि निर्दोषत्वं । तञ्चानेकात्मत्वं भावस्य स्यात्कथंचिद्धर्मरूपेणैव न धर्मिरूपेण तस्यैकस्यैव शब्दादिरूपस्य प्रतीतेरेकात्मत्वमपि धर्मिरूपेणैव, न धर्मरूपेण, तस्यापि तत्रानित्यत्वकृतकप्रयत्नानंतरीयकत्वादिरूपस्यानेकस्यैव प्रतिपत्तेः । कल्पनैव सा न वस्तुतत्त्वावगाहिनी बुद्धिरिति चेत् न, कल्पनाया एवाभिलाप्यानभिलाप्यस्वभावायाः स्याद्वादविद्वेषे सत्यनुत्पत्तेः । कल्पनायां न तद्विद्वेष इति चेदन्यत्रापि न स्यादविशेषात् । एवमुभयात्मकत्वमपि स्वगताभ्यामेव धर्मधर्मिभ्यां क्रमवुभुत्साविषयाभ्यां न भावांतरगताभ्यामवक्तव्यत्वमपि ताभ्यां युगपदेव न क्रमेण नापि पदांतरेण तेन युगपदपि शतृशानयोः सच्छदेनेव वक्तव्यत्वसंभवात् । एवमुत्तरत्रापि स्यान्निपातादतिप्रसंगनिवृत्तिरवगंतव्या ।
७९
१ भंगेषु । २ द्वितीयादिभंगेष्वपि । ३ पुंस इति शेषः । ४ द्वाविति पदं च त्वमिति पदं च द्वौपदत्वं । ५ अनेकैकत्वविषया । ६ “ धीर्विकल्पाविकल्पात्मा बहिरंतश्च किं पुनः । निश्चयात्मा स्वतः सिद्धयेत्परतोऽप्यनवस्थितिः ७ स्वरूपापेक्षया ॥
Jain Education International
For Private & Personal Use Only
>>
www.jainelibrary.org