________________
प्रमाणनिर्णये
तद्भावात् श्योमत्वादेस्ततोऽपिसिद्धिप्रसंगात् । अपि तु साकल्येन। तत्र यदू यदू वेद्यं तत्तत्सर्वमनात्मविषयमिति किंचिद्विज्ञानमुत्पद्यमानमात्मविषयमपि भवितुमर्हति । अन्यथा तद्वद्यत्वस्यानात्मविषयतया व्याप्तस्तत एवाप्रतिपत्तिप्रसंगात, तथाच व्यभिचारि वेद्यत्वं व्याप्तिज्ञानेन तत्रात्मनि विषयत्वस्याभावेऽपि तस्य भावात् । एवमीश्वरज्ञानेनापि । न हि तस्याप्यनात्मविषयत्वं, असर्वविषयत्वप्रसंगात् । तथा च कथं तस्य तज्ज्ञानेन सर्वज्ञत्वं ? तेन तदपरस्य सकलस्य तस्य च तदन्येन ग्रहणादिति चेत्, कथं तदन्येनाप्यस्वविषयेण स्वविषयतया परस्परपरिज्ञानमित्यप्रतिपत्तिरेव । तेन तस्यासकलप्रतिपत्तेरनभ्युपगमादित्यतोऽस्ति तस्याऽऽत्मविषयत्वं । तथा चेत्किमपराद्धं तद्विषयेण ज्ञानेन र्यत्तस्यैवात्मविषयत्वं नेष्यते इति सिद्धम् तेनापि व्यभिचारित्वं वेद्यत्वस्य । तत्रानात्मविषयत्वाभावेऽपि तस्य भावादिति-नानुमानादप्यनात्मविषयत्वमर्थज्ञानस्यात्मविषयत्वं तु तस्यानुभवप्रसिद्धमतः किं तत्रानुमानेन, यदि निर्बन्धस्तदुच्यत एव । अर्थज्ञानमात्मविषयमविषयत्वात्, यत्पुनर्नात्मविषयं तदर्थविषयमाप न भवति यथा घटादि । अर्थविषयं विवादापलं ज्ञानं तस्मादात्मविषयमिति केवलव्यतिरेकी हेतुः, तस्य परैरपि गमकत्वाभ्यनुज्ञानात् । तन्नार्थविषत्वमेव ज्ञानस्येत्युपपन्नं नैयायिकस्य, स्वविषयत्वस्यापि तत्र भावात् ।
मीमांसकस्त्वाह । परोक्षमेव सकलमपि ज्ञानं स्वप्रकाशवैकल्यात्, प्रत्यक्षं तु बहिरर्थस्य तेन तस्यैव प्रकाशनात् इति ।
१ साध्यस्य । २ व्याप्तिज्ञानं । ३ व्याप्तिज्ञानस्यात्मविषयत्वेन । ४ द्वितीयज्ञानेनेत्यर्थः । ५ बस्तुनः । ६ द्वितीयज्ञानस्यात्मविषयत्वेन । ७ द्वितीयज्ञानविषयेण। ८ यस्मात् हेतोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org