________________
प्रमाणलक्षणनिर्णयः।
तंत्र प्रकाशकत्वे सति कुतस्ततोऽर्थस्यैव प्रकाशोन स्वरूपस्य? शक्तिवैकल्यात् । तथाहि, यद्यत्रीशक्तं न तत्तस्यप्रकाशकं, यथा चक्षू रसादेरशक्तं च सकलमपि संवेदनं स्वप्रकाशे इति तद्वैकल्यमिति चेत् । अस्यानुमानस्यापि यदि तद्वैकल्यं, अनुमानान्तरात्तस्यापि तदन्तरात्तद्वैकल्यं प्रतिपत्तव्यमिति कथमनवस्थितिर्नभवेत् ? अभिरुच्यभावात्, यावदभिरुचिस्तावदेव भवत्यनुमानस्य प्रबंधस्तदभावे त्ववस्थितिरेवति चेन्न, तर्हि कुतश्चिदपि सकलस्य संवेदनस्य प्रकाशवैकल्यप्रतिपत्तिरिति-कथं तत्र परोक्षत्ववचनं? ततः सकलस्यापि संवेदनस्य स्वप्रकाशवैकल्यमनुमानादेवजिगमिषता स्वप्रकाशकमेव तदभ्युपगन्तव्यम् । तद्वदर्थज्ञानमपि । तस्याप्यनुमानवदन्तोरूपतया परिस्फुटस्यावलोकनात् । तच्छक्तरापि तत एवाध्यवसायात् । सत्यपि परोक्षत्वे कुतस्तस्य प्रतिपत्तिः अन्यथा तदभ्यनुज्ञानानुपपत्तेः ।
अर्थप्रकाशादेवं तस्य तदन्यथानुपपन्नतया निर्णयादिति चेन्नतत्प्रकाशस्य ज्ञानधर्मत्वे ज्ञानवत्परोक्षस्यैव भावात, तत्र च तदन्यथानुपत्तेनिर्णयः परिज्ञात एव तदुपपत्तेः । परिज्ञात एवायं स्वत इति चेत्, न तर्हि परोक्षत्वं ज्ञानस्य । तद्धर्मस्यार्थप्रकाशस्य स्वप्रकाशत्वे तदव्यतिरेकिणो ज्ञानस्यापि तदुपपत्तेः । अन्यतस्तस्य परिज्ञानमिति चेत् किं पुनरत्र तदन्यत् प्रत्यक्षमिति चेन्न तस्येन्द्रियसंप्रयोगादुत्पत्तेः ज्ञानधर्मे चार्थप्रकाशे तदभावात् कथं
१ जैनः पृच्छति ।२ मीमांसको वदति । ३ ज्ञानं न स्वप्रकाशकं तत्र तस्याशक्तत्वात् । ४ आकांक्षाभावात् । ५ जैन आह । ६ अनुमानात् । ७ ज्ञातुमिच्छता मीमांसकेन । ८ अंतर्मुखरूपतया । ९ तत्प्रतिपत्तिरिति शेषः । १. जैन आह । ११ निश्चिते वस्तुनि । १२ स्वतः परतो वा इति शंकायां स्वत इति चेत् । १३ जन आह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org