________________
१२
प्रमाणनिर्णये
तत्र प्रत्यक्षत्वं सत्यपि तस्मिंस्तत्प्रकाशवत्तद्धर्मिणो ज्ञानस्यापि तत एव प्रतिपत्तेर्व्यर्थमनुमानं भवेत् । तन ज्ञानधर्मस्तप्रकाशः। भवत्वर्थस्यैव सधर्म इति चेत्, न, तस्यापि स्वतः प्रतिपत्तिरर्थस्याचेतनत्वेन तदनुपपत्तेः। चेतनत्वे तु विज्ञानस्यैवावस्थितेः । न बहिरर्थो नामेति तन्निबन्धनः कश्चिदपि क्रियाविधिः स्यात् । परतः प्रतिपत्तावपि तस्मादात्मज्ञानस्यैव कुतोऽनुमानं, न परज्ञानस्य ततोऽपि तत्प्रकाशसंभवात् । तस्याप्रत्यक्षत्वेन तत्कृतस्य तत्प्रकाशस्याशक्यप्रतिपत्तिकत्वादिति चेन्न, आत्मज्ञानस्याप्यप्रत्यक्षत्वाविशेषात् । तन्नार्थधर्मस्यापि तस्य कुतश्चित्सिद्धिः, नचासिद्धस्यान्यथानुपपत्तिनिर्णयो यतस्तदनुमानमर्थज्ञानस्य,तदुक्तम् । “अन्यथानुपपन्नत्वमसिद्धस्य न सिद्धयतीति' ततोऽर्थस्य प्रत्यक्षत्वमन्विच्छता प्रत्यक्षमेतज्ज्ञानमभ्युपगन्तव्यम् । अनुभवस्यापि तथैव भावात् । नचैवं स्वपरविषयतया मरीचिकातोयादिवेदनस्यापि प्रामाण्यप्रसङ्गः । समीचं एव तदुपगमात् । न च तद्वेदनस्य सम्यक्त्वं बाधवत्त्वात् । न समानविषयेण बाधस्ततः संवादेन सम्यक्त्वस्यैवोपपत्तेः। नाऽपि विसदृशविषयेण नीलज्ञानेन पीतज्ञानेन पीतज्ञानस्य तत्प्रसंगात्। बाधोऽपि न स्वरूपापहार उत्पत्तिसमये तद्भावे तस्यानुत्पत्तिप्रसंगात् । अन्यदा च स्वयमेव नाशात् । नापि विषयापहारस्तस्य नराधिपधर्मत्वेन ज्ञानेष्वसंभवात् । नच फलापहारः फलस्यापि विषयपरिच्छेदप्रवृत्त्याद
१प्रवर्तत इति शेषः । २ प्रत्यक्षे। ३ अर्थप्रकाशधर्मिणः । ४ मयि ज्ञानमस्ति अर्थप्रकाशाद्यन्यथानुपपत्तेः । ५ क्रियाविधेः । ६ स्वकीयस्य । ७ परकीयस्य । .८ उक्कप्रकारेण ज्ञानस्य स्वप्रकाशकत्वे सति । ९ ता-षष्ठी-सत्यस्येत्यर्थः । १. प्रभाकर आह । ११ उत्पत्तिसमयेऽन्यदा घा। १२ बाधमंतरेण प्रथमज्ञानस्य ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org