SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परोक्षप्रमाणस्य निर्णयः । ५५ भ्येत । न चैवं सति तस्मिन् तत्राऽप्यतिशयतारतम्यस्यैव प्रतिपत्तेस्ततोऽतिशयपर्यंतगतज्ञानस्यापि संभवत्येव वक्तृत्वं । न संभवति तस्य वीतरागत्वेन रागविशेषात्मनो विवक्षाया अभावात्त निबंधनत्वाच्च वक्तृत्वस्येति चेत् न, तदभावेऽपि गोत्रस्खनादौ तस्य प्रतिपत्तेः । न हि तत्र यद्विषयं वचनं तद्विवक्षा विद्यते । विवक्षान्तरस्य सतोऽपि हि न तद्धेतुत्वमतिप्रसंगात् । विवक्षापूर्वकत्वे च वक्तृत्वस्यानभ्यस्तस्यापि शास्त्रार्थस्य कश्चिइक्ता भवेत् तद्विवक्षायास्तत्राऽपि संभवान्नचैवं व्याख्यातृसेवावैफल्यप्रसंगात् । अभ्याससाहाय्ये भवत्येवेति चेन्न, सत्यभ्यासपाटवे निर्विवक्षस्यैव स्वापादौ तदर्थप्रतिपादित्वस्य प्रतिपत्तेः । तन्न विवक्षावैकल्येन वीतरागस्य वक्तृत्वासंभवकल्पनमुपपन्नम् । उपपन्नमेव वैयर्थ्यात्, न हि वीतरागस्य तेन कश्चिदर्थइति चेत् न, स्वार्थस्याभावेऽपि परार्थस्य भावात् । तादृशस्य कथं परार्थेऽपि प्रवृत्तिरिति चेत्, भानोः पद्मविकासने कर्थे ? तथास्वभावेनेति चेत्, समानमिदमन्यत्राऽपि । ततो युक्तं सर्वज्ञादेरपि वक्तृत्वं । एवं पुरुषत्वादिकमपि तस्यापि क्वचितं सकलज्ञत्वादिनी जैमिन्यादौ वेदार्थज्ञत्वेनेव विरोधाभावात् । सर्वज्ञादेरविद्यमानत्वान्न तत्र वक्तृत्वादिकमित्यपि नें युक्तमन्येतैस्तदविद्यमानत्वस्य प्रतिपत्तावस्य वैफल्यादनेनाऽपि तदभावस्यैव किंचिज्ज्ञत्वाद्युपनयनेनोपस्थापनादतें एव तत्प्रतिपत्तावन्योन्याश्रय १ नुः । २ वक्तृत्वमिति शेषः । ३ घटादिकारणस्य मृदादेः पटादिकारणत्वप्रसंगात् । ४ पुंसः। ५ वक्तव्वा संभवकल्पनं । ६ प्रयोजनं । ७ प्रवृत्तिरिति शेषः । ८ तथा स्वभावेनेतीदं । ९ पुंसि। १० साकमिति शेषः। ११ परवादी वक्ति । १२ जैनो वदति । अतः " वेति विकल्पद्वयं । प्रमाणांतरात् वक्तृत्वादिकात् । ८८ > 66 १३ अन्यतः १४ आनयनेन । १५ द्वितीयविकल्पः ॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003100
Book TitlePramana Nirnaya
Original Sutra AuthorN/A
AuthorRajsuri, Indralal Shastri, Khubchand Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy