________________
२४ rexmmmmmmmm
प्रमाणनिर्णये
चेन्न । तस्य बहिरेव दर्शनान संवेदने, तस्यांन्तरतंद्रूपस्यैवोपलंभात् । प्रतिपादितश्च तस्य संवेदनवहिर्भावः पुरस्तात् । कुतो न वा नीलसंवेदनं नीलेनेव पीतादिनाऽपि संरूपं ? तस्यैव तत्कारणत्वादिति चेत्, किं न चक्षुरादिनापि तस्यापि तद्धेतुत्वाविशेषात् । नीलानुकरण एव तस्य शक्तिरिति चेत्, व्यर्थमिदानीं तत्र तत्सारूप्यं, शक्तित एव नियमवत्या विषयनियमोपपत्तेः । एवं हि पारंपर्यपरिश्रमः परिहृतो भवति, शक्तिनियमात्सारूप्यनियमस्ततोऽपि विषयनियम इति । सत्यपि सारूप्ये किंवा तन्नीलं यन्नीलस्येत्युक्तं । न संवेदनगतं, तत्र भेदाभावेन व्यतिरेकविभक्तरनुपपत्तेः । बहिर्गतमिति चेत्, तत्रापि कुतः संवेदनं ? तस्य तद्विषयत्वादिति चेत्तदपि कुतः ? साक्षादेव तेन तस्य ग्रहणादिति चेन्न, बहिरन्तारूपतया नीलद्वयस्याप्रतिवेदनात् । तत्सरूपत्वात्तद्विषयत्वं न साक्षादिति चेन्न, तथा तदप्रतिपत्तौ तत्सरूपत्वस्यैव दुख बोधत्वात् । द्वयोर्हि प्रतिपत्तौ भवति तद्गतस्य सारूप्यस्य प्रतिपत्ति प्रतिपत्तौ, “ द्विष्ठसारूप्यसंवित्तिकरूपप्रवेदनात्, द्वयोः स्वरूपग्रहणे सति सारूप्यवेदनम्" इति न्यायात् । ततो युक्तं शक्तिनियमादेव विषयनियमः संवेदनस्यति । तदाकारत्वेन तु तस्य तनियमे केशमशकादौ कुतस्तत्संवेदनस्य नियमः । नहि तत्र तदाकारत्वं, केशमशकादेरसद्रूपतया तदर्पकत्वानुपपत्तेः । अतः सकलस्याप्यसतस्तद्विषयत्वेन भवितव्यम् । अतदाकारतया विवक्षितवदितरनिरवशेषाविद्यमानापेक्षयापि तस्याविशेषात् । न वा कस्यचिदपीत्यप्रतिवे
१ मध्ये इत्यर्थः । २ अनीलरूपस्य । ३ समानरूपं । ४ शक्तिप्रतिपादनसमये॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org