________________
प्रत्यक्षनिर्णयः ।
१९
सिद्धत्वेन रूपादीनामित्यादे है तोराश्रयासिद्धदोषात् । व्यभिचारी चायं हेतुः - स्वच्छजलेन तस्य तद्न्तर्गतरूपमात्र प्रकाशत्वेऽपि तैजसत्वाभावान्न तैजसत्वाद्रश्मिवत्वं चक्षुषः । अरश्मिवता कुतो न तेन व्यवहितस्यापि ग्रहणमप्राप्तेरविशेषात् ? रश्मिवतापि कुतो न स्वसन्निकृष्टस्यांजनादेरंजनशलाकादेः प्रदीपादिनेव ग्रहणं प्राप्तेरभेदात् ? तथा स्वाभाव्यात्, इति समानमन्यत्रापि समाधानम् । ततो गोलकमेव केवलं चक्षुर्नच तस्य विषयसंनिकर्ष । इति सिद्धम् विनापि तेन तद्विषयस्य साक्षात्करणं । तथा सुखादेरपि । तद्वेदन मपि संनिकर्षजमेव वेदनत्वात् घटादिवेदनवत् । सन्निकर्षोऽपि तत्र संयुक्तसमवायो मनःसंयुक्ते आत्मनि सुखादेः समवायादिति चेन्न । दृष्टान्तस्य साध्यवैकल्यात्तत्र सन्निकर्षाभावस्य निरूपितत्वात् ।
अपि च यदि तद्वेदनादनर्थान्तरं सुखादिर्न तर्हि तेन मनसः संनिकर्षः, ततः पूर्वं तस्यैवाभावात् । वेदनसमये भावेऽपि व्यर्थस्तत्संनिकर्षस्तस्य वेदनार्थत्वात् । तस्य च ततः प्रागेवोत्पत्तेः । अर्थान्तरमेव ततः सुखादिरतः प्रागपि तस्य भाव इति चेत्, स यद्यनुभवरहितस्यैव सकलतत्पूर्वसमयेऽपि भाव, इति न चन्दनदहनादेस्तस्योत्पत्तिः शक्यांवक्लृप्तिः । अनुभवसहितस्यैवेति चेन्न तर्हि तस्मादिन्द्रियसंनिकृष्टादुत्पत्तिस्तद्वेदनस्य समसमयभावित्वात् । अनुभवविरुद्धं च सुखादेस्तद्वेदनादर्थान्तरत्वं स्वसंवेदनरूपस्यैव तस्यानुभवात् । कथं तर्हि तद्वेदनस्य प्रामाण्य
१ यौगो वदति । २ सिद्धान्ती प्राह ॥ ३ प्रदीपाय कज्जलरेखादेः । ४ यथा घटादौ प्राप्तिस्तथांऽजनादावपीति प्राप्त्यभेदः । ५ उत्पादकत्वात् । ६ द्वंद्वसमासः कार्यः, चंदनात्सुखस्य दहनात् अमेः दुःखस्य ।
७ शक्या कल्पना
८ अन्यः प्राह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org