________________
.२०
प्रमाणनिर्णये
मात्मवेदनमात्रस्य तदनभ्युपगमात् । “ अर्थात्मवेदनं न्यायं प्राहु " रित्युक्तत्वादिति चेन्न । अनुग्रहपीडादिरूपेण तस्य तद्वेदनात्कथंचिदर्थान्तरस्यापि भावाँदैकान्तिकस्यैव ततस्तद्भेदस्य तथा तदनुभवाभावेन प्रत्याख्यानादित्युपपन्नमव्यापकत्वं संनिकर्षस्य । तदभावे घटादौ सुखादौ च प्रत्यक्षस्योक्तयोपपत्त्या व्यवस्थापनात् । यदि च संनिकर्षस्य प्रत्यक्षत्वं तर्हि चक्षुषा रूपवद्रसादेरपि ग्रहणप्रसंगस्तस्य तत्रवेतरत्रापि संयुक्तसमवायेन संनिकर्षात् , तद्विशेषस्याभावात् । नो चेत्तस्यैव तर्हि प्रत्यक्षत्वं, सति तस्मिन्विषयसंवित्तेनियमात् । न संनिकर्षस्य विपर्ययादित्यनुपपन्नं तल्लक्षणत्वं प्रत्यक्षस्य ।
यत्पुनर्मीमांसकस्य मतं " इन्द्रियविषयसंप्रयोगादुत्पन्नं ज्ञानं प्रत्यक्षं" इति, तदपि न युक्तम्। संप्रयोगस्य संनिकर्षार्थत्वे नैयायिकवद्दोषात् । यदि चेन्द्रियसन्निकर्षात्तदवच्छिन्न एवात्मप्रदेशे ज्ञानं; तर्हि तदपेक्षया पर्वतादेः प्रत्यासन्नत्वात्तत्र किमपेक्ष्य दूरादिप्रतिपत्तिः । गोलकाधिष्ठानं शरीरमपेक्ष्यति चेन्न, तस्याँसन्नि कृष्टतया तज्ज्ञानेनाग्रहणात् । नचागृहीते तस्मिस्ततोऽयमतिदूर इति भवति प्रतीतिः।अरन्तरेणापि संनिकर्ष तस्य ग्रहणे पर्वतादेरपि स्यादिति न युक्तं तत्र तत्कल्पनं । गोलकाधिष्ठान एवात्मप्रदेशे ततस्तंज्ज्ञानमिति चेत्कथमिन्द्रियाग्रवर्तिनस्तस्मात्तन्मूलगते तत्र विषयज्ञानमिन्द्रियान्तरेष्वेवमदर्शनात् । तत्रादृष्टस्यापि चक्षुषि
१ जनैः । २ प्रमाणम् । ३ एकांतेन नियमेन भवः तस्यैकांतिकस्य ॥ ४ इन्द्रियाणामर्थे व्यापारः, तत्प्रगुणतयाऽवस्थानं,कार्याऽवसेया शक्तिर्वा संप्रयोगः ५आत्मनः सर्वगतत्वात् । ६ संनिकर्षाभावेन । ७ सनिकर्षज्ञानेन । ८ विनेत्यर्थः । ९ विषयज्ञानं। १० अर्थज्ञानं । ११ अनुपलब्धेः । १२ अनुपलब्धस्यापि विषयज्ञानस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org