________________
प्रमाणनिर्णये
प्राप्तिलक्षणस्य तत्राभावात्, सोऽपि प्राप्तिकाले तस्यासंनिपातादिति चेत्, प्रत्यक्षस्यापि कथं ? तद्विषयस्यापि तत्काले संनिपा'ताभावात् । भावे स्मरणविषयस्यापि स्यात् । निक्षेपादेस्तद्विषयस्यापि प्राप्तिप्रतीतेः। ततो युक्तमविसंवादात्तस्य प्रामाण्यम् । तथा प्रत्यभिज्ञानस्य, तस्यापि पूर्वापरप्रत्ययाप्रतीतांभेदसादृश्यादिविषयत्वेनापूर्वार्थत्वादविसंवादाच्च । प्रत्यभिज्ञानमेव नास्ति, सोऽयमित्ययमिव स इत्यादौ स इत्ययमित्यनयोः स्मरणप्रत्यक्षाकारतयाभिन्नप्रतिभासत्वेन परस्परतोऽर्थातरत्वादन्यस्य च तदाका-. रस्याप्रतिवेदनात् कथं तत्र प्रामाण्यपरिचिंतनम्, इति चेन्न तर्हि ‘स इति स्मरणमपि, सकारानुविद्धादकारानुविद्धस्य संवेदनस्यान्यत्वात् । अन्यथा तदुभयानुविद्धतया प्रतिभासभेदस्याभावप्रसंगादक्षणिकत्वांपत्तेश्च। एवमयमित्यत्राऽपि प्रतिपत्तव्यं । तथा च कुतो वस्तुप्रतिपत्तिरयमिति प्रत्यक्षस्याव्यवस्थितौ तत्पूर्वकत्वेनानुमानस्याप्यसंभवात् । अथाऽयमित्यकारादिवर्णभेदेऽपि तदनुविद्धमेकमेव संवेदनं तथैव तस्य निर्बाधमनुभवात्, तर्हि सिद्धः स एवाऽयमित्यादिरपि प्रत्यय एक एव तथा तस्यापि निर्वाधावबोधगोचरत्वात् । अन्यथा समारोपस्यापि तद्रूपस्याभावान्न तव्यवच्छेदार्थमनुमानमात्मदर्शनस्य तल्लक्षणस्याभावान्न तन्निबंधनः संसारोऽपीति न तत्प्रहाणाय मुमुक्षूणां चेष्टितमुपपद्यते । भवतु स एवायमिति ज्ञानं प्रत्यभिज्ञानमयमिव स इत्यस्माद्विसदृशः स इति तु ज्ञानं न प्रत्यभिज्ञानं तस्योपमानत्वादिति चेत्, तर्हि
१ एकत्वप्रत्यभिज्ञानस्य । २ सादृश्यप्रत्यभिज्ञानस्य । ३ बौद्धो वदति । सोऽयमित्याकारवेदनस्य । ५ क्रमोच्चारितानेकवर्णानुविद्धतया भिन्नप्रतिभासात्मनो ज्ञानस्यैकत्वाभ्युपगमे तस्यैकस्यानेकाक्षरव्यापित्वस्यावश्यंभावादक्षणिकत्वापत्तिरित्यर्थः। ६ प्रत्यक्षेऽपि । ७ मीमांसकः प्राह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org