________________
२२
प्रमाणनिर्णये
तत्स्वाभाव्यादिति चेतनात्मैव बुद्धिः। न चैवं तत्र विषयाकारकल्पनमुपपन्नं मूर्त्तत्वाभावात्, मूर्तेषु एव दर्पणादिषु मूर्तमुखाद्याकारस्योपलंभादिति न तदाकारस्य व्यवसायत्वेन प्रत्यक्षत्वकल्पनमुपपत्तिमत् । कुतो वा बुद्धरन्यस्य चेतनस्य भावे तत एव न विषयप्रतिपत्तिर्यतो बुद्धेस्तदर्थान्तरस्य कल्पनं । बुद्धिकरणकादेव ततस्तत्प्रतिपत्तिकरणकस्य तत्र तयापारस्यासंभवात्ततो बुद्धयध्यवसितं बुद्धिप्रतिसंक्रान्तमेव चेतनः प्रतिपद्यते, ततो युक्तमेव तत्कल्पनं साफल्यादिति चेन्न । बुद्धयप्रतिपत्तौ तत्प्रतिसंक्रान्तस्य विषयस्याशक्यप्रतिपत्तिकत्वाद्दर्पणाप्रतिपत्तौ तत्प्रतिसंक्रान्तमुखप्रतिपत्तेरप्रतिपत्तेः। तत्प्रातिपत्तिश्च यदि बुद्धयन्तरप्रतिसंक्रमद्वारेण, भवत्यनवस्थानं; तदन्तरस्यापि तदपरतप्रतिसंक्रमद्वारेणैव प्रतिपत्तेः। अतद्वारायांतु प्रतिपत्तौ विषयप्रतिपत्तेरपि बुद्धिप्रतिसंक्रमनिरपेक्षाया एवोपपत्तेः कथं न व्यथैव बुद्धिपरिकल्पना भवेत् । बुद्धेविषयप्रतिपत्तिवत् स्वप्रतिपत्तावपि स्वयमेव करणत्वादुपपन्नं तत्प्रतिपत्तेस्तदन्तरप्रतिसंक्रमनिरपेक्षणं । न चैवं विषयप्रतिपत्तेविषयस्य ग्राह्यतया कर्मत्वेन स्वप्रतिपत्तौ करणत्वानुपपत्तेरिति चेत् कथमिदानी बुद्धरपि तत्प्रतिपत्तौ करणस्य कर्मत्वं यतस्तद्गाह्यता भवेत्, कर्मणः करणत्ववत् करणस्यापि कर्मत्वानुपपत्तेः । बुद्धावुभयधर्मोपपत्तौ विषयेऽपि स्यादविशेषात् । विषयस्य स्वप्रतिपत्तिकरणत्वे सर्वोपि विषयः सर्वस्य प्रतिपन्न एव भवेत्तत्प्रतिपत्तिकरणभावस्य सर्वत्र तत्र भावादिति चेन्न, बुद्धावप्येवं प्रसंगात् ।
१ सांख्यो वक्ति २ बुद्धिव्यापारस्य । ३ बुद्धिप्रतिबिंबितमेव विषयं । ४ जानाति ।। ५ प्रतीता अप्रतीता वेति विकल्पद्वयं कल्पयन्नाह । ६ कर्मत्वकरणत्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org