________________
६८
तस्मिन् प्रत्यक्षविरुद्धपक्षतयानुपपत्तेः । तन्न परमवीतरागतया निर्व्यभिचार हेतुबलावधारिते भगवति वचनप्रलंभः संभवति ।
कथमेवं तादृशस्य वचनमपि स्वार्थाभावादिति चेत् न, परार्थतयैव तद्भावात् । तयापि तन्न परानुग्रहाभिसंधेस्तत्र तद्भावात्, अपि तु सुकृतविशेषोपनिपातात्, स्वभावविशेषादेव, भानुमतोनलिनविकासवत्, उदन्वदंभोविवर्द्धनवच्च तुहिनद्युतेः ॥
प्रमाणनिर्णये
कथं तर्हि प्रत्यर्थनियतत्वं तद्वचनस्य सकलदर्शनोपजनिते तत्र सकलार्थताया एवोपपत्तेर्नियतविषयाभिसंधेश्च नयरूपतया तत्रासंभवादिति चेत् न, प्रश्नविषयं एव प्रत्यर्थनियतानेकस्वभा वाधिकरणादपि तद्दर्शनात्तदुपपतेः । प्रश्नस्य च सकलविषयस्य युगपत्प्रश्नकारिण्यसंभवात् संभवे च भवत्येव तद्वचनात् कुतश्चिदप्यंतरंगमल विश्लेष विजृंभितप्रज्ञापाटवस्य गणधरदेवादेः सकलविषयप्रतिपत्तिः । अद्यापि कस्यचिद्बोधातिशयविशेषवतः सूत्रादेव तद्वृत्तिर्वात्तिकादिविवरणीय तदर्थ विस्तारपरिज्ञानस्योपलंभात् ।
कः पुनः प्रवचनस्याप्तोपज्ञत्वेन गुणो यतः प्रामाण्यमिति चेत्, प्रमाणांतराविरोधलक्षणोऽविसंवाद एवं न ह्यसौ तत्र शब्दस्यैव सामर्थ्येन स्वतस्तस्योपाध्याय सेवावैफल्यप्रसंगेना प्रत्यायकत्वावं, नाऽपि पुरुषमात्रस्य वचनमात्रेऽपि तत्प्रसंगात् । अस्ति प्रवचने ततस्तदर्थस्य कथंचित्प्रत्यक्षेणापरस्यानुमानेनात्यंतपरोक्षस्य च तदेकदेशैरविरुद्धतयैवं प्रतिपत्तेः । के पुनस्तेऽर्था ये तथा ते प्रतिपत्तव्या इति चेत् । भावेष्वनेकांतः परिणामो
1
।
१ हेत्वर्थे तृतीया २ सतीति शेषः ३ स्वस्य प्रयोजनाभावात् ४ मोहात् ५ चंद्रात् ६ अर्थे इति शेषः ७ व्याक्रियमाण ८ अवाधस्वरूपः ९ अनिश्चायकत्वात् १० कस्य तदर्थस्य प्रत्यक्षेणाविरुद्धतया ततः प्रतिपत्तिरिति संबंधः एवमनुमानादावषि योज्यं ११ पूर्वापराविरुद्धतया तथैवोक्तं श्रीमदाशाधरदेवै " दृष्टोऽर्थोऽध्यक्षतो वाक्यमनुमेयेऽनुमानतः । पूर्वापराबिरोधेन परोक्षे च प्रमाणते "
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org