________________
४०
प्रमाणनिर्णये
त्वेनोक्तं, ततोऽविनाभावविरहेऽपि तद्भावो न दोषाय तद्वादिन इति, तन्न । प्रत्येकं पक्षधर्मत्वाद्यभावेऽप्यविनाभावस्य निरूपितत्वात्तत्समुदायेन तदभावेऽपि संति प्रमाणानीष्टसाधनादित्यादौ तद्भावात्तन्न त्रैरूप्यं साधनलक्षणम् ।
नाऽपि पांचरूष्यं तत्राऽप्यविनाभावस्यानियमात् । पक्षधर्मत्वे सत्यन्वयव्यतिरेकावबाधितविषयत्वमसत्प्रतिपक्षत्वं च पांचरूप्यं । न चेह तन्नियमः, प्रकृते हेतौ तदभावेऽपि तद्भावात, तत्पुत्रादौ तद्भावे तदभावादस्ति हि तत्पुत्रत्वस्य पक्षधर्मत्वमन्वयव्यतिरेकावबाधितविषयत्वमपि सः श्याम इति पक्षस्य प्रत्यक्षादिना बाधानुपलब्धेरसत्प्रतिपक्षत्वमपि श्यामत्वविपर्ययसाध' नस्य प्रत्यनुमानस्याप्रतिपत्तेः। तन्न त्रैरूप्यादिकं लक्षणं लिंगस्य साध्याविनाभावनियमस्यैव तत्वोपपत्तेः । सति तन्निर्णये त्रैरूप्यादिभाववत्तदभावेऽपि साध्यप्रतिपत्तेरावश्यकात् । एवमापि स्वभावकार्यानुपलब्धिभेदेन त्रिविधमेव लिंगं । अविनाभावस्य तत्रैव नियमादिति चेत्, न।रसादे रूपादावतत्स्वभावादेरपि गमकत्वप्रतिपत्तेः । न हि रसादे रूपादिस्वभावत्वं भेदेन प्रतिपत्तेः । नाऽपि तत्कार्यत्वं समसमयत्वात् । तत्कारणकार्यत्वादस्त्येव तस्य तत्कार्यत्वं पारंपर्येणेति चेन्न, इन्धनविकारस्यापि पावकजन्मन एवं धूमकार्यत्वेन तलिंगत्वापत्तेः । न चैवं धूमादिभावेन तत्सं
. १“ तस्य तु तत्रैव भावा" दित्यनेनाविनाभावस्य व्याप्यत्वं पक्षधर्मत्वादिकस्य व्यापकत्वं चाभिहितं यतः । २ सौगतस्य । ३ सपक्षे सत्वं विपक्षाद् व्यावृत्तिःश्च । ४ त्रैरुप्यादिभावे सति यथा साध्यप्रतिपत्तिः । ५ बौद्धः प्रत्यवतिष्ठते, अविनाभाव नियमस्य. लिंगलक्षणत्वेऽपि । ६ उत्तररूपलक्षणकारणभतप्राक्तनरूपलक्षणकार्यवात् । ७ भस्मादेरिति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org