________________
२८
प्रमाणनिर्णये
मात्रात्तेदभावेऽपि क्वचिदुत्पत्तेः, कदाचित्तद्भावेऽप्यनुत्पत्तेः । तादृशं च तदात्मनि कारणान्तरस्य प्राधान्यमावेदयति । तच्च यथोक्तशक्तिविशेष एवेत्युपपन्नमिंद्रियादिप्रत्यक्षस्य तत्प्रभवत्वमिति ।
कुतः पुनस्तदुभयस्यापि मुख्यमेव प्रत्यक्षत्वं न भवतीति चेत्, वैशद्यसाकल्यस्य तन्निबंधनस्य तत्राभावात् । व्यावहारिकत्वं तु तत्र तस्य वैशये लेशोपाश्रयेण लोकस्य प्रत्यक्षव्यवहारप्रसि द्धः। तत्पुनरुभयमपि प्रत्यक्षं प्रत्येकमवग्रहेहाऽऽवायधारणाविक ल्पाच्चतुर्विधं । तत्र विषयविषयिर्सन्निपातानंतरभाविसत्तालोचनपुरःसरो मनुष्यत्वाद्यवांतरसामान्याध्यवसायिप्रत्ययोऽवग्रहः । तदवगृहीतविशेषस्य देवदत्तेन भवितव्यमिति भवितव्यतामुल्लिखंती प्रतीतिरीहा। तद्विषयस्य देवदत्त एवायमित्यवधारणावानध्यवसायोऽवायःतस्यैव कालांतरस्मरणयोग्यतया ग्रहणं धारणा। तदेतेषामवग्रहादिविकल्पानां पूर्वपूर्वस्य प्रमाणत्वमुत्तरोत्तरस्य च तत्फलत्वं प्रतिपत्तव्यम् । स्वार्थव्यवसायस्याव्युत्पत्त्यादिव्यव च्छेदात्मनस्तद्गतस्यापि कथंचित्पूर्वपूर्वस्मादुत्पत्तेः विषयभेदनिबंधनश्चावग्रहादीनामस्ति संख्याविकल्पः सोन्यत्र प्रतिपत्तव्य । इति व्याख्यातं व्यवहारिकमिंद्रियप्रत्यक्षमनिद्रियप्रत्यक्षं च ।
अधुना मुख्यप्रत्यक्षस्वरूपप्रतिपादनायाह । मुख्यं तु प्रत्यक्षमतींद्रियप्रत्यक्षं । तद् द्विविधं, सकलं विकलं चेति । विकलमपि द्विविधमवधिर्मनःपर्ययश्चेति । तत्रावधिर्ना
१ द्रव्येद्रियामावेपि । २ सत्यस्वप्नादौ । ३ अन्यवस्तुगतचित्तकाले। ४ द्रव्येंद्रियभावाभावाभ्यामुत्पत्यनुत्पत्तिविकलं । ५ इंद्रियानिद्रियप्रत्यक्षभेदात् । ६ योग्यदेशावस्थान । ७ दर्शन । ८ अवायविषयस्यैव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org