________________
प्रत्यक्षनिर्णयः।
२७
अधुना अनिद्रियप्रत्यक्षस्वरूपकथनार्थमाह । किं पुनरनिद्रियप्रत्यक्षमिति चेत्,सुखादेः स्मरणादिज्ञानस्य च स्वरूपवेदनमेवं तत्र स्पष्टावभासितया प्रत्यक्षव्यपदेशोपपत्तेः । अनिद्रियं चेह न पौद्गलिकं मनः प्रतिपत्तव्यं, तदायत्तजन्मत्वे सुखादिस्मरणादीनां काकादिष्वमनस्केषु तदभावानुषंगात् । न च तत्र न संत्येव तानि, स्मरणप्रत्यभिज्ञानादिनिबंधनतया स्वदेहोपलब्धस्य प्रवृत्त्यादेस्तत्रापि प्रतिपत्तेरतः क्षयोपशमवि. शेषालिंगितः कश्चिदात्मप्रदेश एवानिद्रियं, तत्प्राधान्येन सुखाद्युत्पत्तेः काकादिष्वप्युपपत्तेरत एव गुरुभिरनंतवीर्यदेवैरैपि तस्यैवानिद्रियत्वमभ्यनुज्ञातम् ।
किं पुनरेवं द्रव्यमनसः परिकल्पनेनेति चेत्, द्रव्येन्द्रियस्य चक्षुरादेरपि किं ? न किंचित् , अत एव तद्व्यापाराभावेऽपि सत्य स्वनादावन्तरंगाद्विशुद्धिविशेषादेव रूपादिदर्शनं । तदिद्रियस्य तु जाग्रदशाभाविनि तदर्शने तद्धेतोर्विशुद्धिविशेषस्य तदधिकरणजीवप्रदेशाधिष्ठानत्वेन निमित्तमात्रत्वादे कल्पनमत एव गवाक्षस्थानीयतां तत्र व्यावर्णयांत तत्त्ववेदिन इति चेत्, तंर्हि द्रव्यमनसोऽपि परिकल्पनं क्वचित्सकलेंद्रियस्य सुखादिवेदने तदवष्टब्धजीवप्रदेशाश्रयविशुद्धिविशेषनिबंधने निमित्ततयैव । न च निमित्तेन सर्वदा तत्कार्ये भवितव्यमिति नियमो गवाक्षादिना व्यभिचारात् । कुतः पुनः शक्तिविशेषस्य क्षयोपशमात्मनोऽवगमो यतस्तत्प्रभवत्वमिंद्रियादिप्रत्यक्षस्येति चेत्, तत एव प्रत्यक्षात् । न तावत्तदहेतुकं कादाचित्कत्वात् । नापि द्रव्येद्रिय
१ अष्टदलकमलाकारं । २ क्षयोपशमविशेषालिंगितात्मप्रदेशस्यानिदियत्वे । ३ पंचेंद्रियस्य । ४ जीवस्येति । ५ जीवस्येति । ६ विवक्षित इति शेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org