SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २६ प्रमाणनिर्णये मिदं वस्तुसद्विषयवेदनहेतार्दोषत्वमिति चक्षुरादेरपि तत्त्वापत्तेः। न चासावदोष एव तचिकित्सायामनर्थत्वप्रसंगात् । अलौ किकत्वं लोके तस्याविद्यमानत्वं, तदपि तत्प्रयोजनानिष्पादनादिति चेत्, असद्विषयैव तर्हि तत्प्रतीतिरिति स्पष्टमाभिधातव्यं, किमलौकिकार्थख्यातिरित्यभिधीयते।स्मृतिरेवेयं प्रागनुभूतस्यैव केशादेः काचादिमतोऽपि प्रतिवेदनानासतोऽतिप्रसंगादित्यपि कस्यचिद्वचनमसमीचीनमेव, स्मृतित्वे पुरोवर्तितया तस्याप्रतिवेदनप्रसंगात् । प्रमोषवशात्तथा तत्प्रतिवेदनमिति चेत्, कः पुनरयं प्रमोषो नाम ? स्वरूपात्प्रच्युतिरिति चेन्न तर्हि स्मृतिरिति कथं तया केशादेः प्रतिवेदनं । स्वरूपात्प्रच्युताप्यस्ति स्मृतियदि मते तव । सुप्तो न किं प्रबुद्धोऽस्तु जीवितोऽस्तु मृतो न किंम् ।। अथ स्वविषयस्य पुरोवर्तितया ग्राहकत्वमेव कुतश्चित्तस्याः प्रमोषः । तन्न । पुरोभावस्यासत्वे ग्रहणानुपपत्तेः, अन्यथा केशादेरेवासतस्तत्संभवादसत्रख्यातिरेव संभवेन्न स्मृतिप्रमोषः । ततः स्थितं यथा स्वहेतुसामर्थ्यादेवासवभासिन इन्द्रियज्ञानस्य विषयनियमस्तथा सदवभासिनोऽपि । तन्न सारूप्यात्तत्कल्पनमुपपत्रं । इति निरूपितमिंद्रियप्रत्यक्षम् । १ वस्तुसद्विषयवेदनहेतुत्वाविशेषात् । २ गुणः । ३ तेन केशादिना प्रयोजनस्यार्थक्रियालक्षणस्यानिःपादनात् ४ किमर्थमित्यर्थः । ५ पुंसा ६ सुप्तश्चेत्प्रबुद्धस्तर्हि तस्य स्मरणेन भवितव्यं तच्च तस्य नास्तीति कथं तस्य तत्त्वमिति कस्यचित्प्रश्नस्यापि स्वरूपात्प्रच्युता स्मृतिरस्तीत्युत्तरं वाच्यं । एवमग्रस्थे चतुर्थांशेऽपि। ७अतद्देशत्वेनानुभूतस्य । ८ ग्रहणमेव ९ कारणादिति शेषः १० पुरोविद्यमानत्वस्य। ११ पुरोभावस्यासत्वऽपि तद्हणात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003100
Book TitlePramana Nirnaya
Original Sutra AuthorN/A
AuthorRajsuri, Indralal Shastri, Khubchand Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy