________________
प्रमाणलक्षणनिर्णयः ।
2
चक्षुरादिकात् ग्राहकाकार:, तथा तत्समानकालो ग्राह्याकारोपीति तत्राऽपि सभासमवायिनीं चक्षुरादेर्बहुत्वात् तज्जन्मनो विकसितकुवलयदलनीलच्छायानुवर्त्तिनो नर्त्तकीरूपस्यापि बहुत्वेन भवितव्यम् । नचैवं तद्पैकत्वे सर्वेषां तेषामेकवाक्यताप्रतिपत्तेः । व्यामोहादेव कुतश्चित्तत्र तेषामेकवाक्यत्वं; वस्तुतो नानैव तद्रूपमितिचेत् । कोशपानादेतत्प्रत्येतव्यं न प्रमाणतः । कुतश्चिदपि तदभावात् कुतश्चेदमवगतं ग्राह्याकारोऽपि चक्षुरादेरिति ग्राहकाकारवत् । तत्रापि तदन्वयव्यतिरेकानुविधानस्य भावादिति चेत्, कुतः पुनस्तद्भावस्यावगतिः ? न प्रत्यक्षात्, " न हि प्रत्यक्षसंवित्तिरन्वयव्यतिरेकयोरिति ” स्वयमेवाभिधानात् । नाप्यनुमानात्प्रत्यक्षाभावे तत्पूर्वकत्वेन तस्याप्यसंभवात् । तद्वासनामात्रजन्मनो विकल्पात्तदवगतौ वा अवास्तव एव तद्भाव इति न ततो नीलादेरपरोक्षतया चक्षुरादेरुत्पादः शक्यव्यवस्थापनः । ततो नीलादिव्यतिरिक्तवेदनविषयतयैवा परोक्षभावमनुभवन्नर्थ एवेत्युपपन्नं तद्विषयतया सम्यग्ज्ञानस्यार्थविषयत्वम् ।
भवतु तद्विषयत्वमेव तस्य न स्वविषयत्वं स्वात्मनि क्रियाविरोधात् छिदिक्रियावत्तथाहि । - विरुद्धा ज्ञानस्य स्वात्मनि प्रमितिः क्रियात्वात् खड्गात्मनि छिदिक्रियावत्; न हि खड्गः स्वात्मानं छिन्दन्नुपलभ्यत इति चेत्, न क्रियात्वमात्राच्छिदेः खङ्गात्मना विरोधोऽपि तु तदात्मनो भावरूपत्वात्; छिदेश्च प्रध्वंसविशेषत्वेन अभाव स्वभावत्वात् । भावाभावयोश्च परस्परपरिहारोपपत्तेः । नचैवं ज्ञानात्मतत्प्रमित्योर्भावेतर स्वरूपत्वं येन तयोरन्योन्यपरिहारेणावस्थानाद्विरोधपरिकल्पनमतो न विरोधादस्वप्रतिपत्तिकत्वं ज्ञानस्य शक्यव्यवस्थं कथं चास्वप्रमितिरूपत्वे १ ज्ञाने ज्ञायते । २ पुरुषाणामिति शेषः । ३ नैयायिको वदति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org