________________
प्रमाणनिर्णये
तस्य नियत एवार्थो गोचरो न सर्वोऽपीति, नियतस्यैव तस्य प्रति. भासनादिति चेत्कुत इदमवगन्तव्यम् ।
न तावत्तत एव स्वप्रतिपत्तिवैकल्यात्। न हि स्वप्रतिपत्तिविकलादेव ज्ञानात्तत्र नियतार्थप्रतिभासनमन्यद्वा शक्यावबोधं मा भूत्ततस्तदवबोधस्तद्विषयात्तु ज्ञानान्तराद्भवत्येवेति चेन्न, तस्यापि स्वप्रतिपत्तिवैकल्ये तत्रापि तद्विषयस्य ज्ञानस्य नियतार्थगोचरत्वमेव प्रतिभाति न निरवशेषवस्तुगोचरत्वमिति-तत एवावगन्तुमशक्यत्वात् । तस्यापि नियतविषयत्वमन्यतस्तद्विषयादेव ज्ञानादवगम्यत इति चेन्न, अनवस्थाप्रसंगात् । सत्येवमपरापरज्ञानपरिकल्पनस्यावश्यंभावात् । ततः सुदूरमपि गत्वा क्वचिनियतविषयत्वमध्यवसातुकामेन तद्विषयस्य ज्ञानस्य स्वप्रतिपत्तिरूपत्वमभ्युपगन्तव्यम् । अन्यथा ततस्तद्विषयविज्ञाननियतार्थगोचरत्वप्रतिपत्तेर्दुरुपपादकत्वात् । तथा च सिद्धमर्थज्ञानस्यापि तद्वत्स्वप्रतिपत्तिरूपत्वमाविशेषात् । __ यत्पुनरिदमनुमानं, "नात्मविषयमर्थज्ञानं वेद्यत्वात्कलशादिवदिति' तत्र न तावद्वेद्यत्वं नाम सामान्यं तस्य नित्यत्वेन सर्वदा भावेषु प्रसंगात सामान्यादिषु तदभावापत्तेश्च । न हि सामान्यादिषु सामान्यं द्रव्यादित्रय एव तदभ्युपगमात्सामान्यादिषु तदभावापत्तेश्च । अस्ति च तत्रापि वेद्यत्वं, अन्यथा व्योमकुसुमादिवत्तदभावापत्तेः, अतोन तत्सामान्यं । भवतु साधर्म्यमेव तद्वेदनविषयत्वस्य वेद्यत्वस्य चाभिधानात् । तस्य सर्वपदार्थसाधारणतया द्रव्यगुणकमस्विव सामान्यविशेषसमवायेवष्यविरोधात् । न तदभावापत्तिरितिचेत् किं पुनस्तद्वेदनं यद्विषयत्वं वेद्यत्वमर्थज्ञानस्योच्येत, तदे.
१ स्वस्मिन्निति शेषः । २ ज्ञाने।३ सर्वार्थप्रतिभासनं ।। प्रथमज्ञाने। ५द्वितीयस्य ६ दुर्घटत्वात्। ७ स्वप्रतिपत्तिरूपत्वे सति । ८ प्रथमज्ञानस्य । ९ पदार्थेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org