Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 54
________________ परोक्षप्रमाणस्य निर्णयः । रानुपपत्तेः । न च पिशाचस्यादृश्यत्वे तव्यतिरेकिणस्तद्रूप त्वस्य दृश्यत्वम् । आत्मनोऽदृश्यत्वेन तदभिन्नतयाऽदृश्यत्वमपि तस्येति चेत्, नेदानीमेकांततस्तदनुपलंभस्याभावं प्रति गमकत्वं, दृश्यादृश्यविषयतया संशयनिबंधनत्वात् । तन्न दृश्यविषयतयैव गमकत्वमनुपलंभस्याविनाभावनियमनिर्णये तदपरस्यापि तदु. पपत्तेः। कारणानुपलंभो यथा-न तत्र गृहे पाकसंभवः पावकानुपलब्धेरिति । कार्यस्यानुपलंभस्तु नाऽत्र शरीरे बुद्धिापारादिविशेषानुपलब्धेरिति । कार्यविकलस्यापि कारणस्य संभवान तद्वैकल्यात्तदभावप्रतिपत्तिरिति चेत्, कथमिदानी क्वचिन्मरणस्यावगमो यतस्तत्र दाहादिकमाचरेत्, प्रकारांतरेण तत्प्रतिपत्तेरभावात् । ततः सत्यविनाभावनिर्णये कार्यवैकल्यादुपपन्नैव कारणस्याभावप्रतिपत्तिः । न तत्र शिंशपा वृक्षानुपलब्धेरित व्यापकानुपलब्धिः।अस्याश्च तं प्रति प्रयोगो यस्य क्वचिद्वृक्षविकलेऽपि तत्सदृशाकारदर्शनेन शिंशपाबुद्धिः । कथं पुनः शिंशपाव्यापकत्वं वृक्षस्य ? लताशिंशपाया अपि लताचूतवत्संभावनादिति चेत्, कथमेवं कारणत्वमपि धूमादौ वह्नेः ? अवह्निकस्यापि तस्य गोपालकलशादौ दर्शनात् । अन्य एव स धूमादिर्वह्निहेतुकात्तत इति चेत् न, वृक्षव्याप्तायास्ततो लताशिंशपाया अपि संभवे ऽन्यत्वाविशेषात् । नास्त्यस्य तँत्वज्ञानं सम्यग्दर्शनाभावादिति सहचरानुपलब्धिः । व्यभिचारी हेतुरसम्यग्दृशोऽपिं रूपादौ तत्वज्ञानस्य भावादिति चेत् न, तेन रूपादेरित्थंभावनिर्णयाभावात् । १ पिशाचत्वमिति यावत् । २ अन्यः कश्चिद्वक्ति । ३ प्राणिनि । ४ मृते ५ व्यापारादिबिशेषानुपलब्धिं विहायाऽन्येन । ६ लताशिंशपा नास्त्येव यदिसंभवऽपि । ७ सम्यग्ज्ञानमिति यावत् । ८ पुस इति शेषः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86