Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 67
________________ प्रमाणनिर्णये रूढत्वान्मिथ्यैव तत्प्रतिपत्तिरिति चेत् नान्यथाप्रतिपत्तेरनध्यवसायाद्विचारतस्तदध्यवसायस्य चान्यत्र विरोधात् । अनुमानविरुद्धं यथा-न संति बहिरा इति साधनदूषण. प्रयोगादिना तत्सद्भावस्यावस्थापनात् । आगमविरुद्धं यथा-नास्ति सर्वज्ञ इति मीमांसकस्य । तत्र "हिरण्यगर्भ प्रकृत्य सर्वज्ञ" इत्यादौ तत्सद्भावस्य श्रवणात् । न तस्य तत्सद्भावावेदने तात्पर्यमर्थवादत्वेनं हिरण्यगर्भस्य सर्वज्ञतया स्तुतिविधावेवं तद्भावात् । अन्यथाऽऽदिमदर्थत्वेन तस्यानित्यत्वापत्तेरिति चेत्, कथं तत्रासता तेन स्तुतिः ? अध्यारोपितेन तेनेति चेत् न, आरोपणस्य मिथ्याज्ञानत्वेन वेदादसंभवादन्यथाविधिपरोऽपि तस्मिन् अनाश्वासापत्तेः । ततस्तदावेदन एव तात्पर्य तस्य । नचानित्यत्वे तस्य दोषो नित्यत्व एव तस्य वक्ष्यमाणत्वात् । स्ववचनविरुध्दं यथा-न वाचो वस्तुविषया इत्यस्य वस्तुविषयत्वस्य प्रतिज्ञानस्यं विरोधात्, अवस्तुविषयत्वे चानर्थकवचनतया निग्रहस्थानत्वापत्तेः। लोकविरुद्धं यथा-मिथ्यैव सर्वे प्रत्यया इति लोकस्य बहुलं जाग्रत्प्रत्ययेष्वमिथ्यात्वे एव विषयभावलक्षणेऽभिनिवेशात् । वासनादायादेवायं न वास्तवादमिथ्यात्वादिति चेत् न, तद्दायस्याप्य तत्प्रतीतिसम्यक्ताभिनिवेशोपनीतत्वेनावस्तुत्वापत्ती १ धर्मविपरीतसाधनोदाहरणनिरूपणावसरे । २ युणवादत्वेन, “ विरुद्ध गुणवादः स्यादनुवादावधारित" इति वचनात् , ३ स्तुतिरूपत्वेन । कर्मस्तुतिः, यजेत इत्यज्ञातज्ञापनरूपेऽज्ञातज्ञापको विधिरिति वचनात् । ४ आदिमान् सर्वज्ञाद्यर्थों यस्य स तथा। ५ कल्पितन । ६ आरोपणसंभवप्रकारेण । कार. णात् । ८ वचनस्येति शेषः। ९ प्रकृत इति शेषः। १० तत्प्रतीतिसम्यकाभिनेवेशः। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86