Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 66
________________ परोक्षप्रमाणस्य निर्णयः। शिष्टे विषये तस्य तद्विरुद्धत्वमिति चेत् न, तत्र कथंचिद्विरोधस्यापि भावात्तन्न तव्यभिचारिणोऽनैकांतिकत्वं विरुद्धत्वस्यैव भावात् । कथं वा तस्य तत्वं तद्वलादनित्यस्तद्विरुद्धबलान्नित्यो वा शब्द इति संशयादिति चेत्, केवलस्यापि स्यात्ततोऽपि तत्र तत्संभवात, कृतकत्वस्य निरन्वयविनाशवत् कौटस्थ्येऽपि काल्पनिकस्य भावात्, तात्विकस्यानेकांतनांतरीयकतयोभयत्राप्यसंभवात् । ततोऽनेकांतन्यायवेदिनां विरुद्ध एव विरुद्धाव्यभिचारी, तदन्येषां तु तद्वत्केवला अपि कृतकत्वादयः संशयहेतव एवानेकांतरूपप्रक्रियापरिच्युतानां तेषां साध्यवदितरत्रापि संभवात् । तदुक्तम् ---" विरुद्धाव्यभिचारी स्यात् विरुद्धो विदुषां मतः। प्रक्रियाव्यतिरेकेण सर्वे संभोहहेतवः॥” इत्यन्यपि हेत्वाभासाः प्रतिपत्तव्याः। किं पुनः साध्यं यदविनाभावो हेतुलक्षणमित्युच्यते । " साध्यं शक्यमभिप्रेतमप्रसिद्धमिति” । न हि प्रसिद्धस्य साध्यत्वं पुनः पुनस्तत्प्रसंगेनानवस्थापत्तेः । नाप्यनभिप्रेतस्य साध्यं प्रत्यभिमुखचित्तस्येव लिंगतस्तत्प्रतिपत्तेः । नाप्यशक्यस्य तत्र हेतोरशक्तेः। ततोऽपरं साध्याभासं । तच्च प्रत्यक्षादिविरुद्धविकल्पनादनेकधा। तत्र प्रत्यक्षविरुद्धं यथा-प्रतिक्षणविशरारवो भावा इति, प्रत्यक्षतस्तत्र कथंचिदविशरणस्यापि प्रतिपत्तेः । लोकोपाध्या १ संदिग्धानेकांतिकत्वादिति भावः । २ केनचिद्वादिना प्रत्याभिज्ञायमानत्वादित्येतस्य प्रतिपक्षसाधनस्याप्रयुक्तत्वे सति केवलस्येत्यर्थः, विपक्षसाधकरहितस्यापि । ३ अबाधितं । ४ इष्टं । ५ प्रतिवाद्यपेक्षयाऽप्रसिद्धं । ६पुंसः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86