Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 65
________________ प्रमाणनिर्णये ऐव तत्रं सत्वादिमिविशेषविपरीतसाधनत्वात् । धर्मिविशेषो हि परस्यं निष्कलेः शब्दस्तद्विपरीतश्च स एव प्रवृत्तिरूपतया तु द्विरूपस्तं च साधयतः स्पष्टमेव संत्वादेस्तद्विपरीतसाधनत्वं । एवं पुरुषोऽस्ति भोक्तभावादिति । अस्यापि न हि पुरुषस्य भोग उपचारादप्रतिपन्ने तत्र तदनुपपत्तेरन्यतश्च तत्प्रतिपत्तावस्य वैफल्यात् । अत एव तत्प्रतिपत्तौ प्रतिपन्ने तत्र भोगोपचारस्ततश्च तस्य प्रतिपत्तिरिति परस्पराश्रयात्तात्विकोऽपि च तस्मान्न व्यतिरेकी, तेन तस्य गगनादेरिव भोकृत्वानुपपत्तेः, भोग्यसंनिधिसव्यपेक्षतया कादाचित्कत्वे तस्य तद्रूपतया पुरुषस्य कथंचिदनित्यत्वात्, सिद्धं तस्य साधयिषितकूटस्थपुरुषरूपधर्मिविशेषापेक्षया विपरीतत्वमित्युपपन्नं भोक्तृत्वस्य तत्साधनतया तद्विपरीतत्वसाधनमतो विरुद्धत्वम् । एवं विरुद्धाव्यभिचारिणो. ऽपि । तत्खल्विदमनित्यः शब्दः कृतकत्वात् घटवदिति । तदव्यभिचारित्वमस्य तत्रैव नित्यत्वसाधनस्य प्रत्यभिज्ञायमानत्वादेर्भा वात् । विरुद्धत्वं निरन्वयविनाशविपरीतस्य सान्वयविनाशस्यैव साधनात् । तदपि कथं नित्यत्वहेतुना प्रतिबंधादिति चेत् न, तद्विषयस्यापि नित्यत्वस्य सविनाशान्वयतद्विनाशादविशेषात्, कूटस्थे तस्मिनिरन्वयविनाशवदर्थक्रियाशक्तिवैकल्येन तद्व्याप्तस्य कस्याचिदपि हेतोरसंभवात् । कथमिदानीं अवि १ धर्मिविशेषविपरीतसाधनं दर्शयति। २ क्षणभंगसाध्ये। ३ साधनं। ४ सौगतस्य।५ निरंशः। ६ स्वपररूपाद्यपेक्षया । ७ साधनस्य । ८ उपचारात्परमार्थतो वा। ९ व्यतिरेकिणा तात्विकेन। १० उदाहरणं। ११ सर्वथा नित्ये । १२ विरुद्धत्वं नास्त्यनैकांतिकत्वं कुतस्तद्विपरीते वर्तमानत्वात् , प्रकृतसाध्यद्वयस्याविशेषप्रतिपादनकाले युष्मन्मतेऽपि कथं तयोरन्योन्यविरुद्धत्वमित्याशंकते परः, सान्वयविनाशसविनाशनित्यत्वाभ्यामिति शेषः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86