Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 78
________________ आगमनिर्णयः। ब्रह्मणैक्यमापन्न इति चेत् न, ब्रह्मणस्तदापि प्रागिव तद्भेदा. परित्यागे तदनुपपत्तेः । तत्परित्यागे चातादेवस्थ्येनानित्यत्वापत्त्या नित्यं ब्रह्मति प्रतिज्ञाव्यापत्तेः । प्रागपि तेनैक एव जीवः केवलमविद्यानिबंधन एव भेद इति चेत् न, तदभेदिनस्तस्य तद्वदेव सुविशुद्धज्ञानस्वभावतया तस्याप्यविद्यानुपपत्तेः । भवतु को दोष इति चेत् न, तत्र नित्यनिर्मुक्ततया मुक्त्यर्थस्यात्मदर्शनश्रवणमननादेराम्नायाभिरूढस्यानर्थक्यापत्तेः ! ! ! अस्तु तर्हि जीवस्तदानीं निरवशेषबुद्धयादिवैशेषिकगुणनिमुक्त इति चेत् न, तस्य बुद्धयादिस्वभावत्वेन तदभावे सत्यभावस्यैव प्रसंगात् । तद्रूपत्वं च तस्याऽहं बोद्धाऽहं द्रष्टति बुद्धयादिसमानाधिकरणतया प्रत्यवभासनादिति चेत्, समानाधिकरणतया प्रत्यवभासनस्य च द्रव्यत्वं सामान्यमित्यादावभेदनिबंधनस्यैव प्रतिपत्तेः । बुद्धयादेरात्मनस्तद्गुणत्वेन भेदान्मिथ्यैव तथा तत्प्रतिभासनमिति चेत्, कुतो भेदेऽपि स तस्यैव गुणो नाकाशादेरपि, समवायस्य तन्निबंधनस्य तत्रापि भावात् । स्वगतात् कुतश्चिद्विशेषादिति चेत्, सः कोऽपरोऽन्यत्र कथंचिदभेदात् ? इति न ज्ञानादिव्यतिरेकी जीवः संभवतीति। भवतु तर्हि तदा चिन्मात्रमेव तस्य तत्वमिति चेत्, किमिदं चिन्मात्रमिति ? दृश्योपलंभव्यावृत्तं स्वावभासनमिति चेत्, तदुपलंभस्य तत्स्वभावत्वे कथं ततो व्यावृत्तिरनित्यत्वापत्तेरतस्वभावत्वे प्रागपि कथं स. तस्य ? तत्स्वभावया प्रकृत्या संसर्गादिति चेत्, न तर्हि कदाचिदपि ततो व्यावृत्तिः प्रकृत्या १ पूर्वावस्थाया अभावलेन । २ यौगो वदति । ३ स्वरूपं, सांख्यस्य मतमदः ४ घटायुपलभव्यावृत्तं ५ अन्यथेति शेषः ६ मुक्तेः प्रागित्यर्थ. ७ प्रधानेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86